Click on words to see what they mean.

संजय उवाच ।तस्मिन्हते गजानीके पुत्रो दुर्योधनस्तव ।भीमसेनं घ्नतेत्येवं सर्वसैन्यान्यचोदयत् ॥ १ ॥
ततः सर्वाण्यनीकानि तव पुत्रस्य शासनात् ।अभ्यद्रवन्भीमसेनं नदन्तं भैरवान्रवान् ॥ २ ॥
तं बलौघमपर्यन्तं देवैरपि दुरुत्सहम् ।आपतन्तं सुदुष्पारं समुद्रमिव पर्वणि ॥ ३ ॥
रथनागाश्वकलिलं शङ्खदुन्दुभिनादितम् ।अथानन्तमपारं च नरेन्द्रस्तिमितह्रदम् ॥ ४ ॥
तं भीमसेनः समरे महोदधिमिवापरम् ।सेनासागरमक्षोभ्यं वेलेव समवारयत् ॥ ५ ॥
तदाश्चर्यमपश्याम श्रद्धेयमपि चाद्भुतम् ।भीमसेनस्य समरे राजन्कर्मातिमानुषम् ॥ ६ ॥
उदीर्णां पृथिवीं सर्वां साश्वां सरथकुञ्जराम् ।असंभ्रमं भीमसेनो गदया समताडयत् ॥ ७ ॥
स संवार्य बलौघांस्तान्गदया रथिनां वरः ।अतिष्ठत्तुमुले भीमो गिरिर्मेरुरिवाचलः ॥ ८ ॥
तस्मिन्सुतुमुले घोरे काले परमदारुणे ।भ्रातरश्चैव पुत्राश्च धृष्टद्युम्नश्च पार्षतः ॥ ९ ॥
द्रौपदेयाभिमन्युश्च शिखण्डी च महारथः ।न प्राजहन्भीमसेनं भये जाते महाबलम् ॥ १० ॥
ततः शैक्यायसीं गुर्वीं प्रगृह्य महतीं गदाम् ।अवधीत्तावकान्योधान्दण्डपाणिरिवान्तकः ।पोथयन्रथवृन्दानि वाजिवृन्दानि चाभिभूः ॥ ११ ॥
व्यचरत्समरे भीमो युगान्ते पावको यथा ।विनिघ्नन्समरे सर्वान्युगान्ते कालवद्विभुः ॥ १२ ॥
ऊरुवेगेन संकर्षन्रथजालानि पाण्डवः ।प्रमर्दयन्गजान्सर्वान्नड्वलानीव कुञ्जरः ॥ १३ ॥
मृद्नन्रथेभ्यो रथिनो गजेभ्यो गजयोधिनः ।सादिनश्चाश्वपृष्ठेभ्यो भूमौ चैव पदातिनः ॥ १४ ॥
तत्र तत्र हतैश्चापि मनुष्यगजवाजिभिः ।रणाङ्गणं तदभवन्मृत्योराघातसंनिभम् ॥ १५ ॥
पिनाकमिव रुद्रस्य क्रुद्धस्याभिघ्नतः पशून् ।यमदण्डोपमामुग्रामिन्द्राशनिसमस्वनाम् ।ददृशुर्भीमसेनस्य रौद्रां विशसनीं गदाम् ॥ १६ ॥
आविध्यतो गदां तस्य कौन्तेयस्य महात्मनः ।बभौ रूपं महाघोरं कालस्येव युगक्षये ॥ १७ ॥
तं तथा महतीं सेनां द्रावयन्तं पुनः पुनः ।दृष्ट्वा मृत्युमिवायान्तं सर्वे विमनसोऽभवन् ॥ १८ ॥
यतो यतः प्रेक्षते स्म गदामुद्यम्य पाण्डवः ।तेन तेन स्म दीर्यन्ते सर्वसैन्यानि भारत ॥ १९ ॥
प्रदारयन्तं सैन्यानि बलौघेनापराजितम् ।ग्रसमानमनीकानि व्यादितास्यमिवान्तकम् ॥ २० ॥
तं तथा भीमकर्माणं प्रगृहीतमहागदम् ।दृष्ट्वा वृकोदरं भीष्मः सहसैव समभ्ययात् ॥ २१ ॥
महता मेघघोषेण रथेनादित्यवर्चसा ।छादयञ्शरवर्षेण पर्जन्य इव वृष्टिमान् ॥ २२ ॥
तमायान्तं तथा दृष्ट्वा व्यात्ताननमिवान्तकम् ।भीष्मं भीमो महाबाहुः प्रत्युदीयादमर्षणः ॥ २३ ॥
तस्मिन्क्षणे सात्यकिः सत्यसंधः शिनिप्रवीरोऽभ्यपतत्पितामहम् ।निघ्नन्नमित्रान्धनुषा दृढेन स कम्पयंस्तव पुत्रस्य सेनाम् ॥ २४ ॥
तं यान्तमश्वै रजतप्रकाशैः शरान्धमन्तं धनुषा दृढेन ।नाशक्नुवन्वारयितुं तदानीं सर्वे गणा भारत ये त्वदीयाः ॥ २५ ॥
अविध्यदेनं निशितैः शराग्रैरलम्बुसो राजवरार्श्यशृङ्गिः ।तं वै चतुर्भिः प्रतिविध्य वीरो नप्ता शिनेरभ्यपतद्रथेन ॥ २६ ॥
अन्वागतं वृष्णिवरं निशम्य मध्ये रिपूणां परिवर्तमानम् ।प्रावर्तयन्तं कुरुपुंगवांश्च पुनः पुनश्च प्रणदन्तमाजौ ॥ २७ ॥
नाशक्नुवन्वारयितुं वरिष्ठं मध्यंदिने सूर्यमिवातपन्तम् ।न तत्र कश्चिन्नविषण्ण आसीदृते राजन्सोमदत्तस्य पुत्रात् ॥ २८ ॥
स ह्याददानो धनुरुग्रवेगं भूरिश्रवा भारत सौमदत्तिः ।दृष्ट्वा रथान्स्वान्व्यपनीयमानान्प्रत्युद्ययौ सात्यकिं योद्धुमिच्छन् ॥ २९ ॥
« »