Click on words to see what they mean.

धृतराष्ट्र उवाच ।कथं कुरूणामृषभो हतो भीष्मः शिखण्डिना ।कथं रथात्स न्यपतत्पिता मे वासवोपमः ॥ १ ॥
कथमासंश्च मे पुत्रा हीना भीष्मेण संजय ।बलिना देवकल्पेन गुर्वर्थे ब्रह्मचारिणा ॥ २ ॥
तस्मिन्हते महासत्त्वे महेष्वासे महाबले ।महारथे नरव्याघ्रे किमु आसीन्मनस्तदा ॥ ३ ॥
आर्तिः परा माविशति यतः शंससि मे हतम् ।कुरूणामृषभं वीरमकम्प्यं पुरुषर्षभम् ॥ ४ ॥
के तं यान्तमनुप्रेयुः के चास्यासन्पुरोगमाः ।केऽतिष्ठन्के न्यवर्तन्त केऽभ्यवर्तन्त संजय ॥ ५ ॥
के शूरा रथशार्दूलमच्युतं क्षत्रियर्षभम् ।रथानीकं गाहमानं सहसा पृष्ठतोऽन्वयुः ॥ ६ ॥
यस्तमोऽर्क इवापोहन्परसैन्यममित्रहा ।सहस्ररश्मिप्रतिमः परेषां भयमादधत् ।अकरोद्दुष्करं कर्म रणे कौरवशासनात् ॥ ७ ॥
ग्रसमानमनीकानि य एनं पर्यवारयन् ।कृतिनं तं दुराधर्षं सम्यग्यास्यन्तमन्तिके ।कथं शांतनवं युद्धे पाण्डवाः प्रत्यवारयन् ॥ ८ ॥
निकृन्तन्तमनीकानि शरदंष्ट्रं तरस्विनम् ।चापव्यात्ताननं घोरमसिजिह्वं दुरासदम् ॥ ९ ॥
अत्यन्यान्पुरुषव्याघ्रान्ह्रीमन्तमपराजितम् ।पातयामास कौन्तेयः कथं तमजितं युधि ॥ १० ॥
उग्रधन्वानमुग्रेषुं वर्तमानं रथोत्तमे ।परेषामुत्तमाङ्गानि प्रचिन्वन्तं शितेषुभिः ॥ ११ ॥
पाण्डवानां महत्सैन्यं यं दृष्ट्वोद्यन्तमाहवे ।कालाग्निमिव दुर्धर्षं समवेष्टत नित्यशः ॥ १२ ॥
परिकृष्य स सेनां मे दशरात्रमनीकहा ।जगामास्तमिवादित्यः कृत्वा कर्म सुदुष्करम् ॥ १३ ॥
यः स शक्र इवाक्षय्यं वर्षं शरमयं सृजन् ।जघान युधि योधानामर्बुदं दशभिर्दिनैः ॥ १४ ॥
स शेते निष्टनन्भूमौ वातरुग्ण इव द्रुमः ।मम दुर्मन्त्रितेनासौ यथा नार्हः स भारतः ॥ १५ ॥
कथं शांतनवं दृष्ट्वा पाण्डवानामनीकिनी ।प्रहर्तुमशकत्तत्र भीष्मं भीमपराक्रमम् ॥ १६ ॥
कथं भीष्मेण संग्राममकुर्वन्पाण्डुनन्दनाः ।कथं च नाजयद्भीष्मो द्रोणे जीवति संजय ॥ १७ ॥
कृपे संनिहिते तत्र भरद्वाजात्मजे तथा ।भीष्मः प्रहरतां श्रेष्ठः कथं स निधनं गतः ॥ १८ ॥
कथं चातिरथस्तेन पाञ्चाल्येन शिखण्डिना ।भीष्मो विनिहतो युद्धे देवैरपि दुरुत्सहः ॥ १९ ॥
यः स्पर्धते रणे नित्यं जामदग्न्यं महाबलम् ।अजितं जामदग्न्येन शक्रतुल्यपराक्रमम् ॥ २० ॥
तं हतं समरे भीष्मं महारथबलोचितम् ।संजयाचक्ष्व मे वीरं येन शर्म न विद्महे ॥ २१ ॥
मामकाः के महेष्वासा नाजहुः संजयाच्युतम् ।दुर्योधनसमादिष्टाः के वीराः पर्यवारयन् ॥ २२ ॥
यच्छिखण्डिमुखाः सर्वे पाण्डवा भीष्ममभ्ययुः ।कच्चिन्न कुरवो भीतास्तत्यजुः संजयाच्युतम् ॥ २३ ॥
मौर्वीघोषस्तनयित्नुः पृषत्कपृषतो महान् ।धनुर्ह्रादमहाशब्दो महामेघ इवोन्नतः ॥ २४ ॥
यदभ्यवर्षत्कौन्तेयान्सपाञ्चालान्ससृञ्जयान् ।निघ्नन्पररथान्वीरो दानवानिव वज्रभृत् ॥ २५ ॥
इष्वस्त्रसागरं घोरं बाणग्राहं दुरासदम् ।कार्मुकोर्मिणमक्षय्यमद्वीपं समरेऽप्लवम् ।गदासिमकरावर्तं हयग्राहं गजाकुलम् ॥ २६ ॥
हयान्गजान्पदातांश्च रथांश्च तरसा बहून् ।निमज्जयन्तं समरे परवीरापहारिणम् ॥ २७ ॥
विदह्यमानं कोपेन तेजसा च परंतपम् ।वेलेव मकरावासं के वीराः पर्यवारयन् ॥ २८ ॥
भीष्मो यदकरोत्कर्म समरे संजयारिहा ।दुर्योधनहितार्थाय के तदास्य पुरोऽभवन् ॥ २९ ॥
केऽरक्षन्दक्षिणं चक्रं भीष्मस्यामिततेजसः ।पृष्ठतः के परान्वीरा उपासेधन्यतव्रताः ॥ ३० ॥
के पुरस्तादवर्तन्त रक्षन्तो भीष्ममन्तिके ।केऽरक्षन्नुत्तरं चक्रं वीरा वीरस्य युध्यतः ॥ ३१ ॥
वामे चक्रे वर्तमानाः केऽघ्नन्संजय सृञ्जयान् ।समेताग्रमनीकेषु केऽभ्यरक्षन्दुरासदम् ॥ ३२ ॥
पार्श्वतः केऽभ्यवर्तन्त गच्छन्तो दुर्गमां गतिम् ।समूहे के परान्वीरान्प्रत्ययुध्यन्त संजय ॥ ३३ ॥
रक्ष्यमाणः कथं वीरैर्गोप्यमानाश्च तेन ते ।दुर्जयानामनीकानि नाजयंस्तरसा युधि ॥ ३४ ॥
सर्वलोकेश्वरस्येव परमेष्ठिप्रजापतेः ।कथं प्रहर्तुमपि ते शेकुः संजय पाण्डवाः ॥ ३५ ॥
यस्मिन्द्वीपे समाश्रित्य युध्यन्ति कुरवः परैः ।तं निमग्नं नरव्याघ्रं भीष्मं शंससि संजय ॥ ३६ ॥
यस्य वीर्ये समाश्वस्य मम पुत्रो बृहद्बलः ।न पाण्डवानगणयत्कथं स निहतः परैः ॥ ३७ ॥
यः पुरा विबुधैः सेन्द्रैः साहाय्ये युद्धदुर्मदः ।काङ्क्षितो दानवान्घ्नद्भिः पिता मम महाव्रतः ॥ ३८ ॥
यस्मिञ्जाते महावीर्ये शंतनुर्लोकशंकरे ।शोकं दुःखं च दैन्यं च प्राजहात्पुत्रलक्ष्मणि ॥ ३९ ॥
प्रज्ञा परायणं तज्ज्ञं सद्धर्मनिरतं शुचिम् ।वेदवेदाङ्गतत्त्वज्ञं कथं शंससि मे हतम् ॥ ४० ॥
सर्वास्त्रविनयोपेतं दान्तं शान्तं मनस्विनम् ।हतं शांतनवं श्रुत्वा मन्ये शेषं बलं हतम् ॥ ४१ ॥
धर्मादधर्मो बलवान्संप्राप्त इति मे मतिः ।यत्र वृद्धं गुरुं हत्वा राज्यमिच्छन्ति पाण्डवाः ॥ ४२ ॥
जामदग्न्यः पुरा रामः सर्वास्त्रविदनुत्तमः ।अम्बार्थमुद्यतः संख्ये भीष्मेण युधि निर्जितः ॥ ४३ ॥
तमिन्द्रसमकर्माणं ककुदं सर्वधन्विनाम् ।हतं शंससि भीष्मं मे किं नु दुःखमतः परम् ॥ ४४ ॥
असकृत्क्षत्रियव्राताः संख्ये येन विनिर्जिताः ।जामदग्न्यस्तथा रामः परवीरनिघातिना ॥ ४५ ॥
तस्मान्नूनं महावीर्याद्भार्गवाद्युद्धदुर्मदात् ।तेजोवीर्यबलैर्भूयाञ्शिखण्डी द्रुपदात्मजः ॥ ४६ ॥
यः शूरं कृतिनं युद्धे सर्वशास्त्रविशारदम् ।परमास्त्रविदं वीरं जघान भरतर्षभम् ॥ ४७ ॥
के वीरास्तममित्रघ्नमन्वयुः शत्रुसंसदि ।शंस मे तद्यथा वृत्तं युद्धं भीष्मस्य पाण्डवैः ॥ ४८ ॥
योषेव हतवीरा मे सेना पुत्रस्य संजय ।अगोपमिव चोद्भ्रान्तं गोकुलं तद्बलं मम ॥ ४९ ॥
पौरुषं सर्वलोकस्य परं यस्य महाहवे ।परासिक्ते च वस्तस्मिन्कथमासीन्मनस्तदा ॥ ५० ॥
जीवितेऽप्यद्य सामर्थ्यं किमिवास्मासु संजय ।घातयित्वा महावीर्यं पितरं लोकधार्मिकम् ॥ ५१ ॥
अगाधे सलिले मग्नां नावं दृष्ट्वेव पारगाः ।भीष्मे हते भृशं दुःखान्मन्ये शोचन्ति पुत्रकाः ॥ ५२ ॥
अद्रिसारमयं नूनं सुदृढं हृदयं मम ।यच्छ्रुत्वा पुरुषव्याघ्रं हतं भीष्मं न दीर्यते ॥ ५३ ॥
यस्मिन्नस्त्रं च मेधा च नीतिश्च भरतर्षभे ।अप्रमेयाणि दुर्धर्षे कथं स निहतो युधि ॥ ५४ ॥
न चास्त्रेण न शौर्येण तपसा मेधया न च ।न धृत्या न पुनस्त्यागान्मृत्योः कश्चिद्विमुच्यते ॥ ५५ ॥
कालो नूनं महावीर्यः सर्वलोकदुरत्ययः ।यत्र शांतनवं भीष्मं हतं शंससि संजय ॥ ५६ ॥
पुत्रशोकाभिसंतप्तो महद्दुःखमचिन्तयन् ।आशंसेऽहं पुरा त्राणं भीष्माच्छंतनुनन्दनात् ॥ ५७ ॥
यदादित्यमिवापश्यत्पतितं भुवि संजय ।दुर्योधनः शांतनवं किं तदा प्रत्यपद्यत ॥ ५८ ॥
नाहं स्वेषां परेषां वा बुद्ध्या संजय चिन्तयन् ।शेषं किंचित्प्रपश्यामि प्रत्यनीके महीक्षिताम् ॥ ५९ ॥
दारुणः क्षत्रधर्मोऽयमृषिभिः संप्रदर्शितः ।यत्र शांतनवं हत्वा राज्यमिच्छन्ति पाण्डवाः ॥ ६० ॥
वयं वा राज्यमिच्छामो घातयित्वा पितामहम् ।क्षत्रधर्मे स्थिताः पार्था नापराध्यन्ति पुत्रकाः ॥ ६१ ॥
एतदार्येण कर्तव्यं कृच्छ्रास्वापत्सु संजय ।पराक्रमः परं शक्त्या तच्च तस्मिन्प्रतिष्ठितम् ॥ ६२ ॥
अनीकानि विनिघ्नन्तं ह्रीमन्तमपराजितम् ।कथं शांतनवं तात पाण्डुपुत्रा न्यपातयन् ॥ ६३ ॥
कथं युक्तान्यनीकानि कथं युद्धं महात्मभिः ।कथं वा निहतो भीष्मः पिता संजय मे परैः ॥ ६४ ॥
दुर्योधनश्च कर्णश्च शकुनिश्चापि सौबलः ।दुःशासनश्च कितवो हते भीष्मे किमब्रुवन् ॥ ६५ ॥
यच्छरीरैरुपस्तीर्णां नरवारणवाजिनाम् ।शरशक्तिगदाखड्गतोमराक्षां भयावहाम् ॥ ६६ ॥
प्राविशन्कितवा मन्दाः सभां युधि दुरासदाम् ।प्राणद्यूते प्रतिभये केऽदीव्यन्त नरर्षभाः ॥ ६७ ॥
केऽजयन्के जितास्तत्र हृतलक्षा निपातिताः ।अन्ये भीष्माच्छांतनवात्तन्ममाचक्ष्व संजय ॥ ६८ ॥
न हि मे शान्तिरस्तीह युधि देवव्रतं हतम् ।पितरं भीमकर्माणं श्रुत्वा मे दुःखमाविशत् ॥ ६९ ॥
आर्तिं मे हृदये रूढां महतीं पुत्रकारिताम् ।त्वं सिञ्चन्सर्पिषेवाग्निमुद्दीपयसि संजय ॥ ७० ॥
महान्तं भारमुद्यम्य विश्रुतं सार्वलौकिकम् ।दृष्ट्वा विनिहतं भीष्मं मन्ये शोचन्ति पुत्रकाः ॥ ७१ ॥
श्रोष्यामि तानि दुःखानि दुर्योधनकृतान्यहम् ।तस्मान्मे सर्वमाचक्ष्व यद्वृत्तं तत्र संजय ॥ ७२ ॥
संग्रामे पृथिवीशानां मन्दस्याबुद्धिसंभवम् ।अपनीतं सुनीतं वा तन्ममाचक्ष्व संजय ॥ ७३ ॥
यत्कृतं तत्र भीष्मेण संग्रामे जयमिच्छता ।तेजोयुक्तं कृतास्त्रेण शंस तच्चाप्यशेषतः ॥ ७४ ॥
यथा तदभवद्युद्धं कुरुपाण्डवसेनयोः ।क्रमेण येन यस्मिंश्च काले यच्च यथा च तत् ॥ ७५ ॥
« »