Click on words to see what they mean.

धृतराष्ट्र उवाच ।दैवमेव परं मन्ये पौरुषादपि संजय ।यत्सैन्यं मम पुत्रस्य पाण्डुसैन्येन वध्यते ॥ १ ॥
नित्यं हि मामकांस्तात हतानेव हि शंससि ।अव्यग्रांश्च प्रहृष्टांश्च नित्यं शंससि पाण्डवान् ॥ २ ॥
हीनान्पुरुषकारेण मामकानद्य संजय ।पतितान्पात्यमानांश्च हतानेव च शंससि ॥ ३ ॥
युध्यमानान्यथाशक्ति घटमानाञ्जयं प्रति ।पाण्डवा विजयन्त्येव जीयन्ते चैव मामकाः ॥ ४ ॥
सोऽहं तीव्राणि दुःखानि दुर्योधनकृतानि च ।अश्रौषं सततं तात दुःसहानि बहूनि च ॥ ५ ॥
तमुपायं न पश्यामि जीयेरन्येन पाण्डवाः ।मामका वा जयं युद्धे प्राप्नुयुर्येन संजय ॥ ६ ॥
संजय उवाच ।क्षयं मनुष्यदेहानां गजवाजिरथक्षयम् ।शृणु राजन्स्थिरो भूत्वा तवैवापनयो महान् ॥ ७ ॥
धृष्टद्युम्नस्तु शल्येन पीडितो नवभिः शरैः ।पीडयामास संक्रुद्धो मद्राधिपतिमायसैः ॥ ८ ॥
तत्राद्भुतमपश्याम पार्षतस्य पराक्रमम् ।न्यवारयत यत्तूर्णं शल्यं समितिशोभनम् ॥ ९ ॥
नान्तरं ददृशे कश्चित्तयोः संरब्धयो रणे ।मुहूर्तमिव तद्युद्धं तयोः सममिवाभवत् ॥ १० ॥
ततः शल्यो महाराज धृष्टद्युम्नस्य संयुगे ।धनुश्चिच्छेद भल्लेन पीतेन निशितेन च ॥ ११ ॥
अथैनं शरवर्षेण छादयामास भारत ।गिरिं जलागमे यद्वज्जलदा जलधारिणः ॥ १२ ॥
अभिमन्युस्तु संक्रुद्धो धृष्टद्युम्ने निपीडिते ।अभिदुद्राव वेगेन मद्रराजरथं प्रति ॥ १३ ॥
ततो मद्राधिपरथं कार्ष्णिः प्राप्यातिकोपनः ।आर्तायनिममेयात्मा विव्याध विशिखैस्त्रिभिः ॥ १४ ॥
ततस्तु तावका राजन्परीप्सन्तोऽऽर्जुनिं रणे ।मद्रराजरथं तूर्णं परिवार्यावतस्थिरे ॥ १५ ॥
दुर्योधनो विकर्णश्च दुःशासनविविंशती ।दुर्मर्षणो दुःसहश्च चित्रसेनश्च दुर्मुखः ॥ १६ ॥
सत्यव्रतश्च भद्रं ते पुरुमित्रश्च भारत ।एते मद्राधिपरथं पालयन्तः स्थिता रणे ॥ १७ ॥
तान्भीमसेनः संक्रुद्धो धृष्टद्युम्नश्च पार्षतः ।द्रौपदेयाभिमन्युश्च माद्रीपुत्रौ च पाण्डवौ ॥ १८ ॥
नानारूपाणि शस्त्राणि विसृजन्तो विशां पते ।अभ्यवर्तन्त संहृष्टाः परस्परवधैषिणः ।ते वै समीयुः संग्रामे राजन्दुर्मन्त्रिते तव ॥ १९ ॥
तस्मिन्दाशरथे युद्धे वर्तमाने भयावहे ।तावकानां परेषां च प्रेक्षका रथिनोऽभवन् ॥ २० ॥
शस्त्राण्यनेकरूपाणि विसृजन्तो महारथाः ।अन्योन्यमभिनर्दन्तः संप्रहारं प्रचक्रिरे ॥ २१ ॥
ते यत्ता जातसंरम्भाः सर्वेऽन्योन्यं जिघांसवः ।महास्त्राणि विमुञ्चन्तः समापेतुरमर्षणाः ॥ २२ ॥
दुर्योधनस्तु संक्रुद्धो धृष्टद्युम्नं महारणे ।विव्याध निशितैर्बाणैश्चतुर्भिस्त्वरितो भृशम् ॥ २३ ॥
दुर्मर्षणश्च विंशत्या चित्रसेनश्च पञ्चभिः ।दुर्मुखो नवभिर्बाणैर्दुःसहश्चापि सप्तभिः ।विविंशतिः पञ्चभिश्च त्रिभिर्दुःशासनस्तथा ॥ २४ ॥
तान्प्रत्यविध्यद्राजेन्द्र पार्षतः शत्रुतापनः ।एकैकं पञ्चविंशत्या दर्शयन्पाणिलाघवम् ॥ २५ ॥
सत्यव्रतं तु समरे पुरुमित्रं च भारत ।अभिमन्युरविध्यत्तौ दशभिर्दशभिः शरैः ॥ २६ ॥
माद्रीपुत्रौ तु समरे मातुलं मातृनन्दनौ ।छादयेतां शरव्रातैस्तदद्भुतमिवाभवत् ॥ २७ ॥
ततः शल्यो महाराज स्वस्रीयौ रथिनां वरौ ।शरैर्बहुभिरानर्छत्कृतप्रतिकृतैषिणौ ।छाद्यमानौ ततस्तौ तु माद्रीपुत्रौ न चेलतुः ॥ २८ ॥
अथ दुर्योधनं दृष्ट्वा भीमसेनो महाबलः ।विधित्सुः कलहस्यान्तं गदां जग्राह पाण्डवः ॥ २९ ॥
तमुद्यतगदं दृष्ट्वा कैलासमिव शृङ्गिणम् ।भीमसेनं महाबाहुं पुत्रास्ते प्राद्रवन्भयात् ॥ ३० ॥
दुर्योधनस्तु संक्रुद्धो मागधं समचोदयत् ।अनीकं दशसाहस्रं कुञ्जराणां तरस्विनाम् ।मागधं पुरतः कृत्वा भीमसेनं समभ्ययात् ॥ ३१ ॥
आपतन्तं च तं दृष्ट्वा गजानीकं वृकोदरः ।गदापाणिरवारोहद्रथात्सिंह इवोन्नदन् ॥ ३२ ॥
अद्रिसारमयीं गुर्वीं प्रगृह्य महतीं गदाम् ।अभ्यधावद्गजानीकं व्यादितास्य इवान्तकः ॥ ३३ ॥
स गजान्गदया निघ्नन्व्यचरत्समरे बली ।भीमसेनो महाबाहुः सवज्र इव वासवः ॥ ३४ ॥
तस्य नादेन महता मनोहृदयकम्पिना ।व्यत्यचेष्टन्त संहत्य गजा भीमस्य नर्दतः ॥ ३५ ॥
ततस्तु द्रौपदीपुत्राः सौभद्रश्च महारथः ।नकुलः सहदेवश्च धृष्टद्युम्नश्च पार्षतः ॥ ३६ ॥
पृष्ठं भीमस्य रक्षन्तः शरवर्षेण वारणान् ।अभ्यधावन्त वर्षन्तो मेघा इव गिरीन्यथा ॥ ३७ ॥
क्षुरैः क्षुरप्रैर्भल्लैश्च पीतैरञ्जलिकैरपि ।पातयन्तोत्तमाङ्गानि पाण्डवा गजयोधिनाम् ॥ ३८ ॥
शिरोभिः प्रपतद्भिश्च बाहुभिश्च विभूषितैः ।अश्मवृष्टिरिवाभाति पाणिभिश्च सहाङ्कुशैः ॥ ३९ ॥
हृतोत्तमाङ्गाः स्कन्धेषु गजानां गजयोधिनः ।अदृश्यन्ताचलाग्रेषु द्रुमा भग्नशिखा इव ॥ ४० ॥
धृष्टद्युम्नहतानन्यानपश्याम महागजान् ।पतितान्पात्यमानांश्च पार्षतेन महात्मना ॥ ४१ ॥
मागधोऽथ महीपालो गजमैरावतोपमम् ।प्रेषयामास समरे सौभद्रस्य रथं प्रति ॥ ४२ ॥
तमापतन्तं संप्रेक्ष्य मागधस्य गजोत्तमम् ।जघानैकेषुणा वीरः सौभद्रः परवीरहा ॥ ४३ ॥
तस्यावर्जितनागस्य कार्ष्णिः परपुरंजयः ।राज्ञो रजतपुङ्खेन भल्लेनापहरच्छिरः ॥ ४४ ॥
विगाह्य तद्गजानीकं भीमसेनोऽपि पाण्डवः ।व्यचरत्समरे मृद्नन्गजानिन्द्रो गिरीनिव ॥ ४५ ॥
एकप्रहाराभिहतान्भीमसेनेन कुञ्जरान् ।अपश्याम रणे तस्मिन्गिरीन्वज्रहतानिव ॥ ४६ ॥
भग्नदन्तान्भग्नकटान्भग्नसक्थांश्च वारणान् ।भग्नपृष्ठान्भग्नकुम्भान्निहतान्पर्वतोपमान् ॥ ४७ ॥
नदतः सीदतश्चान्यान्विमुखान्समरे गजान् ।विमूत्रान्भग्नसंविग्नांस्तथा विशकृतोऽपरान् ॥ ४८ ॥
भीमसेनस्य मार्गेषु गतासून्पर्वतोपमान् ।अपश्याम हतान्नागान्निष्टनन्तस्तथापरे ॥ ४९ ॥
वमन्तो रुधिरं चान्ये भिन्नकुम्भा महागजाः ।विह्वलन्तो गता भूमिं शैला इव धरातले ॥ ५० ॥
मेदोरुधिरदिग्धाङ्गो वसामज्जासमुक्षितः ।व्यचरत्समरे भीमो दण्डपाणिरिवान्तकः ॥ ५१ ॥
गजानां रुधिराक्तां तां गदां बिभ्रद्वृकोदरः ।घोरः प्रतिभयश्चासीत्पिनाकीव पिनाकधृक् ॥ ५२ ॥
निर्मथ्यमानाः क्रुद्धेन भीमसेनेन दन्तिनः ।सहसा प्राद्रवञ्शिष्टा मृद्नन्तस्तव वाहिनीम् ॥ ५३ ॥
तं हि वीरं महेष्वासाः सौभद्रप्रमुखा रथाः ।पर्यरक्षन्त युध्यन्तं वज्रायुधमिवामराः ॥ ५४ ॥
शोणिताक्तां गदां बिभ्रदुक्षितो गजशोणितैः ।कृतान्त इव रौद्रात्मा भीमसेनो व्यदृश्यत ॥ ५५ ॥
व्यायच्छमानं गदया दिक्षु सर्वासु भारत ।नृत्यमानमपश्याम नृत्यन्तमिव शंकरम् ॥ ५६ ॥
यमदण्डोपमां गुर्वीमिन्द्राशनिसमस्वनाम् ।अपश्याम महाराज रौद्रां विशसनीं गदाम् ॥ ५७ ॥
विमिश्रां केशमज्जाभिः प्रदिग्धां रुधिरेण च ।पिनाकमिव रुद्रस्य क्रुद्धस्याभिघ्नतः पशून् ॥ ५८ ॥
यथा पशूनां संघातं यष्ट्या पालः प्रकालयेत् ।तथा भीमो गजानीकं गदया पर्यकालयत् ॥ ५९ ॥
गदया वध्यमानास्ते मार्गणैश्च समन्ततः ।स्वान्यनीकानि मृद्नन्तः प्राद्रवन्कुञ्जरास्तव ॥ ६० ॥
महावात इवाभ्राणि विधमित्वा स वारणान् ।अतिष्ठत्तुमुले भीमः श्मशान इव शूलभृत् ॥ ६१ ॥
« »