Click on words to see what they mean.

संजय उवाच ।पूर्वाह्णे तस्य रौद्रस्य युद्धमह्नो विशां पते ।प्रावर्तत महाघोरं राज्ञां देहावकर्तनम् ॥ १ ॥
कुरूणां पाण्डवानां च संग्रामे विजिगीषताम् ।सिंहानामिव संह्रादो दिवमुर्वीं च नादयन् ॥ २ ॥
आसीत्किलकिलाशब्दस्तलशङ्खरवैः सह ।जज्ञिरे सिंहनादाश्च शूराणां प्रतिगर्जताम् ॥ ३ ॥
तलत्राभिहताश्चैव ज्याशब्दा भरतर्षभ ।पत्तीनां पादशब्दाश्च वाजिनां च महास्वनाः ॥ ४ ॥
तोत्त्राङ्कुशनिपाताश्च आयुधानां च निस्वनाः ।घण्टाशब्दाश्च नागानामन्योन्यमभिधावताम् ॥ ५ ॥
तस्मिन्समुदिते शब्दे तुमुले लोमहर्षणे ।बभूव रथनिर्घोषः पर्जन्यनिनदोपमः ॥ ६ ॥
ते मनः क्रूरमाधाय समभित्यक्तजीविताः ।पाण्डवानभ्यवर्तन्त सर्व एवोच्छ्रितध्वजाः ॥ ७ ॥
स्वयं शांतनवो राजन्नभ्यधावद्धनंजयम् ।प्रगृह्य कार्मुकं घोरं कालदण्डोपमं रणे ॥ ८ ॥
अर्जुनोऽपि धनुर्गृह्य गाण्डीवं लोकविश्रुतम् ।अभ्यधावत तेजस्वी गाङ्गेयं रणमूर्धनि ॥ ९ ॥
तावुभौ कुरुशार्दूलौ परस्परवधैषिणौ ।गाङ्गेयस्तु रणे पार्थं विद्ध्वा नाकम्पयद्बली ।तथैव पाण्डवो राजन्भीष्मं नाकम्पयद्युधि ॥ १० ॥
सात्यकिश्च महेष्वासः कृतवर्माणमभ्ययात् ।तयोः समभवद्युद्धं तुमुलं लोमहर्षणम् ॥ ११ ॥
सात्यकिः कृतवर्माणं कृतवर्मा च सात्यकिम् ।आनर्छतुः शरैर्घोरैस्तक्षमाणौ परस्परम् ॥ १२ ॥
तौ शराचितसर्वाङ्गौ शुशुभाते महाबलौ ।वसन्ते पुष्पशबलौ पुष्पिताविव किंशुकौ ॥ १३ ॥
अभिमन्युर्महेष्वासो बृहद्बलमयोधयत् ।ततः कोसलको राजा सौभद्रस्य विशां पते ।ध्वजं चिच्छेद समरे सारथिं च न्यपातयत् ॥ १४ ॥
सौभद्रस्तु ततः क्रुद्धः पातिते रथसारथौ ।बृहद्बलं महाराज विव्याध नवभिः शरैः ॥ १५ ॥
अथापराभ्यां भल्लाभ्यां पीताभ्यामरिमर्दनः ।ध्वजमेकेन चिच्छेद पार्ष्णिमेकेन सारथिम् ।अन्योन्यं च शरैस्तीक्ष्णैः क्रुद्धौ राजंस्ततक्षतुः ॥ १६ ॥
मानिनं समरे दृप्तं कृतवैरं महारथम् ।भीमसेनस्तव सुतं दुर्योधनमयोधयत् ॥ १७ ॥
तावुभौ नरशार्दूलौ कुरुमुख्यौ महाबलौ ।अन्योन्यं शरवर्षाभ्यां ववृषाते रणाजिरे ॥ १८ ॥
तौ तु वीक्ष्य महात्मानौ कृतिनौ चित्रयोधिनौ ।विस्मयः सर्वभूतानां समपद्यत भारत ॥ १९ ॥
दुःशासनस्तु नकुलं प्रत्युद्याय महारथम् ।अविध्यन्निशितैर्बाणैर्बहुभिर्मर्मभेदिभिः ॥ २० ॥
तस्य माद्रीसुतः केतुं सशरं च शरासनम् ।चिच्छेद निशितैर्बाणैः प्रहसन्निव भारत ।अथैनं पञ्चविंशत्या क्षुद्रकाणां समार्दयत् ॥ २१ ॥
पुत्रस्तु तव दुर्धर्षो नकुलस्य महाहवे ।युगेषां चिच्छिदे बाणैर्ध्वजं चैव न्यपातयत् ॥ २२ ॥
दुर्मुखः सहदेवं तु प्रत्युद्याय महाबलम् ।विव्याध शरवर्षेण यतमानं महाहवे ॥ २३ ॥
सहदेवस्ततो वीरो दुर्मुखस्य महाहवे ।शरेण भृशतीक्ष्णेन पातयामास सारथिम् ॥ २४ ॥
तावन्योन्यं समासाद्य समरे युद्धदुर्मदौ ।त्रासयेतां शरैर्घोरैः कृतप्रतिकृतैषिणौ ॥ २५ ॥
युधिष्ठिरः स्वयं राजा मद्रराजानमभ्ययात् ।तस्य मद्राधिपश्चापं द्विधा चिच्छेद मारिष ॥ २६ ॥
तदपास्य धनुश्छिन्नं कुन्तीपुत्रो युधिष्ठिरः ।अन्यत्कार्मुकमादाय वेगवद्बलवत्तरम् ॥ २७ ॥
ततो मद्रेश्वरं राजा शरैः संनतपर्वभिः ।छादयामास संक्रुद्धस्तिष्ठ तिष्ठेति चाब्रवीत् ॥ २८ ॥
धृष्टद्युम्नस्ततो द्रोणमभ्यद्रवत भारत ।तस्य द्रोणः सुसंक्रुद्धः परासुकरणं दृढम् ।त्रिधा चिच्छेद समरे यतमानस्य कार्मुकम् ॥ २९ ॥
शरं चैव महाघोरं कालदण्डमिवापरम् ।प्रेषयामास समरे सोऽस्य काये न्यमज्जत ॥ ३० ॥
अथान्यद्धनुरादाय सायकांश्च चतुर्दश ।द्रोणं द्रुपदपुत्रस्तु प्रतिविव्याध संयुगे ।तावन्योन्यं सुसंक्रुद्धौ चक्रतुः सुभृशं रणम् ॥ ३१ ॥
सौमदत्तिं रणे शङ्खो रभसं रभसो युधि ।प्रत्युद्ययौ महाराज तिष्ठ तिष्ठेति चाब्रवीत् ॥ ३२ ॥
तस्य वै दक्षिणं वीरो निर्बिभेद रणे भुजम् ।सौमदत्तिस्तथा शङ्खं जत्रुदेशे समाहनत् ॥ ३३ ॥
तयोः समभवद्युद्धं घोररूपं विशां पते ।दृप्तयोः समरे तूर्णं वृत्रवासवयोरिव ॥ ३४ ॥
बाह्लीकं तु रणे क्रुद्धं क्रुद्धरूपो विशां पते ।अभ्यद्रवदमेयात्मा धृष्टकेतुर्महारथः ॥ ३५ ॥
बाह्लीकस्तु ततो राजन्धृष्टकेतुममर्षणम् ।शरैर्बहुभिरानर्छत्सिंहनादमथानदत् ॥ ३६ ॥
चेदिराजस्तु संक्रुद्धो बाह्लीकं नवभिः शरैः ।विव्याध समरे तूर्णं मत्तो मत्तमिव द्विपम् ॥ ३७ ॥
तौ तत्र समरे क्रुद्धौ नर्दन्तौ च मुहुर्मुहुः ।समीयतुः सुसंक्रुद्धावङ्गारकबुधाविव ॥ ३८ ॥
राक्षसं क्रूरकर्माणं क्रूरकर्मा घटोत्कचः ।अलम्बुसं प्रत्युदियाद्बलं शक्र इवाहवे ॥ ३९ ॥
घटोत्कचस्तु संक्रुद्धो राक्षसं तं महाबलम् ।नवत्या सायकैस्तीक्ष्णैर्दारयामास भारत ॥ ४० ॥
अलम्बुसस्तु समरे भैमसेनिं महाबलम् ।बहुधा वारयामास शरैः संनतपर्वभिः ॥ ४१ ॥
व्यभ्राजेतां ततस्तौ तु संयुगे शरविक्षतौ ।यथा देवासुरे युद्धे बलशक्रौ महाबलौ ॥ ४२ ॥
शिखण्डी समरे राजन्द्रौणिमभ्युद्ययौ बली ।अश्वत्थामा ततः क्रुद्धः शिखण्डिनमवस्थितम् ॥ ४३ ॥
नाराचेन सुतीक्ष्णेन भृशं विद्ध्वा व्यकम्पयत् ।शिखण्ड्यपि ततो राजन्द्रोणपुत्रमताडयत् ॥ ४४ ॥
सायकेन सुपीतेन तीक्ष्णेन निशितेन च ।तौ जघ्नतुस्तदान्योन्यं शरैर्बहुविधैर्मृधे ॥ ४५ ॥
भगदत्तं रणे शूरं विराटो वाहिनीपतिः ।अभ्ययात्त्वरितो राजंस्ततो युद्धमवर्तत ॥ ४६ ॥
विराटो भगदत्तेन शरवर्षेण ताडितः ।अभ्यवर्षत्सुसंक्रुद्धो मेघो वृष्ट्या इवाचलम् ॥ ४७ ॥
भगदत्तस्ततस्तूर्णं विराटं पृथिवीपतिम् ।छादयामास समरे मेघः सूर्यमिवोदितम् ॥ ४८ ॥
बृहत्क्षत्रं तु कैकेयं कृपः शारद्वतो ययौ ।तं कृपः शरवर्षेण छादयामास भारत ॥ ४९ ॥
गौतमं केकयः क्रुद्धः शरवृष्ट्याभ्यपूरयत् ।तावन्योन्यं हयान्हत्वा धनुषी विनिकृत्य वै ॥ ५० ॥
विरथावसियुद्धाय समीयतुरमर्षणौ ।तयोस्तदभवद्युद्धं घोररूपं सुदारुणम् ॥ ५१ ॥
द्रुपदस्तु ततो राजा सैन्धवं वै जयद्रथम् ।अभ्युद्ययौ संप्रहृष्टो हृष्टरूपं परंतप ॥ ५२ ॥
ततः सैन्धवको राजा द्रुपदं विशिखैस्त्रिभिः ।ताडयामास समरे स च तं प्रत्यविध्यत ॥ ५३ ॥
तयोः समभवद्युद्धं घोररूपं सुदारुणम् ।ईक्षितृप्रीतिजननं शुक्राङ्गारकयोरिव ॥ ५४ ॥
विकर्णस्तु सुतस्तुभ्यं सुतसोमं महाबलम् ।अभ्ययाज्जवनैरश्वैस्ततो युद्धमवर्तत ॥ ५५ ॥
विकर्णः सुतसोमं तु विद्ध्वा नाकम्पयच्छरैः ।सुतसोमो विकर्णं च तदद्भुतमिवाभवत् ॥ ५६ ॥
सुशर्माणं नरव्याघ्रं चेकितानो महारथः ।अभ्यद्रवत्सुसंक्रुद्धः पाण्डवार्थे पराक्रमी ॥ ५७ ॥
सुशर्मा तु महाराज चेकितानं महारथम् ।महता शरवर्षेण वारयामास संयुगे ॥ ५८ ॥
चेकितानोऽपि संरब्धः सुशर्माणं महाहवे ।प्राच्छादयत्तमिषुभिर्महामेघ इवाचलम् ॥ ५९ ॥
शकुनिः प्रतिविन्ध्यं तु पराक्रान्तं पराक्रमी ।अभ्यद्रवत राजेन्द्र मत्तो मत्तमिव द्विपम् ॥ ६० ॥
यौधिष्ठिरस्तु संक्रुद्धः सौबलं निशितैः शरैः ।व्यदारयत संग्रामे मघवानिव दानवम् ॥ ६१ ॥
शकुनिः प्रतिविन्ध्यं तु प्रतिविध्यन्तमाहवे ।व्यदारयन्महाप्राज्ञः शरैः संनतपर्वभिः ॥ ६२ ॥
सुदक्षिणं तु राजेन्द्र काम्बोजानां महारथम् ।श्रुतकर्मा पराक्रान्तमभ्यद्रवत संयुगे ॥ ६३ ॥
सुदक्षिणस्तु समरे साहदेविं महारथम् ।विद्ध्वा नाकम्पयत वै मैनाकमिव पर्वतम् ॥ ६४ ॥
श्रुतकर्मा ततः क्रुद्धः काम्बोजानां महारथम् ।शरैर्बहुभिरानर्छद्दारयन्निव सर्वशः ॥ ६५ ॥
इरावानथ संक्रुद्धः श्रुतायुषममर्षणम् ।प्रत्युद्ययौ रणे यत्तो यत्तरूपतरं ततः ॥ ६६ ॥
आर्जुनिस्तस्य समरे हयान्हत्वा महारथः ।ननाद सुमहन्नादं तत्सैन्यं प्रत्यपूरयत् ॥ ६७ ॥
श्रुतायुस्त्वथ संक्रुद्धः फाल्गुनेः समरे हयान् ।निजघान गदाग्रेण ततो युद्धमवर्तत ॥ ६८ ॥
विन्दानुविन्दावावन्त्यौ कुन्तिभोजं महारथम् ।ससेनं ससुतं वीरं संससज्जतुराहवे ॥ ६९ ॥
तत्राद्भुतमपश्याम आवन्त्यानां पराक्रमम् ।यदयुध्यन्स्थिरा भूत्वा महत्या सेनया सह ॥ ७० ॥
अनुविन्दस्तु गदया कुन्तिभोजमताडयत् ।कुन्तिभोजस्ततस्तूर्णं शरव्रातैरवाकिरत् ॥ ७१ ॥
कुन्तिभोजसुतश्चापि विन्दं विव्याध सायकैः ।स च तं प्रतिविव्याध तदद्भुतमिवाभवत् ॥ ७२ ॥
केकया भ्रातरः पञ्च गान्धारान्पञ्च मारिष ।ससैन्यास्ते ससैन्यांश्च योधयामासुराहवे ॥ ७३ ॥
वीरबाहुश्च ते पुत्रो वैराटिं रथसत्तमम् ।उत्तरं योधयामास विव्याध निशितैः शरैः ।उत्तरश्चापि तं धीरं विव्याध निशितैः शरैः ॥ ७४ ॥
चेदिराट्समरे राजन्नुलूकं समभिद्रवत् ।उलूकश्चापि तं बाणैर्निशितैर्लोमवाहिभिः ॥ ७५ ॥
तयोर्युद्धं समभवद्घोररूपं विशां पते ।दारयेतां सुसंक्रुद्धावन्योन्यमपराजितौ ॥ ७६ ॥
एवं द्वंद्वसहस्राणि रथवारणवाजिनाम् ।पदातीनां च समरे तव तेषां च संकुलम् ॥ ७७ ॥
मुहूर्तमिव तद्युद्धमासीन्मधुरदर्शनम् ।तत उन्मत्तवद्राजन्न प्राज्ञायत किंचन ॥ ७८ ॥
गजो गजेन समरे रथी च रथिनं ययौ ।अश्वोऽश्वं समभिप्रेत्य पदातिश्च पदातिनम् ॥ ७९ ॥
ततो युद्धं सुदुर्धर्षं व्याकुलं समपद्यत ।शूराणां समरे तत्र समासाद्य परस्परम् ॥ ८० ॥
तत्र देवर्षयः सिद्धाश्चारणाश्च समागताः ।प्रैक्षन्त तद्रणं घोरं देवासुररणोपमम् ॥ ८१ ॥
ततो दन्तिसहस्राणि रथानां चापि मारिष ।अश्वौघाः पुरुषौघाश्च विपरीतं समाययुः ॥ ८२ ॥
तत्र तत्रैव दृश्यन्ते रथवारणपत्तयः ।सादिनश्च नरव्याघ्र युध्यमाना मुहुर्मुहुः ॥ ८३ ॥
« »