Click on words to see what they mean.

धृतराष्ट्र उवाच ।अक्षौहिण्यो दशैकां च व्यूढां दृष्ट्वा युधिष्ठिरः ।कथमल्पेन सैन्येन प्रत्यव्यूहत पाण्डवः ॥ १ ॥
यो वेद मानुषं व्यूहं दैवं गान्धर्वमासुरम् ।कथं भीष्मं स कौन्तेयः प्रत्यव्यूहत पाण्डवः ॥ २ ॥
संजय उवाच ।धार्तराष्ट्राण्यनीकानि दृष्ट्वा व्यूढानि पाण्डवः ।अभ्यभाषत धर्मात्मा धर्मराजो धनंजयम् ॥ ३ ॥
महर्षेर्वचनात्तात वेदयन्ति बृहस्पतेः ।संहतान्योधयेदल्पान्कामं विस्तारयेद्बहून् ॥ ४ ॥
सूचीमुखमनीकं स्यादल्पानां बहुभिः सह ।अस्माकं च तथा सैन्यमल्पीयः सुतरां परैः ॥ ५ ॥
एतद्वचनमाज्ञाय महर्षेर्व्यूह पाण्डव ।तच्छ्रुत्वा धर्मराजस्य प्रत्यभाषत फल्गुनः ॥ ६ ॥
एष व्यूहामि ते राजन्व्यूहं परमदुर्जयम् ।अचलं नाम वज्राख्यं विहितं वज्रपाणिना ॥ ७ ॥
यः स वात इवोद्धूतः समरे दुःसहः परैः ।स नः पुरो योत्स्यति वै भीमः प्रहरतां वरः ॥ ८ ॥
तेजांसि रिपुसैन्यानां मृद्नन्पुरुषसत्तमः ।अग्रेऽग्रणीर्यास्यति नो युद्धोपायविचक्षणः ॥ ९ ॥
यं दृष्ट्वा पार्थिवाः सर्वे दुर्योधनपुरोगमाः ।निवर्तिष्यन्ति संभ्रान्ताः सिंहं क्षुद्रमृगा इव ॥ १० ॥
तं सर्वे संश्रयिष्यामः प्राकारमकुतोभयम् ।भीमं प्रहरतां श्रेष्ठं वज्रपाणिमिवामराः ॥ ११ ॥
न हि सोऽस्ति पुमाँल्लोके यः संक्रुद्धं वृकोदरम् ।द्रष्टुमत्युग्रकर्माणं विषहेत नरर्षभम् ॥ १२ ॥
भीमसेनो गदां बिभ्रद्वज्रसारमयीं दृढाम् ।चरन्वेगेन महता समुद्रमपि शोषयेत् ॥ १३ ॥
केकया धृष्टकेतुश्च चेकितानश्च वीर्यवान् ।एत तिष्ठन्ति सामात्याः प्रेक्षकास्ते नरेश्वर ॥ १४ ॥
धृतराष्ट्रस्य दायादा इति बीभत्सुरब्रवीत् ।ब्रुवाणं तु तथा पार्थं सर्वसैन्यानि मारिष ।अपूजयंस्तदा वाग्भिरनुकूलाभिराहवे ॥ १५ ॥
एवमुक्त्वा महाबाहुस्तथा चक्रे धनंजयः ।व्यूह्य तानि बलान्याशु प्रययौ फल्गुनस्तदा ॥ १६ ॥
संप्रयातान्कुरून्दृष्ट्वा पाण्डवानां महाचमूः ।गङ्गेव पूर्णा स्तिमिता स्यन्दमाना व्यदृश्यत ॥ १७ ॥
भीमसेनोऽग्रणीस्तेषां धृष्टद्युम्नश्च पार्षतः ।नकुलः सहदेवश्च धृष्टकेतुश्च वीर्यवान् ॥ १८ ॥
समुद्योज्य ततः पश्चाद्राजाप्यक्षौहिणीवृतः ।भ्रातृभिः सह पुत्रैश्च सोऽभ्यरक्षत पृष्ठतः ॥ १९ ॥
चक्ररक्षौ तु भीमस्य माद्रीपुत्रौ महाद्युती ।द्रौपदेयाः ससौभद्राः पृष्ठगोपास्तरस्विनः ॥ २० ॥
धृष्टद्युम्नश्च पाञ्चाल्यस्तेषां गोप्ता महारथः ।सहितः पृतनाशूरै रथमुख्यैः प्रभद्रकैः ॥ २१ ॥
शिखण्डी तु ततः पश्चादर्जुनेनाभिरक्षितः ।यत्तो भीष्मविनाशाय प्रययौ भरतर्षभ ॥ २२ ॥
पृष्ठगोपोऽर्जुनस्यापि युयुधानो महारथः ।चक्ररक्षौ तु पाञ्चाल्यौ युधामन्यूत्तमौजसौ ॥ २३ ॥
राजा तु मध्यमानीके कुन्तीपुत्रो युधिष्ठिरः ।बृहद्भिः कुञ्जरैर्मत्तैश्चलद्भिरचलैरिव ॥ २४ ॥
अक्षौहिण्या च पाञ्चाल्यो यज्ञसेनो महामनाः ।विराटमन्वयात्पश्चात्पाण्डवार्थे पराक्रमी ॥ २५ ॥
तेषामादित्यचन्द्राभाः कनकोत्तमभूषणाः ।नानाचिह्नधरा राजन्रथेष्वासन्महाध्वजाः ॥ २६ ॥
समुत्सर्प्य ततः पश्चाद्धृष्टद्युम्नो महारथः ।भ्रातृभिः सह पुत्रैश्च सोऽभ्यरक्षद्युधिष्ठिरम् ॥ २७ ॥
त्वदीयानां परेषां च रथेषु विविधान्ध्वजान् ।अभिभूयार्जुनस्यैको ध्वजस्तस्थौ महाकपिः ॥ २८ ॥
पादातास्त्वग्रतोऽगच्छन्नसिशक्त्यृष्टिपाणयः ।अनेकशतसाहस्रा भीमसेनस्य रक्षिणः ॥ २९ ॥
वारणा दशसाहस्राः प्रभिन्नकरटामुखाः ।शूरा हेममयैर्जालैर्दीप्यमाना इवाचलाः ॥ ३० ॥
क्षरन्त इव जीमूता मदार्द्राः पद्मगन्धिनः ।राजानमन्वयुः पश्चाच्चलन्त इव पर्वताः ॥ ३१ ॥
भीमसेनो गदां भीमां प्रकर्षन्परिघोपमाम् ।प्रचकर्ष महत्सैन्यं दुराधर्षो महामनाः ॥ ३२ ॥
तमर्कमिव दुष्प्रेक्ष्यं तपन्तं रश्मिमालिनम् ।न शेकुः सर्वतो योधाः प्रतिवीक्षितुमन्तिके ॥ ३३ ॥
वज्रो नामैष तु व्यूहो दुर्भिदः सर्वतोमुखः ।चापविद्युद्ध्वजो घोरो गुप्तो गाण्डीवधन्वना ॥ ३४ ॥
यं प्रतिव्यूह्य तिष्ठन्ति पाण्डवास्तव वाहिनीम् ।अजेयो मानुषे लोके पाण्डवैरभिरक्षितः ॥ ३५ ॥
संध्यां तिष्ठत्सु सैन्येषु सूर्यस्योदयनं प्रति ।प्रावात्सपृषतो वायुरनभ्रे स्तनयित्नुमान् ॥ ३६ ॥
विष्वग्वाताश्च वान्त्युग्रा नीचैः शर्करकर्षिणः ।रजश्चोद्धूयमानं तु तमसाच्छादयज्जगत् ॥ ३७ ॥
पपात महती चोल्का प्राङ्मुखी भरतर्षभ ।उद्यन्तं सूर्यमाहत्य व्यशीर्यत महास्वना ॥ ३८ ॥
अथ सज्जीयमानेषु सैन्येषु भरतर्षभ ।निष्प्रभोऽभ्युदियात्सूर्यः सघोषो भूश्चचाल ह ।व्यशीर्यत सनादा च तदा भरतसत्तम ॥ ३९ ॥
निर्घाता बहवो राजन्दिक्षु सर्वासु चाभवन् ।प्रादुरासीद्रजस्तीव्रं न प्राज्ञायत किंचन ॥ ४० ॥
ध्वजानां धूयमानानां सहसा मातरिश्वना ।किङ्किणीजालनद्धानां काञ्चनस्रग्वतां रवैः ॥ ४१ ॥
महतां सपताकानामादित्यसमतेजसाम् ।सर्वं झणझणीभूतमासीत्तालवनेष्विव ॥ ४२ ॥
एवं ते पुरुषव्याघ्राः पाण्डवा युद्धनन्दिनः ।व्यवस्थिताः प्रतिव्यूह्य तव पुत्रस्य वाहिनीम् ॥ ४३ ॥
स्रंसन्त इव मज्जानो योधानां भरतर्षभ ।दृष्ट्वाग्रतो भीमसेनं गदापाणिमवस्थितम् ॥ ४४ ॥
« »