Click on words to see what they mean.

धृतराष्ट्र उवाच ।उक्तो द्वीपस्य संक्षेपो विस्तरं ब्रूहि संजय ।यावद्भूम्यवकाशोऽयं दृश्यते शशलक्षणे ।तस्य प्रमाणं प्रब्रूहि ततो वक्ष्यसि पिप्पलम् ॥ १ ॥
वैशंपायन उवाच ।एवमुक्तः स राज्ञा तु संजयो वाक्यमब्रवीत् ।प्रागायता महाराज षडेते रत्नपर्वताः ।अवगाढा ह्युभयतः समुद्रौ पूर्वपश्चिमौ ॥ २ ॥
हिमवान्हेमकूटश्च निषधश्च नगोत्तमः ।नीलश्च वैडूर्यमयः श्वेतश्च रजतप्रभः ।सर्वधातुविनद्धश्च शृङ्गवान्नाम पर्वतः ॥ ३ ॥
एते वै पर्वता राजन्सिद्धचारणसेविताः ।तेषामन्तरविष्कम्भो योजनानि सहस्रशः ॥ ४ ॥
तत्र पुण्या जनपदास्तानि वर्षाणि भारत ।वसन्ति तेषु सत्त्वानि नानाजातीनि सर्वशः ॥ ५ ॥
इदं तु भारतं वर्षं ततो हैमवतं परम् ।हेमकूटात्परं चैव हरिवर्षं प्रचक्षते ॥ ६ ॥
दक्षिणेन तु नीलस्य निषधस्योत्तरेण च ।प्रागायतो महाराज माल्यवान्नाम पर्वतः ॥ ७ ॥
ततः परं माल्यवतः पर्वतो गन्धमादनः ।परिमण्डलस्तयोर्मध्ये मेरुः कनकपर्वतः ॥ ८ ॥
आदित्यतरुणाभासो विधूम इव पावकः ।योजनानां सहस्राणि षोडशाधः किल स्मृतः ॥ ९ ॥
उच्चैश्च चतुराशीतिर्योजनानां महीपते ।ऊर्ध्वमन्तश्च तिर्यक्च लोकानावृत्य तिष्ठति ॥ १० ॥
तस्य पार्श्वे त्विमे द्वीपाश्चत्वारः संस्थिताः प्रभो ।भद्राश्वः केतुमालश्च जम्बूद्वीपश्च भारत ।उत्तराश्चैव कुरवः कृतपुण्यप्रतिश्रयाः ॥ ११ ॥
विहगः सुमुखो यत्र सुपर्णस्यात्मजः किल ।स वै विचिन्तयामास सौवर्णान्प्रेक्ष्य वायसान् ॥ १२ ॥
मेरुरुत्तममध्यानामधमानां च पक्षिणाम् ।अविशेषकरो यस्मात्तस्मादेनं त्यजाम्यहम् ॥ १३ ॥
तमादित्योऽनुपर्येति सततं ज्योतिषां पतिः ।चन्द्रमाश्च सनक्षत्रो वायुश्चैव प्रदक्षिणम् ॥ १४ ॥
स पर्वतो महाराज दिव्यपुष्पफलान्वितः ।भवनैरावृतः सर्वैर्जाम्बूनदमयैः शुभैः ॥ १५ ॥
तत्र देवगणा राजन्गन्धर्वासुरराक्षसाः ।अप्सरोगणसंयुक्ताः शैले क्रीडन्ति नित्यशः ॥ १६ ॥
तत्र ब्रह्मा च रुद्रश्च शक्रश्चापि सुरेश्वरः ।समेत्य विविधैर्यज्ञैर्यजन्तेऽनेकदक्षिणैः ॥ १७ ॥
तुम्बुरुर्नारदश्चैव विश्वावसुर्हहा हुहूः ।अभिगम्यामरश्रेष्ठाः स्तवै स्तुन्वन्ति चाभिभो ॥ १८ ॥
सप्तर्षयो महात्मानः कश्यपश्च प्रजापतिः ।तत्र गच्छन्ति भद्रं ते सदा पर्वणि पर्वणि ॥ १९ ॥
तस्यैव मूर्धन्युशनाः काव्यो दैत्यैर्महीपते ।तस्य हीमानि रत्नानि तस्येमे रत्नपर्वताः ॥ २० ॥
तस्मात्कुबेरो भगवांश्चतुर्थं भागमश्नुते ।ततः कलांशं वित्तस्य मनुष्येभ्यः प्रयच्छति ॥ २१ ॥
पार्श्वे तस्योत्तरे दिव्यं सर्वर्तुकुसुमं शिवम् ।कर्णिकारवनं रम्यं शिलाजालसमुद्गतम् ॥ २२ ॥
तत्र साक्षात्पशुपतिर्दिव्यैर्भूतैः समावृतः ।उमासहायो भगवान्रमते भूतभावनः ॥ २३ ॥
कर्णिकारमयीं मालां बिभ्रत्पादावलम्बिनीम् ।त्रिभिर्नेत्रैः कृतोद्द्योतस्त्रिभिः सूर्यैरिवोदितैः ॥ २४ ॥
तमुग्रतपसः सिद्धाः सुव्रताः सत्यवादिनः ।पश्यन्ति न हि दुर्वृत्तैः शक्यो द्रष्टुं महेश्वरः ॥ २५ ॥
तस्य शैलस्य शिखरात्क्षीरधारा नरेश्वर ।त्रिंशद्बाहुपरिग्राह्या भीमनिर्घातनिस्वना ॥ २६ ॥
पुण्या पुण्यतमैर्जुष्टा गङ्गा भागीरथी शुभा ।पतत्यजस्रवेगेन ह्रदे चान्द्रमसे शुभे ।तया ह्युत्पादितः पुण्यः स ह्रदः सागरोपमः ॥ २७ ॥
तां धारयामास पुरा दुर्धरां पर्वतैरपि ।शतं वर्षसहस्राणां शिरसा वै महेश्वरः ॥ २८ ॥
मेरोस्तु पश्चिमे पार्श्वे केतुमालो महीपते ।जम्बूषण्डश्च तत्रैव सुमहान्नन्दनोपमः ॥ २९ ॥
आयुर्दश सहस्राणि वर्षाणां तत्र भारत ।सुवर्णवर्णाश्च नराः स्त्रियश्चाप्सरसोपमाः ॥ ३० ॥
अनामया वीतशोका नित्यं मुदितमानसाः ।जायन्ते मानवास्तत्र निष्टप्तकनकप्रभाः ॥ ३१ ॥
गन्धमादनशृङ्गेषु कुबेरः सह राक्षसैः ।संवृतोऽप्सरसां संघैर्मोदते गुह्यकाधिपः ॥ ३२ ॥
गन्धमादनपादेषु परेष्वपरगण्डिकाः ।एकादश सहस्राणि वर्षाणां परमायुषः ॥ ३३ ॥
तत्र कृष्णा नरा राजंस्तेजोयुक्ता महाबलाः ।स्त्रियश्चोत्पलपत्राभाः सर्वाः सुप्रियदर्शनाः ॥ ३४ ॥
नीलात्परतरं श्वेतं श्वेताद्धैरण्यकं परम् ।वर्षमैरावतं नाम ततः शृङ्गवतः परम् ॥ ३५ ॥
धनुःसंस्थे महाराज द्वे वर्षे दक्षिणोत्तरे ।इलावृतं मध्यमं तु पञ्च वर्षाणि चैव ह ॥ ३६ ॥
उत्तरोत्तरमेतेभ्यो वर्षमुद्रिच्यते गुणैः ।आयुष्प्रमाणमारोग्यं धर्मतः कामतोऽर्थतः ॥ ३७ ॥
समन्वितानि भूतानि तेषु वर्षेषु भारत ।एवमेषा महाराज पर्वतैः पृथिवी चिता ॥ ३८ ॥
हेमकूटस्तु सुमहान्कैलासो नाम पर्वतः ।यत्र वैश्रवणो राजा गुह्यकैः सह मोदते ॥ ३९ ॥
अस्त्युत्तरेण कैलासं मैनाकं पर्वतं प्रति ।हिरण्यशृङ्गः सुमहान्दिव्यो मणिमयो गिरिः ॥ ४० ॥
तस्य पार्श्वे महद्दिव्यं शुभं काञ्चनवालुकम् ।रम्यं बिन्दुसरो नाम यत्र राजा भगीरथः ।दृष्ट्वा भागीरथीं गङ्गामुवास बहुलाः समाः ॥ ४१ ॥
यूपा मणिमयास्तत्र चित्याश्चापि हिरण्मयाः ।तत्रेष्ट्वा तु गतः सिद्धिं सहस्राक्षो महायशाः ॥ ४२ ॥
सृष्ट्वा भूतपतिर्यत्र सर्वलोकान्सनातनः ।उपास्यते तिग्मतेजा वृतो भूतैः समागतैः ।नरनारायणौ ब्रह्मा मनुः स्थाणुश्च पञ्चमः ॥ ४३ ॥
तत्र त्रिपथगा देवी प्रथमं तु प्रतिष्ठिता ।ब्रह्मलोकादपक्रान्ता सप्तधा प्रतिपद्यते ॥ ४४ ॥
वस्वोकसारा नलिनी पावना च सरस्वती ।जम्बूनदी च सीता च गङ्गा सिन्धुश्च सप्तमी ॥ ४५ ॥
अचिन्त्या दिव्यसंकल्पा प्रभोरेषैव संविधिः ।उपासते यत्र सत्रं सहस्रयुगपर्यये ॥ ४६ ॥
दृश्यादृश्या च भवति तत्र तत्र सरस्वती ।एता दिव्याः सप्त गङ्गास्त्रिषु लोकेषु विश्रुताः ॥ ४७ ॥
रक्षांसि वै हिमवति हेमकूटे तु गुह्यकाः ।सर्पा नागाश्च निषधे गोकर्णे च तपोधनाः ॥ ४८ ॥
देवासुराणां च गृहं श्वेतः पर्वत उच्यते ।गन्धर्वा निषधे शैले नीले ब्रह्मर्षयो नृप ।शृङ्गवांस्तु महाराज पितॄणां प्रतिसंचरः ॥ ४९ ॥
इत्येतानि महाराज सप्त वर्षाणि भागशः ।भूतान्युपनिविष्टानि गतिमन्ति ध्रुवाणि च ॥ ५० ॥
तेषामृद्धिर्बहुविधा दृश्यते दैवमानुषी ।अशक्या परिसंख्यातुं श्रद्धेया तु बुभूषता ॥ ५१ ॥
यां तु पृच्छसि मा राजन्दिव्यामेतां शशाकृतिम् ।पार्श्वे शशस्य द्वे वर्षे उभये दक्षिणोत्तरे ।कर्णौ तु नागद्वीपं च कश्यपद्वीपमेव च ॥ ५२ ॥
ताम्रवर्णः शिरो राजञ्श्रीमान्मलयपर्वतः ।एतद्द्वितीयं द्वीपस्य दृश्यते शशसंस्थितम् ॥ ५३ ॥
« »