Click on words to see what they mean.

संजय उवाच ।शिखण्डी सह मत्स्येन विराटेन विशां पते ।भीष्ममाशु महेष्वासमाससाद सुदुर्जयम् ॥ १ ॥
द्रोणं कृपं विकर्णं च महेष्वासान्महाबलान् ।राज्ञश्चान्यान्रणे शूरान्बहूनार्छद्धनंजयः ॥ २ ॥
सैन्धवं च महेष्वासं सामात्यं सह बन्धुभिः ।प्राच्यांश्च दाक्षिणात्यांश्च भूमिपान्भूमिपर्षभ ॥ ३ ॥
पुत्रं च ते महेष्वासं दुर्योधनममर्षणम् ।दुःसहं चैव समरे भीमसेनोऽभ्यवर्तत ॥ ४ ॥
सहदेवस्तु शकुनिमुलूकं च महारथम् ।पितापुत्रौ महेष्वासावभ्यवर्तत दुर्जयौ ॥ ५ ॥
युधिष्ठिरो महाराज गजानीकं महारथः ।समवर्तत संग्रामे पुत्रेण निकृतस्तव ॥ ६ ॥
माद्रीपुत्रस्तु नकुलः शूरः संक्रन्दनो युधि ।त्रिगर्तानां रथोदारैः समसज्जत पाण्डवः ॥ ७ ॥
अभ्यवर्तन्त दुर्धर्षाः समरे शाल्वकेकयान् ।सात्यकिश्चेकितानश्च सौभद्रश्च महारथः ॥ ८ ॥
धृष्टकेतुश्च समरे राक्षसश्च घटोत्कचः ।पुत्राणां ते रथानीकं प्रत्युद्याताः सुदुर्जयाः ॥ ९ ॥
सेनापतिरमेयात्मा धृष्टद्युम्नो महाबलः ।द्रोणेन समरे राजन्समियायेन्द्रकर्मणा ॥ १० ॥
एवमेते महेष्वासास्तावकाः पाण्डवैः सह ।समेत्य समरे शूराः संप्रहारं प्रचक्रिरे ॥ ११ ॥
मध्यंदिनगते सूर्ये नभस्याकुलतां गते ।कुरवः पाण्डवेयाश्च निजघ्नुरितरेतरम् ॥ १२ ॥
ध्वजिनो हेमचित्राङ्गा विचरन्तो रणाजिरे ।सपताका रथा रेजुर्वैयाघ्रपरिवारणाः ॥ १३ ॥
समेतानां च समरे जिगीषूणां परस्परम् ।बभूव तुमुलः शब्दः सिंहानामिव नर्दताम् ॥ १४ ॥
तत्राद्भुतमपश्याम संप्रहारं सुदारुणम् ।यमकुर्वन्रणे वीराः सृञ्जयाः कुरुभिः सह ॥ १५ ॥
नैव खं न दिशो राजन्न सूर्यं शत्रुतापन ।विदिशो वाप्यपश्याम शरैर्मुक्तैः समन्ततः ॥ १६ ॥
शक्तीनां विमलाग्राणां तोमराणां तथास्यताम् ।निस्त्रिंशानां च पीतानां नीलोत्पलनिभाः प्रभाः ॥ १७ ॥
कवचानां विचित्राणां भूषणानां प्रभास्तथा ।खं दिशः प्रदिशश्चैव भासयामासुरोजसा ।विरराज तदा राजंस्तत्र तत्र रणाङ्गणम् ॥ १८ ॥
रथसिंहासनव्याघ्राः समायान्तश्च संयुगे ।विरेजुः समरे राजन्ग्रहा इव नभस्तले ॥ १९ ॥
भीष्मस्तु रथिनां श्रेष्ठो भीमसेनं महाबलम् ।अवारयत संक्रुद्धः सर्वसैन्यस्य पश्यतः ॥ २० ॥
ततो भीष्मविनिर्मुक्ता रुक्मपुङ्खाः शिलाशिताः ।अभ्यघ्नन्समरे भीमं तैलधौताः सुतेजनाः ॥ २१ ॥
तस्य शक्तिं महावेगां भीमसेनो महाबलः ।क्रुद्धाशीविषसंकाशां प्रेषयामास भारत ॥ २२ ॥
तामापतन्तीं सहसा रुक्मदण्डां दुरासदाम् ।चिच्छेद समरे भीष्मः शरैः संनतपर्वभिः ॥ २३ ॥
ततोऽपरेण भल्लेन पीतेन निशितेन च ।कार्मुकं भीमसेनस्य द्विधा चिच्छेद भारत ॥ २४ ॥
सात्यकिस्तु ततस्तूर्णं भीष्ममासाद्य संयुगे ।शरैर्बहुभिरानर्छत्पितरं ते जनेश्वर ॥ २५ ॥
ततः संधाय वै तीक्ष्णं शरं परमदारुणम् ।वार्ष्णेयस्य रथाद्भीष्मः पातयामास सारथिम् ॥ २६ ॥
तस्याश्वाः प्रद्रुता राजन्निहते रथसारथौ ।तेन तेनैव धावन्ति मनोमारुतरंहसः ॥ २७ ॥
ततः सर्वस्य सैन्यस्य निस्वनस्तुमुलोऽभवत् ।हाहाकारश्च संजज्ञे पाण्डवानां महात्मनाम् ॥ २८ ॥
अभिद्रवत गृह्णीत हयान्यच्छत धावत ।इत्यासीत्तुमुलः शब्दो युयुधानरथं प्रति ॥ २९ ॥
एतस्मिन्नेव काले तु भीष्मः शांतनवः पुनः ।व्यहनत्पाण्डवीं सेनामासुरीमिव वृत्रहा ॥ ३० ॥
ते वध्यमाना भीष्मेण पाञ्चालाः सोमकैः सह ।आर्यां युद्धे मतिं कृत्वा भीष्ममेवाभिदुद्रुवुः ॥ ३१ ॥
धृष्टद्युम्नमुखाश्चापि पार्थाः शांतनवं रणे ।अभ्यधावञ्जिगीषन्तस्तव पुत्रस्य वाहिनीम् ॥ ३२ ॥
तथैव तावका राजन्भीष्मद्रोणमुखाः परान् ।अभ्यधावन्त वेगेन ततो युद्धमवर्तत ॥ ३३ ॥
« »