Click on words to see what they mean.

धृतराष्ट्र उवाच ।एवं बहुगुणं सैन्यमेवं बहुविधं परम् ।व्यूढमेवं यथाशास्त्रममोघं चैव संजय ॥ १ ॥
पुष्टमस्माकमत्यन्तमभिकामं च नः सदा ।प्रह्वमव्यसनोपेतं पुरस्ताद्दृष्टविक्रमम् ॥ २ ॥
नातिवृद्धमबालं च न कृशं न च पीवरम् ।लघुवृत्तायतप्रायं सारगात्रमनामयम् ॥ ३ ॥
आत्तसंनाहशस्त्रं च बहुशस्त्रपरिग्रहम् ।असियुद्धे नियुद्धे च गदायुद्धे च कोविदम् ॥ ४ ॥
प्रासर्ष्टितोमरेष्वाजौ परिघेष्वायसेषु च ।भिण्डिपालेषु शक्तीषु मुसलेषु च सर्वशः ॥ ५ ॥
कम्पनेषु च चापेषु कणपेषु च सर्वशः ।क्षेपणीषु च चित्रासु मुष्टियुद्धेषु कोविदम् ॥ ६ ॥
अपरोक्षं च विद्यासु व्यायामेषु कृतश्रमम् ।शस्त्रग्रहणविद्यासु सर्वासु परिनिष्ठितम् ॥ ७ ॥
आरोहे पर्यवस्कन्दे सरणे सान्तरप्लुते ।सम्यक्प्रहरणे याने व्यपयाने च कोविदम् ॥ ८ ॥
नागाश्वरथयानेषु बहुशः सुपरीक्षितम् ।परीक्ष्य च यथान्यायं वेतनेनोपपादितम् ॥ ९ ॥
न गोष्ठ्या नोपचारेण न च बन्धुनिमित्ततः ।न सौहृदबलैश्चापि नाकुलीनपरिग्रहैः ॥ १० ॥
समृद्धजनमार्यं च तुष्टसत्कृतबान्धवम् ।कृतोपकारभूयिष्ठं यशस्वि च मनस्वि च ॥ ११ ॥
सजयैश्च नरैर्मुख्यैर्बहुशो मुख्यकर्मभिः ।लोकपालोपमैस्तात पालितं लोकविश्रुतैः ॥ १२ ॥
बहुभिः क्षत्रियैर्गुप्तं पृथिव्यां लोकसंमतैः ।अस्मानभिगतैः कामात्सबलैः सपदानुगैः ॥ १३ ॥
महोदधिमिवापूर्णमापगाभिः समन्ततः ।अपक्षैः पक्षसंकाशै रथैर्नागैश्च संवृतम् ॥ १४ ॥
नानायोधजलं भीमं वाहनोर्मितरङ्गिणम् ।क्षेपण्यसिगदाशक्तिशरप्राससमाकुलम् ॥ १५ ॥
ध्वजभूषणसंबाधं रत्नपट्टेन संचितम् ।वाहनैः परिसर्पद्भिर्वायुवेगविकम्पितम् ॥ १६ ॥
अपारमिव गर्जन्तं सागरप्रतिमं महत् ।द्रोणभीष्माभिसंगुप्तं गुप्तं च कृतवर्मणा ॥ १७ ॥
कृपदुःशासनाभ्यां च जयद्रथमुखैस्तथा ।भगदत्तविकर्णाभ्यां द्रौणिसौबलबाह्लिकैः ॥ १८ ॥
गुप्तं प्रवीरैर्लोकस्य सारवद्भिर्महात्मभिः ।यदहन्यत संग्रामे दिष्टमेतत्पुरातनम् ॥ १९ ॥
नैतादृशं समुद्योगं दृष्टवन्तोऽथ मानुषाः ।ऋषयो वा महाभागाः पुराणा भुवि संजय ॥ २० ॥
ईदृशो हि बलौघस्तु युक्तः शस्त्रास्त्रसंपदा ।वध्यते यत्र संग्रामे किमन्यद्भागधेयतः ॥ २१ ॥
विपरीतमिदं सर्वं प्रतिभाति स्म संजय ।यत्रेदृशं बलं घोरं नातरद्युधि पाण्डवान् ॥ २२ ॥
अथ वा पाण्डवार्थाय देवास्तत्र समागताः ।युध्यन्ते मामकं सैन्यं यदवध्यन्त संजय ॥ २३ ॥
उक्तो हि विदुरेणेह हितं पथ्यं च संजय ।न च गृह्णाति तन्मन्दः पुत्रो दुर्योधनो मम ॥ २४ ॥
तस्य मन्ये मतिः पूर्वं सर्वज्ञस्य महात्मनः ।आसीद्यथागतं तात येन दृष्टमिदं पुरा ॥ २५ ॥
अथ वा भाव्यमेवं हि संजयैतेन सर्वथा ।पुरा धात्रा यथा सृष्टं तत्तथा न तदन्यथा ॥ २६ ॥
« »