Click on words to see what they mean.

संजय उवाच ।द्रौणिर्भूरिश्रवाः शल्यश्चित्रसेनश्च मारिष ।पुत्रः सांयमनेश्चैव सौभद्रं समयोधयन् ॥ १ ॥
संसक्तमतितेजोभिस्तमेकं ददृशुर्जनाः ।पञ्चभिर्मनुजव्याघ्रैर्गजैः सिंहशिशुं यथा ॥ २ ॥
नाभिलक्ष्यतया कश्चिन्न शौर्ये न पराक्रमे ।बभूव सदृशः कार्ष्णेर्नास्त्रे नापि च लाघवे ॥ ३ ॥
तथा तमात्मजं युद्धे विक्रमन्तमरिंदमम् ।दृष्ट्वा पार्थो रणे यत्तः सिंहनादमथोऽनदत् ॥ ४ ॥
पीडयानं च तत्सैन्यं पौत्रं तव विशां पते ।दृष्ट्वा त्वदीया राजेन्द्र समन्तात्पर्यवारयन् ॥ ५ ॥
ध्वजिनीं धार्तराष्ट्राणां दीनशत्रुरदीनवत् ।प्रत्युद्ययौ स सौभद्रस्तेजसा च बलेन च ॥ ६ ॥
तस्य लाघवमार्गस्थमादित्यसदृशप्रभम् ।व्यदृश्यत महच्चापं समरे युध्यतः परैः ॥ ७ ॥
स द्रौणिमिषुणैकेन विद्ध्वा शल्यं च पञ्चभिः ।ध्वजं सांयमनेश्चापि सोऽष्टाभिरपवर्जयत् ॥ ८ ॥
रुक्मदण्डां महाशक्तिं प्रेषितां सौमदत्तिना ।शितेनोरगसंकाशां पत्रिणा विजहार ताम् ॥ ९ ॥
शल्यस्य च महाघोरानस्यतः शतशः शरान् ।निवार्यार्जुनदायादो जघान समरे हयान् ॥ १० ॥
भूरिश्रवाश्च शल्यश्च द्रौणिः सांयमनिः शलः ।नाभ्यवर्तन्त संरब्धाः कार्ष्णेर्बाहुबलाश्रयात् ॥ ११ ॥
ततस्त्रिगर्ता राजेन्द्र मद्राश्च सह केकयैः ।पञ्चत्रिंशतिसाहस्रास्तव पुत्रेण चोदिताः ॥ १२ ॥
धनुर्वेदविदो मुख्या अजेयाः शत्रुभिर्युधि ।सहपुत्रं जिघांसन्तं परिवव्रुः किरीटिनम् ॥ १३ ॥
तौ तु तत्र पितापुत्रौ परिक्षिप्तौ रथर्षभौ ।ददर्श राजन्पाञ्चाल्यः सेनापतिरमित्रजित् ॥ १४ ॥
स वारणरथौघानां सहस्रैर्बहुभिर्वृतः ।वाजिभिः पत्तिभिश्चैव वृतः शतसहस्रशः ॥ १५ ॥
धनुर्विस्फार्य संक्रुद्धश्चोदयित्वा वरूथिनीम् ।ययौ तन्मद्रकानीकं केकयांश्च परंतपः ॥ १६ ॥
तेन कीर्तिमता गुप्तमनीकं दृढधन्वना ।प्रयुक्तरथनागाश्वं योत्स्यमानमशोभत ॥ १७ ॥
सोऽर्जुनं प्रमुखे यान्तं पाञ्चाल्यः कुरुनन्दन ।त्रिभिः शारद्वतं बाणैर्जत्रुदेशे समर्पयत् ॥ १८ ॥
ततः स मद्रकान्हत्वा दशभिर्दशभिः शरैः ।हृष्ट एको जघानाश्वं भल्लेन कृतवर्मणः ॥ १९ ॥
दमनं चापि दायादं पौरवस्य महात्मनः ।जघान विपुलाग्रेण नाराचेन परंतपः ॥ २० ॥
ततः सांयमनेः पुत्रः पाञ्चाल्यं युद्धदुर्मदम् ।अविध्यत्त्रिंशता बाणैर्दशभिश्चास्य सारथिम् ॥ २१ ॥
सोऽतिविद्धो महेष्वासः सृक्किणी परिसंलिहन् ।भल्लेन भृशतीक्ष्णेन निचकर्तास्य कार्मुकम् ॥ २२ ॥
अथैनं पञ्चविंशत्या क्षिप्रमेव समर्पयत् ।अश्वांश्चास्यावधीद्राजन्नुभौ तौ पार्ष्णिसारथी ॥ २३ ॥
स हताश्वे रथे तिष्ठन्ददर्श भरतर्षभ ।पुत्रः सांयमनेः पुत्रं पाञ्चाल्यस्य महात्मनः ॥ २४ ॥
स संगृह्य महाघोरं निस्त्रिंशवरमायसम् ।पदातिस्तूर्णमभ्यर्छद्रथस्थं द्रुपदात्मजम् ॥ २५ ॥
तं महौघमिवायान्तं खात्पतन्तमिवोरगम् ।भ्रान्तावरणनिस्त्रिंशं कालोत्सृष्टमिवान्तकम् ॥ २६ ॥
दीप्यन्तमिव शस्त्रार्च्या मत्तवारणविक्रमम् ।अपश्यन्पाण्डवास्तत्र धृष्टद्युम्नश्च पार्षतः ॥ २७ ॥
तस्य पाञ्चालपुत्रस्तु प्रतीपमभिधावतः ।शितनिस्त्रिंशहस्तस्य शरावरणधारिणः ॥ २८ ॥
बाणवेगमतीतस्य रथाभ्याशमुपेयुषः ।त्वरन्सेनापतिः क्रुद्धो बिभेद गदया शिरः ॥ २९ ॥
तस्य राजन्सनिस्त्रिंशं सुप्रभं च शरावरम् ।हतस्य पततो हस्ताद्वेगेन न्यपतद्भुवि ॥ ३० ॥
तं निहत्य गदाग्रेण लेभे स परमं यशः ।पुत्रः पाञ्चालराजस्य महात्मा भीमविक्रमः ॥ ३१ ॥
तस्मिन्हते महेष्वासे राजपुत्रे महारथे ।हाहाकारो महानासीत्तव सैन्यस्य मारिष ॥ ३२ ॥
ततः सांयमनिः क्रुद्धो दृष्ट्वा निहतमात्मजम् ।अभिदुद्राव वेगेन पाञ्चाल्यं युद्धदुर्मदम् ॥ ३३ ॥
तौ तत्र समरे वीरौ समेतौ रथिनां वरौ ।ददृशुः सर्वराजानः कुरवः पाण्डवास्तथा ॥ ३४ ॥
ततः सांयमनिः क्रुद्धः पार्षतं परवीरहा ।आजघान त्रिभिर्बाणैस्तोत्त्रैरिव महाद्विपम् ॥ ३५ ॥
तथैव पार्षतं शूरं शल्यः समितिशोभनः ।आजघानोरसि क्रुद्धस्ततो युद्धमवर्तत ॥ ३६ ॥
« »