Click on words to see what they mean.

संजय उवाच ।दृष्ट्वा भीष्मेण संसक्तान्भ्रातॄनन्यांश्च पार्थिवान् ।तमभ्यधावद्गाङ्गेयमुद्यतास्त्रो धनंजयः ॥ १ ॥
पाञ्चजन्यस्य निर्घोषं धनुषो गाण्डिवस्य च ।ध्वजं च दृष्ट्वा पार्थस्य सर्वान्नो भयमाविशत् ॥ २ ॥
असज्जमानं वृक्षेषु धूमकेतुमिवोत्थितम् ।बहुवर्णं च चित्रं च दिव्यं वानरलक्षणम् ।अपश्याम महाराज ध्वजं गाण्डिवधन्वनः ॥ ३ ॥
विद्युतं मेघमध्यस्थां भ्राजमानामिवाम्बरे ।ददृशुर्गाण्डिवं योधा रुक्मपृष्ठं महारथे ॥ ४ ॥
अशुश्रुम भृशं चास्य शक्रस्येवाभिगर्जतः ।सुघोरं तलयोः शब्दं निघ्नतस्तव वाहिनीम् ॥ ५ ॥
चण्डवातो यथा मेघः सविद्युत्स्तनयित्नुमान् ।दिशः संप्लावयन्सर्वाः शरवर्षैः समन्ततः ॥ ६ ॥
अभ्यधावत गाङ्गेयं भैरवास्त्रो धनंजयः ।दिशं प्राचीं प्रतीचीं च न जानीमोऽस्त्रमोहिताः ॥ ७ ॥
कांदिग्भूताः श्रान्तपत्रा हतास्त्रा हतचेतसः ।अन्योन्यमभिसंश्लिष्य योधास्ते भरतर्षभ ॥ ८ ॥
भीष्ममेवाभिलीयन्त सह सर्वैस्तवात्मजैः ।तेषामार्तायनमभूद्भीष्मः शंतनवो रणे ॥ ९ ॥
समुत्पतन्त वित्रस्ता रथेभ्यो रथिनस्तदा ।सादिनश्चाश्वपृष्ठेभ्यो भूमौ चापि पदातयः ॥ १० ॥
श्रुत्वा गाण्डीवनिर्घोषं विस्फूर्जितमिवाशनेः ।सर्वसैन्यानि भीतानि व्यवलीयन्त भारत ॥ ११ ॥
अथ काम्बोजमुख्यैस्तु बृहद्भिः शीघ्रगामिभिः ।गोपानां बहुसाहस्रैर्बलैर्गोवासनो वृतः ॥ १२ ॥
मद्रसौवीरगान्धारैस्त्रिगर्तैश्च विशां पते ।सर्वकालिङ्गमुख्यैश्च कलिङ्गाधिपतिर्वृतः ॥ १३ ॥
नागा नरगणौघाश्च दुःशासनपुरःसराः ।जयद्रथश्च नृपतिः सहितः सर्वराजभिः ॥ १४ ॥
हयारोहवराश्चैव तव पुत्रेण चोदिताः ।चतुर्दश सहस्राणि सौबलं पर्यवारयन् ॥ १५ ॥
ततस्ते सहिताः सर्वे विभक्तरथवाहनाः ।पाण्डवान्समरे जग्मुस्तावका भरतर्षभ ॥ १६ ॥
रथिभिर्वारणैरश्वैः पदातैश्च समीरितम् ।घोरमायोधनं जज्ञे महाभ्रसदृशं रजः ॥ १७ ॥
तोमरप्रासनाराचगजाश्वरथयोधिनाम् ।बलेन महता भीष्मः समसज्जत्किरीटिना ॥ १८ ॥
आवन्त्यः काशिराजेन भीमसेनेन सैन्धवः ।अजातशत्रुर्मद्राणामृषभेण यशस्विना ।सहपुत्रः सहामात्यः शल्येन समसज्जत ॥ १९ ॥
विकर्णः सहदेवेन चित्रसेनः शिखण्डिना ।मत्स्या दुर्योधनं जग्मुः शकुनिं च विशां पते ॥ २० ॥
द्रुपदश्चेकितानश्च सात्यकिश्च महारथः ।द्रोणेन समसज्जन्त सपुत्रेण महात्मना ।कृपश्च कृतवर्मा च धृष्टकेतुमभिद्रुतौ ॥ २१ ॥
एवं प्रजविताश्वानि भ्रान्तनागरथानि च ।सैन्यानि समसज्जन्त प्रयुद्धानि समन्ततः ॥ २२ ॥
निरभ्रे विद्युतस्तीव्रा दिशश्च रजसावृताः ।प्रादुरासन्महोल्काश्च सनिर्घाता विशां पते ॥ २३ ॥
प्रववौ च महावातः पांसुवर्षं पपात च ।नभस्यन्तर्दधे सूर्यः सैन्येन रजसावृतः ॥ २४ ॥
प्रमोहः सर्वसत्त्वानामतीव समपद्यत ।रजसा चाभिभूतानामस्त्रजालैश्च तुद्यताम् ॥ २५ ॥
वीरबाहुविसृष्टानां सर्वावरणभेदिनाम् ।संघातः शरजालानां तुमुलः समपद्यत ॥ २६ ॥
प्रकाशं चक्रुराकाशमुद्यतानि भुजोत्तमैः ।नक्षत्रविमलाभानि शस्त्राणि भरतर्षभ ॥ २७ ॥
आर्षभाणि विचित्राणि रुक्मजालावृतानि च ।संपेतुर्दिक्षु सर्वासु चर्माणि भरतर्षभ ॥ २८ ॥
सूर्यवर्णैश्च निस्त्रिंशैः पात्यमानानि सर्वशः ।दिक्षु सर्वास्वदृश्यन्त शरीराणि शिरांसि च ॥ २९ ॥
भग्नचक्राक्षनीडाश्च निपातितमहाध्वजाः ।हताश्वाः पृथिवीं जग्मुस्तत्र तत्र महारथाः ॥ ३० ॥
परिपेतुर्हयाश्चात्र केचिच्छस्त्रकृतव्रणाः ।रथान्विपरिकर्षन्तो हतेषु रथयोधिषु ॥ ३१ ॥
शराहता भिन्नदेहा बद्धयोक्त्रा हयोत्तमाः ।युगानि पर्यकर्षन्त तत्र तत्र स्म भारत ॥ ३२ ॥
अदृश्यन्त ससूताश्च साश्वाः सरथयोधिनः ।एकेन बलिना राजन्वारणेन हता रथाः ॥ ३३ ॥
गन्धहस्तिमदस्रावमाघ्राय बहवो रणे ।संनिपाते बलौघानां वीतमाददिरे गजाः ॥ ३४ ॥
सतोमरमहामात्रैर्निपतद्भिर्गतासुभिः ।बभूवायोधनं छन्नं नाराचाभिहतैर्गजैः ॥ ३५ ॥
संनिपाते बलौघानां प्रेषितैर्वरवारणैः ।निपेतुर्युधि संभग्नाः सयोधाः सध्वजा रथाः ॥ ३६ ॥
नागराजोपमैर्हस्तैर्नागैराक्षिप्य संयुगे ।व्यदृश्यन्त महाराज संभग्ना रथकूबराः ॥ ३७ ॥
विशीर्णरथजालाश्च केशेष्वाक्षिप्य दन्तिभिः ।द्रुमशाखा इवाविध्य निष्पिष्टा रथिनो रणे ॥ ३८ ॥
रथेषु च रथान्युद्धे संसक्तान्वरवारणाः ।विकर्षन्तो दिशः सर्वाः संपेतुः सर्वशब्दगाः ॥ ३९ ॥
तेषां तथा कर्षतां च गजानां रूपमाबभौ ।सरःसु नलिनीजालं विषक्तमिव कर्षताम् ॥ ४० ॥
एवं संछादितं तत्र बभूवायोधनं महत् ।सादिभिश्च पदातैश्च सध्वजैश्च महारथैः ॥ ४१ ॥
« »