Click on words to see what they mean.

धृतराष्ट्र उवाच ।भयं मे सुमहज्जातं विस्मयश्चैव संजय ।श्रुत्वा पाण्डुकुमाराणां कर्म देवैः सुदुष्करम् ॥ १ ॥
पुत्राणां च पराभवं श्रुत्वा संजय सर्वशः ।चिन्ता मे महती सूत भविष्यति कथं त्विति ॥ २ ॥
ध्रुवं विदुरवाक्यानि धक्ष्यन्ति हृदयं मम ।यथा हि दृश्यते सर्वं दैवयोगेन संजय ॥ ३ ॥
यत्र भीष्ममुखाञ्शूरानस्त्रज्ञान्योधसत्तमान् ।पाण्डवानामनीकानि योधयन्ति प्रहारिणः ॥ ४ ॥
केनावध्या महात्मानः पाण्डुपुत्रा महाबलाः ।केन दत्तवरास्तात किं वा ज्ञानं विदन्ति ते ।येन क्षयं न गच्छन्ति दिवि तारागणा इव ॥ ५ ॥
पुनः पुनर्न मृष्यामि हतं सैन्यं स्म पाण्डवैः ।मय्येव दण्डः पतति दैवात्परमदारुणः ॥ ६ ॥
यथावध्याः पाण्डुसुता यथा वध्याश्च मे सुताः ।एतन्मे सर्वमाचक्ष्व यथातत्त्वेन संजय ॥ ७ ॥
न हि पारं प्रपश्यामि दुःखस्यास्य कथंचन ।समुद्रस्येव महतो भुजाभ्यां प्रतरन्नरः ॥ ८ ॥
पुत्राणां व्यसनं मन्ये ध्रुवं प्राप्तं सुदारुणम् ।घातयिष्यति मे पुत्रान्सर्वान्भीमो न संशयः ॥ ९ ॥
न हि पश्यामि तं वीरं यो मे रक्षेत्सुतान्रणे ।ध्रुवं विनाशः समरे पुत्राणां मम संजय ॥ १० ॥
तस्मान्मे कारणं सूत युक्तिं चैव विशेषतः ।पृच्छतोऽद्य यथातत्त्वं सर्वमाख्यातुमर्हसि ॥ ११ ॥
दुर्योधनोऽपि यच्चक्रे दृष्ट्वा स्वान्विमुखान्रणे ।भीष्मद्रोणौ कृपश्चैव सौबलेयो जयद्रथः ।द्रौणिर्वापि महेष्वासो विकर्णो वा महाबलः ॥ १२ ॥
निश्चयो वापि कस्तेषां तदा ह्यासीन्महात्मनाम् ।विमुखेषु महाप्राज्ञ मम पुत्रेषु संजय ॥ १३ ॥
संजय उवाच ।शृणु राजन्नवहितः श्रुत्वा चैवावधारय ।नैव मन्त्रकृतं किंचिन्नैव मायां तथाविधाम् ।न वै विभीषिकां कांचिद्राजन्कुर्वन्ति पाण्डवाः ॥ १४ ॥
युध्यन्ति ते यथान्यायं शक्तिमन्तश्च संयुगे ।धर्मेण सर्वकार्याणि कीर्तितानीति भारत ।आरभन्ते सदा पार्थाः प्रार्थयाना महद्यशः ॥ १५ ॥
न ते युद्धान्निवर्तन्ते धर्मोपेता महाबलाः ।श्रिया परमया युक्ता यतो धर्मस्ततो जयः ।तेनावध्या रणे पार्था जययुक्ताश्च पार्थिव ॥ १६ ॥
तव पुत्रा दुरात्मानः पापेष्वभिरताः सदा ।निष्ठुरा हीनकर्माणस्तेन हीयन्ति संयुगे ॥ १७ ॥
सुबहूनि नृशंसानि पुत्रैस्तव जनेश्वर ।निकृतानीह पाण्डूनां नीचैरिव यथा नरैः ॥ १८ ॥
सर्वं च तदनादृत्य पुत्राणां तव किल्बिषम् ।सापह्नवाः सदैवासन्पाण्डवाः पाण्डुपूर्वज ।न चैनान्बहु मन्यन्ते पुत्रास्तव विशां पते ॥ १९ ॥
तस्य पापस्य सततं क्रियमाणस्य कर्मणः ।संप्राप्तं सुमहद्घोरं फलं किंपाकसंनिभम् ।स तद्भुङ्क्ष्व महाराज सपुत्रः ससुहृज्जनः ॥ २० ॥
नावबुध्यसि यद्राजन्वार्यमाणः सुहृज्जनैः ।विदुरेणाथ भीष्मेण द्रोणेन च महात्मना ॥ २१ ॥
तथा मया चाप्यसकृद्वार्यमाणो न गृह्णसि ।वाक्यं हितं च पथ्यं च मर्त्यः पथ्यमिवौषधम् ।पुत्राणां मतमास्थाय जितान्मन्यसि पाण्डवान् ॥ २२ ॥
शृणु भूयो यथातत्त्वं यन्मां त्वं परिपृच्छसि ।कारणं भरतश्रेष्ठ पाण्डवानां जयं प्रति ।तत्तेऽहं कथयिष्यामि यथाश्रुतमरिंदम ॥ २३ ॥
दुर्योधनेन संपृष्ट एतमर्थं पितामहः ।दृष्ट्वा भ्रातॄन्रणे सर्वान्निर्जितान्सुमहारथान् ॥ २४ ॥
शोकसंमूढहृदयो निशाकाले स्म कौरवः ।पितामहं महाप्राज्ञं विनयेनोपगम्य ह ।यदब्रवीत्सुतस्तेऽसौ तन्मे शृणु जनेश्वर ॥ २५ ॥
दुर्योधन उवाच ।त्वं च द्रोणश्च शल्यश्च कृपो द्रौणिस्तथैव च ।कृतवर्मा च हार्दिक्यः काम्बोजश्च सुदक्षिणः ॥ २६ ॥
भूरिश्रवा विकर्णश्च भगदत्तश्च वीर्यवान् ।महारथाः समाख्याताः कुलपुत्रास्तनुत्यजः ॥ २७ ॥
त्रयाणामपि लोकानां पर्याप्ता इति मे मतिः ।पाण्डवानां समस्ताश्च न तिष्ठन्ति पराक्रमे ॥ २८ ॥
तत्र मे संशयो जातस्तन्ममाचक्ष्व पृच्छतः ।यं समाश्रित्य कौन्तेया जयन्त्यस्मान्पदे पदे ॥ २९ ॥
भीष्म उवाच ।शृणु राजन्वचो मह्यं यत्त्वां वक्ष्यामि कौरव ।बहुशश्च ममोक्तोऽसि न च मे तत्त्वया कृतम् ॥ ३० ॥
क्रियतां पाण्डवैः सार्धं शमो भरतसत्तम ।एतत्क्षममहं मन्ये पृथिव्यास्तव चाभिभो ॥ ३१ ॥
भुञ्जेमां पृथिवीं राजन्भ्रातृभिः सहितः सुखी ।दुर्हृदस्तापयन्सर्वान्नन्दयंश्चापि बान्धवान् ॥ ३२ ॥
न च मे क्रोशतस्तात श्रुतवानसि वै पुरा ।तदिदं समनुप्राप्तं यत्पाण्डूनवमन्यसे ॥ ३३ ॥
यश्च हेतुरवध्यत्वे तेषामक्लिष्टकर्मणाम् ।तं शृणुष्व महाराज मम कीर्तयतः प्रभो ॥ ३४ ॥
नास्ति लोकेषु तद्भूतं भविता नो भविष्यति ।यो जयेत्पाण्डवान्संख्ये पालिताञ्शार्ङ्गधन्वना ॥ ३५ ॥
यत्तु मे कथितं तात मुनिभिर्भावितात्मभिः ।पुराणगीतं धर्मज्ञ तच्छृणुष्व यथातथम् ॥ ३६ ॥
पुरा किल सुराः सर्वे ऋषयश्च समागताः ।पितामहमुपासेदुः पर्वते गन्धमादने ॥ ३७ ॥
मध्ये तेषां समासीनः प्रजापतिरपश्यत ।विमानं जाज्वलद्भासा स्थितं प्रवरमम्बरे ॥ ३८ ॥
ध्यानेनावेद्य तं ब्रह्मा कृत्वा च नियतोऽञ्जलिम् ।नमश्चकार हृष्टात्मा परमं परमेश्वरम् ॥ ३९ ॥
ऋषयस्त्वथ देवाश्च दृष्ट्वा ब्रह्माणमुत्थितम् ।स्थिताः प्राञ्जलयः सर्वे पश्यन्तो महदद्भुतम् ॥ ४० ॥
यथावच्च तमभ्यर्च्य ब्रह्मा ब्रह्मविदां वरः ।जगाद जगतः स्रष्टा परं परमधर्मवित् ॥ ४१ ॥
विश्वावसुर्विश्वमूर्तिर्विश्वेशो विष्वक्सेनो विश्वकर्मा वशी च ।विश्वेश्वरो वासुदेवोऽसि तस्माद्योगात्मानं दैवतं त्वामुपैमि ॥ ४२ ॥
जय विश्व महादेव जय लोकहिते रत ।जय योगीश्वर विभो जय योगपरावर ॥ ४३ ॥
पद्मगर्भ विशालाक्ष जय लोकेश्वरेश्वर ।भूतभव्यभवन्नाथ जय सौम्यात्मजात्मज ॥ ४४ ॥
असंख्येयगुणाजेय जय सर्वपरायण ।नारायण सुदुष्पार जय शार्ङ्गधनुर्धर ॥ ४५ ॥
सर्वगुह्यगुणोपेत विश्वमूर्ते निरामय ।विश्वेश्वर महाबाहो जय लोकार्थतत्पर ॥ ४६ ॥
महोरग वराहाद्य हरिकेश विभो जय ।हरिवास विशामीश विश्वावासामिताव्यय ॥ ४७ ॥
व्यक्ताव्यक्तामितस्थान नियतेन्द्रिय सेन्द्रिय ।असंख्येयात्मभावज्ञ जय गम्भीर कामद ॥ ४८ ॥
अनन्त विदितप्रज्ञ नित्यं भूतविभावन ।कृतकार्य कृतप्रज्ञ धर्मज्ञ विजयाजय ॥ ४९ ॥
गुह्यात्मन्सर्वभूतात्मन्स्फुटसंभूतसंभव ।भूतार्थतत्त्व लोकेश जय भूतविभावन ॥ ५० ॥
आत्मयोने महाभाग कल्पसंक्षेपतत्पर ।उद्भावन मनोद्भाव जय ब्रह्मजनप्रिय ॥ ५१ ॥
निसर्गसर्गाभिरत कामेश परमेश्वर ।अमृतोद्भव सद्भाव युगाग्ने विजयप्रद ॥ ५२ ॥
प्रजापतिपते देव पद्मनाभ महाबल ।आत्मभूत महाभूत कर्मात्मञ्जय कर्मद ॥ ५३ ॥
पादौ तव धरा देवी दिशो बाहुर्दिवं शिरः ।मूर्तिस्तेऽहं सुराः कायश्चन्द्रादित्यौ च चक्षुषी ॥ ५४ ॥
बलं तपश्च सत्यं च धर्मः कामात्मजः प्रभो ।तेजोऽग्निः पवनः श्वास आपस्ते स्वेदसंभवाः ॥ ५५ ॥
अश्विनौ श्रवणौ नित्यं देवी जिह्वा सरस्वती ।वेदाः संस्कारनिष्ठा हि त्वयीदं जगदाश्रितम् ॥ ५६ ॥
न संख्यां न परीमाणं न तेजो न पराक्रमम् ।न बलं योगयोगीश जानीमस्ते न संभवम् ॥ ५७ ॥
त्वद्भक्तिनिरता देव नियमैस्त्वा समाहिताः ।अर्चयामः सदा विष्णो परमेशं महेश्वरम् ॥ ५८ ॥
ऋषयो देवगन्धर्वा यक्षराक्षसपन्नगाः ।पिशाचा मानुषाश्चैव मृगपक्षिसरीसृपाः ॥ ५९ ॥
एवमादि मया सृष्टं पृथिव्यां त्वत्प्रसादजम् ।पद्मनाभ विशालाक्ष कृष्ण दुःस्वप्ननाशन ॥ ६० ॥
त्वं गतिः सर्वभूतानां त्वं नेता त्वं जगन्मुखम् ।त्वत्प्रसादेन देवेश सुखिनो विबुधाः सदा ॥ ६१ ॥
पृथिवी निर्भया देव त्वत्प्रसादात्सदाभवत् ।तस्माद्भव विशालाक्ष यदुवंशविवर्धनः ॥ ६२ ॥
धर्मसंस्थापनार्थाय दैतेयानां वधाय च ।जगतो धारणार्थाय विज्ञाप्यं कुरु मे प्रभो ॥ ६३ ॥
यदेतत्परमं गुह्यं त्वत्प्रसादमयं विभो ।वासुदेव तदेतत्ते मयोद्गीतं यथातथम् ॥ ६४ ॥
सृष्ट्वा संकर्षणं देवं स्वयमात्मानमात्मना ।कृष्ण त्वमात्मनास्राक्षीः प्रद्युम्नं चात्मसंभवम् ॥ ६५ ॥
प्रद्युम्नाच्चानिरुद्धं त्वं यं विदुर्विष्णुमव्ययम् ।अनिरुद्धोऽसृजन्मां वै ब्रह्माणं लोकधारिणम् ॥ ६६ ॥
वासुदेवमयः सोऽहं त्वयैवास्मि विनिर्मितः ।विभज्य भागशोऽऽत्मानं व्रज मानुषतां विभो ॥ ६७ ॥
तत्रासुरवधं कृत्वा सर्वलोकसुखाय वै ।धर्मं स्थाप्य यशः प्राप्य योगं प्राप्स्यसि तत्त्वतः ॥ ६८ ॥
त्वां हि ब्रह्मर्षयो लोके देवाश्चामितविक्रम ।तैस्तैश्च नामभिर्भक्ता गायन्ति परमात्मकम् ॥ ६९ ॥
स्थिताश्च सर्वे त्वयि भूतसंघाः कृत्वाश्रयं त्वां वरदं सुबाहो ।अनादिमध्यान्तमपारयोगं लोकस्य सेतुं प्रवदन्ति विप्राः ॥ ७० ॥
« »