Click on words to see what they mean.

संजय उवाच ।यथा स भगवान्व्यासः कृष्णद्वैपायनोऽब्रवीत् ।तथैव सहिताः सर्वे समाजग्मुर्महीक्षितः ॥ १ ॥
मघाविषयगः सोमस्तद्दिनं प्रत्यपद्यत ।दीप्यमानाश्च संपेतुर्दिवि सप्त महाग्रहाः ॥ २ ॥
द्विधाभूत इवादित्य उदये प्रत्यदृश्यत ।ज्वलन्त्या शिखया भूयो भानुमानुदितो दिवि ॥ ३ ॥
ववाशिरे च दीप्तायां दिशि गोमायुवायसाः ।लिप्समानाः शरीराणि मांसशोणितभोजनाः ॥ ४ ॥
अहन्यहनि पार्थानां वृद्धः कुरुपितामहः ।भरद्वाजात्मजश्चैव प्रातरुत्थाय संयतौ ॥ ५ ॥
जयोऽस्तु पाण्डुपुत्राणामित्यूचतुररिंदमौ ।युयुधाते तवार्थाय यथा स समयः कृतः ॥ ६ ॥
सर्वधर्मविशेषज्ञः पिता देवव्रतस्तव ।समानीय महीपालानिदं वचनमब्रवीत् ॥ ७ ॥
इदं वः क्षत्रिया द्वारं स्वर्गायापावृतं महत् ।गच्छध्वं तेन शक्रस्य ब्रह्मणश्च सलोकताम् ॥ ८ ॥
एष वः शाश्वतः पन्थाः पूर्वैः पूर्वतरैर्गतः ।संभावयत चात्मानमव्यग्रमनसो युधि ॥ ९ ॥
नाभागो हि ययातिश्च मान्धाता नहुषो नृगः ।संसिद्धाः परमं स्थानं गताः कर्मभिरीदृशैः ॥ १० ॥
अधर्मः क्षत्रियस्यैष यद्व्याधिमरणं गृहे ।यदाजौ निधनं याति सोऽस्य धर्मः सनातनः ॥ ११ ॥
एवमुक्ता महीपाला भीष्मेण भरतर्षभ ।निर्ययुः स्वान्यनीकानि शोभयन्तो रथोत्तमैः ॥ १२ ॥
स तु वैकर्तनः कर्णः सामात्यः सह बन्धुभिः ।न्यासितः समरे शस्त्रं भीष्मेण भरतर्षभ ॥ १३ ॥
अपेतकर्णाः पुत्रास्ते राजानश्चैव तावकाः ।निर्ययुः सिंहनादेन नादयन्तो दिशो दश ॥ १४ ॥
श्वेतैश्छत्रैः पताकाभिर्ध्वजवारणवाजिभिः ।तान्यनीकान्यशोभन्त रथैरथ पदातिभिः ॥ १५ ॥
भेरीपणवशब्दैश्च पटहानां च निस्वनैः ।रथनेमिनिनादैश्च बभूवाकुलिता मही ॥ १६ ॥
काञ्चनाङ्गदकेयूरैः कार्मुकैश्च महारथाः ।भ्राजमाना व्यदृश्यन्त जङ्गमाः पर्वता इव ॥ १७ ॥
तालेन महता भीष्मः पञ्चतारेण केतुना ।विमलादित्यसंकाशस्तस्थौ कुरुचमूपतिः ॥ १८ ॥
ये त्वदीया महेष्वासा राजानो भरतर्षभ ।अवर्तन्त यथादेशं राजञ्शांतनवस्य ते ॥ १९ ॥
स तु गोवासनः शैब्यः सहितः सर्वराजभिः ।ययौ मातङ्गराजेन राजार्हेण पताकिना ।पद्मवर्णस्त्वनीकानां सर्वेषामग्रतः स्थितः ॥ २० ॥
अश्वत्थामा ययौ यत्तः सिंहलाङ्गूलकेतनः ।श्रुतायुश्चित्रसेनश्च पुरुमित्रो विविंशतिः ॥ २१ ॥
शल्यो भूरिश्रवाश्चैव विकर्णश्च महारथः ।एते सप्त महेष्वासा द्रोणपुत्रपुरोगमाः ।स्यन्दनैर्वरवर्णाभैर्भीष्मस्यासन्पुरःसराः ॥ २२ ॥
तेषामपि महोत्सेधाः शोभयन्तो रथोत्तमान् ।भ्राजमाना व्यदृश्यन्त जाम्बूनदमया ध्वजाः ॥ २३ ॥
जाम्बूनदमयी वेदिः कमण्डलुविभूषिता ।केतुराचार्यमुख्यस्य द्रोणस्य धनुषा सह ॥ २४ ॥
अनेकशतसाहस्रमनीकमनुकर्षतः ।महान्दुर्योधनस्यासीन्नागो मणिमयो ध्वजः ॥ २५ ॥
तस्य पौरवकालिङ्गौ काम्बोजश्च सुदक्षिणः ।क्षेमधन्वा सुमित्रश्च तस्थुः प्रमुखतो रथाः ॥ २६ ॥
स्यन्दनेन महार्हेण केतुना वृषभेण च ।प्रकर्षन्निव सेनाग्रं मागधश्च नृपो ययौ ॥ २७ ॥
तदङ्गपतिना गुप्तं कृपेण च महात्मना ।शारदाभ्रचयप्रख्यं प्राच्यानामभवद्बलम् ॥ २८ ॥
अनीकप्रमुखे तिष्ठन्वराहेण महायशाः ।शुशुभे केतुमुख्येन राजतेन जयद्रथः ॥ २९ ॥
शतं रथसहस्राणां तस्यासन्वशवर्तिनः ।अष्टौ नागसहस्राणि सादिनामयुतानि षट् ॥ ३० ॥
तत्सिन्धुपतिना राजन्पालितं ध्वजिनीमुखम् ।अनन्तरथनागाश्वमशोभत महद्बलम् ॥ ३१ ॥
षष्ट्या रथसहस्रैस्तु नागानामयुतेन च ।पतिः सर्वकलिङ्गानां ययौ केतुमता सह ॥ ३२ ॥
तस्य पर्वतसंकाशा व्यरोचन्त महागजाः ।यन्त्रतोमरतूणीरैः पताकाभिश्च शोभिताः ॥ ३३ ॥
शुशुभे केतुमुख्येन पादपेन कलिङ्गपः ।श्वेतच्छत्रेण निष्केण चामरव्यजनेन च ॥ ३४ ॥
केतुमानपि मातङ्गं विचित्रपरमाङ्कुशम् ।आस्थितः समरे राजन्मेघस्थ इव भानुमान् ॥ ३५ ॥
तेजसा दीप्यमानस्तु वारणोत्तममास्थितः ।भगदत्तो ययौ राजा यथा वज्रधरस्तथा ॥ ३६ ॥
गजस्कन्धगतावास्तां भगदत्तेन संमितौ ।विन्दानुविन्दावावन्त्यौ केतुमन्तमनुव्रतौ ॥ ३७ ॥
स रथानीकवान्व्यूहो हस्त्यङ्गोत्तमशीर्षवान् ।वाजिपक्षः पतन्नुग्रः प्राहरत्सर्वतोमुखः ॥ ३८ ॥
द्रोणेन विहितो राजन्राज्ञा शांतनवेन च ।तथैवाचार्यपुत्रेण बाह्लीकेन कृपेण च ॥ ३९ ॥
« »