Click on words to see what they mean.

संजय उवाच ।ततो मुहूर्तात्तुमुलः शब्दो हृदयकम्पनः ।अश्रूयत महाराज योधानां प्रयुयुत्सताम् ॥ १ ॥
शङ्खदुन्दुभिनिर्घोषैर्वारणानां च बृंहितैः ।रथानां नेमिघोषैश्च दीर्यतीव वसुंधरा ॥ २ ॥
हयानां हेषमाणानां योधानां तत्र गर्जताम् ।क्षणेन खं दिशश्चैव शब्देनापूरितं तदा ॥ ३ ॥
पुत्राणां तव दुर्धर्ष पाण्डवानां तथैव च ।समकम्पन्त सैन्यानि परस्परसमागमे ॥ ४ ॥
तत्र नागा रथाश्चैव जाम्बूनदविभूषिताः ।भ्राजमाना व्यदृश्यन्त मेघा इव सविद्युतः ॥ ५ ॥
ध्वजा बहुविधाकारास्तावकानां नराधिप ।काञ्चनाङ्गदिनो रेजुर्ज्वलिता इव पावकाः ॥ ६ ॥
स्वेषां चैव परेषां च समदृश्यन्त भारत ।महेन्द्रकेतवः शुभ्रा महेन्द्रसदनेष्विव ॥ ७ ॥
काञ्चनैः कवचैर्वीरा ज्वलनार्कसमप्रभैः ।संनद्धाः प्रत्यदृश्यन्त ग्रहाः प्रज्वलिता इव ॥ ८ ॥
उद्यतैरायुधैश्चित्रैस्तलबद्धाः पताकिनः ।ऋषभाक्षा महेष्वासाश्चमूमुखगता बभुः ॥ ९ ॥
पृष्ठगोपास्तु भीष्मस्य पुत्रास्तव नराधिप ।दुःशासनो दुर्विषहो दुर्मुखो दुःसहस्तथा ॥ १० ॥
विविंशतिश्चित्रसेनो विकर्णश्च महारथः ।सत्यव्रतः पुरुमित्रो जयो भूरिश्रवाः शलः ॥ ११ ॥
रथा विंशतिसाहस्रास्तथैषामनुयायिनः ।अभीषाहाः शूरसेनाः शिबयोऽथ वसातयः ॥ १२ ॥
शाल्वा मत्स्यास्तथाम्बष्ठास्त्रिगर्ताः केकयास्तथा ।सौवीराः कितवाः प्राच्याः प्रतीच्योदीच्यमालवाः ॥ १३ ॥
द्वादशैते जनपदाः सर्वे शूरास्तनुत्यजः ।महता रथवंशेन तेऽभ्यरक्षन्पितामहम् ॥ १४ ॥
अनीकं दशसाहस्रं कुञ्जराणां तरस्विनाम् ।मागधो येन नृपतिस्तद्रथानीकमन्वयात् ॥ १५ ॥
रथानां चक्ररक्षाश्च पादरक्षाश्च दन्तिनाम् ।अभूवन्वाहिनीमध्ये शतानामयुतानि षट् ॥ १६ ॥
पादाताश्चाग्रतोऽगच्छन्धनुश्चर्मासिपाणयः ।अनेकशतसाहस्रा नखरप्रासयोधिनः ॥ १७ ॥
अक्षौहिण्यो दशैका च तव पुत्रस्य भारत ।अदृश्यन्त महाराज गङ्गेव यमुनान्तरे ॥ १८ ॥
« »