Click on words to see what they mean.

संजय उवाच ।ततो भूरिश्रवा राजन्सात्यकिं नवभिः शरैः ।अविध्यद्भृशसंक्रुद्धस्तोत्त्रैरिव महाद्विपम् ॥ १ ॥
कौरवं सात्यकिश्चैव शरैः संनतपर्वभिः ।अवाकिरदमेयात्मा सर्वलोकस्य पश्यतः ॥ २ ॥
ततो दुर्योधनो राजा सोदर्यैः परिवारितः ।सौमदत्तिं रणे यत्तः समन्तात्पर्यवारयत् ॥ ३ ॥
तथैव पाण्डवाः सर्वे सात्यकिं रभसं रणे ।परिवार्य स्थिताः संख्ये समन्तात्सुमहौजसः ॥ ४ ॥
भीमसेनस्तु संक्रुद्धो गदामुद्यम्य भारत ।दुर्योधनमुखान्सर्वान्पुत्रांस्ते पर्यवारयत् ॥ ५ ॥
रथैरनेकसाहस्रैः क्रोधामर्षसमन्वितः ।नन्दकस्तव पुत्रस्तु भीमसेनं महाबलम् ।विव्याध निशितैः षड्भिः कङ्कपत्रैः शिलाशितैः ॥ ६ ॥
दुर्योधनस्तु समरे भीमसेनं महाबलम् ।आजघानोरसि क्रुद्धो मार्गणैर्निशितैस्त्रिभिः ॥ ७ ॥
ततो भीमो महाबाहुः स्वरथं सुमहाबलः ।आरुरोह रथश्रेष्ठं विशोकं चेदमब्रवीत् ॥ ८ ॥
एते महारथाः शूरा धार्तराष्ट्रा महाबलाः ।मामेव भृशसंक्रुद्धा हन्तुमभ्युद्यता युधि ॥ ९ ॥
एतानद्य हनिष्यामि पश्यतस्ते न संशयः ।तस्मान्ममाश्वान्संग्रामे यत्तः संयच्छ सारथे ॥ १० ॥
एवमुक्त्वा ततः पार्थः पुत्रं दुर्योधनं तव ।विव्याध दशभिस्तीक्ष्णैः शरैः कनकभूषणैः ।नन्दकं च त्रिभिर्बाणैः प्रत्यविध्यत्स्तनान्तरे ॥ ११ ॥
तं तु दुर्योधनः षष्ट्या विद्ध्वा भीमं महाबलम् ।त्रिभिरन्यैः सुनिशितैर्विशोकं प्रत्यविध्यत ॥ १२ ॥
भीमस्य च रणे राजन्धनुश्चिच्छेद भास्वरम् ।मुष्टिदेशे शरैस्तीक्ष्णैस्त्रिभी राजा हसन्निव ॥ १३ ॥
भीमस्तु प्रेक्ष्य यन्तारं विशोकं संयुगे तदा ।पीडितं विशिखैस्तीक्ष्णैस्तव पुत्रेण धन्विना ॥ १४ ॥
अमृष्यमाणः संक्रुद्धो धनुर्दिव्यं परामृशत् ।पुत्रस्य ते महाराज वधार्थं भरतर्षभ ॥ १५ ॥
समादत्त च संरब्धः क्षुरप्रं लोमवाहिनम् ।तेन चिच्छेद नृपतेर्भीमः कार्मुकमुत्तमम् ॥ १६ ॥
सोऽपविध्य धनुश्छिन्नं क्रोधेन प्रज्वलन्निव ।अन्यत्कार्मुकमादत्त सत्वरं वेगवत्तरम् ॥ १७ ॥
संधत्त विशिखं घोरं कालमृत्युसमप्रभम् ।तेनाजघान संक्रुद्धो भीमसेनं स्तनान्तरे ॥ १८ ॥
स गाढविद्धो व्यथितः स्यन्दनोपस्थ आविशत् ।स निषण्णो रथोपस्थे मूर्छामभिजगाम ह ॥ १९ ॥
तं दृष्ट्वा व्यथितं भीममभिमन्युपुरोगमाः ।नामृष्यन्त महेष्वासाः पाण्डवानां महारथाः ॥ २० ॥
ततस्तु तुमुलां वृष्टिं शस्त्राणां तिग्मतेजसाम् ।पातयामासुरव्यग्राः पुत्रस्य तव मूर्धनि ॥ २१ ॥
प्रतिलभ्य ततः संज्ञां भीमसेनो महाबलः ।दुर्योधनं त्रिभिर्विद्ध्वा पुनर्विव्याध पञ्चभिः ॥ २२ ॥
शल्यं च पञ्चविंशत्या शरैर्विव्याध पाण्डवः ।रुक्मपुङ्खैर्महेष्वासः स विद्धो व्यपयाद्रणात् ॥ २३ ॥
प्रत्युद्ययुस्ततो भीमं तव पुत्राश्चतुर्दश ।सेनापतिः सुषेणश्च जलसंधः सुलोचनः ॥ २४ ॥
उग्रो भीमरथो भीमो भीमबाहुरलोलुपः ।दुर्मुखो दुष्प्रधर्षश्च विवित्सुर्विकटः समः ॥ २५ ॥
विसृजन्तो बहून्बाणान्क्रोधसंरक्तलोचनाः ।भीमसेनमभिद्रुत्य विव्यधुः सहिता भृशम् ॥ २६ ॥
पुत्रांस्तु तव संप्रेक्ष्य भीमसेनो महाबलः ।सृक्किणी विलिहन्वीरः पशुमध्ये वृको यथा ।सेनापतेः क्षुरप्रेण शिरश्चिच्छेद पाण्डवः ॥ २७ ॥
जलसंधं विनिर्भिद्य सोऽनयद्यमसादनम् ।सुषेणं च ततो हत्वा प्रेषयामास मृत्यवे ॥ २८ ॥
उग्रस्य सशिरस्त्राणं शिरश्चन्द्रोपमं भुवि ।पातयामास भल्लेन कुण्डलाभ्यां विभूषितम् ॥ २९ ॥
भीमबाहुं च सप्तत्या साश्वकेतुं ससारथिम् ।निनाय समरे भीमः परलोकाय मारिष ॥ ३० ॥
भीमं भीमरथं चोभौ भीमसेनो हसन्निव ।भ्रातरौ रभसौ राजन्ननयद्यमसादनम् ॥ ३१ ॥
ततः सुलोचनं भीमः क्षुरप्रेण महामृधे ।मिषतां सर्वसैन्यानामनयद्यमसादनम् ॥ ३२ ॥
पुत्रास्तु तव तं दृष्ट्वा भीमसेनपराक्रमम् ।शेषा येऽन्येऽभवंस्तत्र ते भीमस्य भयार्दिताः ।विप्रद्रुता दिशो राजन्वध्यमाना महात्मना ॥ ३३ ॥
ततोऽब्रवीच्छांतनवः सर्वानेव महारथान् ।एष भीमो रणे क्रुद्धो धार्तराष्ट्रान्महारथान् ॥ ३४ ॥
यथाप्राग्र्यान्यथाज्येष्ठान्यथाशूरांश्च संगतान् ।निपातयत्युग्रधन्वा तं प्रमथ्नीत पार्थिवाः ॥ ३५ ॥
एवमुक्तास्ततः सर्वे धार्तराष्ट्रस्य सैनिकाः ।अभ्यद्रवन्त संक्रुद्धा भीमसेनं महाबलम् ॥ ३६ ॥
भगदत्तः प्रभिन्नेन कुञ्जरेण विशां पते ।अपतत्सहसा तत्र यत्र भीमो व्यवस्थितः ॥ ३७ ॥
आपतन्नेव च रणे भीमसेनं शिलाशितैः ।अदृश्यं समरे चक्रे जीमूत इव भास्करम् ॥ ३८ ॥
अभिमन्युमुखास्तत्र नामृष्यन्त महारथाः ।भीमस्याच्छादनं संख्ये स्वबाहुबलमाश्रिताः ॥ ३९ ॥
त एनं शरवर्षेण समन्तात्पर्यवारयन् ।गजं च शरवृष्ट्या तं बिभिदुस्ते समन्ततः ॥ ४० ॥
स शस्त्रवृष्ट्याभिहतः प्राद्रवद्द्विगुणं पदम् ।प्राग्ज्योतिषगजो राजन्नानालिङ्गैः सुतेजनैः ॥ ४१ ॥
संजातरुधिरोत्पीडः प्रेक्षणीयोऽभवद्रणे ।गभस्तिभिरिवार्कस्य संस्यूतो जलदो महान् ॥ ४२ ॥
स चोदितो मदस्रावी भगदत्तेन वारणः ।अभ्यधावत तान्सर्वान्कालोत्सृष्ट इवान्तकः ।द्विगुणं जवमास्थाय कम्पयंश्चरणैर्महीम् ॥ ४३ ॥
तस्य तत्सुमहद्रूपं दृष्ट्वा सर्वे महारथाः ।असह्यं मन्यमानास्ते नातिप्रमनसोऽभवन् ॥ ४४ ॥
ततस्तु नृपतिः क्रुद्धो भीमसेनं स्तनान्तरे ।आजघान नरव्याघ्र शरेण नतपर्वणा ॥ ४५ ॥
सोऽतिविद्धो महेष्वासस्तेन राज्ञा महारथः ।मूर्छयाभिपरीताङ्गो ध्वजयष्टिमुपाश्रितः ॥ ४६ ॥
तांस्तु भीतान्समालक्ष्य भीमसेनं च मूर्छितम् ।ननाद बलवन्नादं भगदत्तः प्रतापवान् ॥ ४७ ॥
ततो घटोत्कचो राजन्प्रेक्ष्य भीमं तथागतम् ।संक्रुद्धो राक्षसो घोरस्तत्रैवान्तरधीयत ॥ ४८ ॥
स कृत्वा दारुणां मायां भीरूणां भयवर्धिनीम् ।अदृश्यत निमेषार्धाद्घोररूपं समाश्रितः ॥ ४९ ॥
ऐरावतं समारुह्य स्वयं मायामयं कृतम् ।तस्य चान्येऽपि दिङ्नागा बभूवुरनुयायिनः ॥ ५० ॥
अञ्जनो वामनश्चैव महापद्मश्च सुप्रभः ।त्रय एते महानागा राक्षसैः समधिष्ठिताः ॥ ५१ ॥
महाकायास्त्रिधा राजन्प्रस्रवन्तो मदं बहु ।तेजोवीर्यबलोपेता महाबलपराक्रमाः ॥ ५२ ॥
घटोत्कचस्तु स्वं नागं चोदयामास तं ततः ।सगजं भगदत्तं तु हन्तुकामः परंतपः ॥ ५३ ॥
ते चान्ये चोदिता नागा राक्षसैस्तैर्महाबलैः ।परिपेतुः सुसंरब्धाश्चतुर्दंष्ट्राश्चतुर्दिशम् ।भगदत्तस्य तं नागं विषाणैस्तेऽभ्यपीडयन् ॥ ५४ ॥
संपीड्यमानस्तैर्नागैर्वेदनार्तः शरातुरः ।सोऽनदत्सुमहानादमिन्द्राशनिसमस्वनम् ॥ ५५ ॥
तस्य तं नदतो नादं सुघोरं भीमनिस्वनम् ।श्रुत्वा भीष्मोऽब्रवीद्द्रोणं राजानं च सुयोधनम् ॥ ५६ ॥
एष युध्यति संग्रामे हैडिम्बेन दुरात्मना ।भगदत्तो महेष्वासः कृच्छ्रेण परिवर्तते ॥ ५७ ॥
राक्षसश्च महामायः स च राजातिकोपनः ।तौ समेतौ महावीर्यौ कालमृत्युसमावुभौ ॥ ५८ ॥
श्रूयते ह्येष हृष्टानां पाण्डवानां महास्वनः ।हस्तिनश्चैव सुमहान्भीतस्य रुवतो ध्वनिः ॥ ५९ ॥
तत्र गच्छाम भद्रं वो राजानं परिरक्षितुम् ।अरक्ष्यमाणः समरे क्षिप्रं प्राणान्विमोक्ष्यते ॥ ६० ॥
ते त्वरध्वं महावीर्याः किं चिरेण प्रयामहे ।महान्हि वर्तते रौद्रः संग्रामो लोमहर्षणः ॥ ६१ ॥
भक्तश्च कुलपुत्रश्च शूरश्च पृतनापतिः ।युक्तं तस्य परित्राणं कर्तुमस्माभिरच्युताः ॥ ६२ ॥
भीष्मस्य तद्वचः श्रुत्वा भारद्वाजपुरोगमाः ।सहिताः सर्वराजानो भगदत्तपरीप्सया ।उत्तमं जवमास्थाय प्रययुर्यत्र सोऽभवत् ॥ ६३ ॥
तान्प्रयातान्समालोक्य युधिष्ठिरपुरोगमाः ।पाञ्चालाः पाण्डवैः सार्धं पृष्ठतोऽनुययुः परान् ॥ ६४ ॥
तान्यनीकान्यथालोक्य राक्षसेन्द्रः प्रतापवान् ।ननाद सुमहानादं विस्फोटमशनेरिव ॥ ६५ ॥
तस्य तं निनदं श्रुत्वा दृष्ट्वा नागांश्च युध्यतः ।भीष्मः शांतनवो भूयो भारद्वाजमभाषत ॥ ६६ ॥
न रोचते मे संग्रामो हैडिम्बेन दुरात्मना ।बलवीर्यसमाविष्टः ससहायश्च सांप्रतम् ॥ ६७ ॥
नैष शक्यो युधा जेतुमपि वज्रभृता स्वयम् ।लब्धलक्ष्यः प्रहारी च वयं च श्रान्तवाहनाः ।पाञ्चालैः पाण्डवेयैश्च दिवसं क्षतविक्षताः ॥ ६८ ॥
तन्न मे रोचते युद्धं पाण्डवैर्जितकाशिभिः ।घुष्यतामवहारोऽद्य श्वो योत्स्यामः परैः सह ॥ ६९ ॥
पितामहवचः श्रुत्वा तथा चक्रुः स्म कौरवाः ।उपायेनापयानं ते घटोत्कचभयार्दिताः ॥ ७० ॥
कौरवेषु निवृत्तेषु पाण्डवा जितकाशिनः ।सिंहनादमकुर्वन्त शङ्खवेणुस्वनैः सह ॥ ७१ ॥
एवं तदभवद्युद्धं दिवसं भरतर्षभ ।पाण्डवानां कुरूणां च पुरस्कृत्य घटोत्कचम् ॥ ७२ ॥
कौरवास्तु ततो राजन्प्रययुः शिबिरं स्वकम् ।व्रीडमाना निशाकाले पाण्डवेयैः पराजिताः ॥ ७३ ॥
शरविक्षतगात्राश्च पाण्डुपुत्रा महारथाः ।युद्धे सुमनसो भूत्वा शिबिरायैव जग्मिरे ॥ ७४ ॥
पुरस्कृत्य महाराज भीमसेनघटोत्कचौ ।पूजयन्तस्तदान्योन्यं मुदा परमया युताः ॥ ७५ ॥
नदन्तो विविधान्नादांस्तूर्यस्वनविमिश्रितान् ।सिंहनादांश्च कुर्वाणा विमिश्राञ्शङ्खनिस्वनैः ॥ ७६ ॥
विनदन्तो महात्मानः कम्पयन्तश्च मेदिनीम् ।घट्टयन्तश्च मर्माणि तव पुत्रस्य मारिष ।प्रयाताः शिबिरायैव निशाकाले परंतपाः ॥ ७७ ॥
दुर्योधनस्तु नृपतिर्दीनो भ्रातृवधेन च ।मुहूर्तं चिन्तयामास बाष्पशोकसमाकुलः ॥ ७८ ॥
ततः कृत्वा विधिं सर्वं शिबिरस्य यथाविधि ।प्रदध्यौ शोकसंतप्तो भ्रातृव्यसनकर्शितः ॥ ७९ ॥
« »