Click on words to see what they mean.

संजय उवाच ।व्युष्टायां तु महाराज रजन्यां सर्वपार्थिवाः ।पाण्डवा धार्तराष्ट्राश्च अभिजग्मुः पितामहम् ॥ १ ॥
तं वीरशयने वीरं शयानं कुरुसत्तमम् ।अभिवाद्योपतस्थुर्वै क्षत्रियाः क्षत्रियर्षभम् ॥ २ ॥
कन्याश्चन्दनचूर्णैश्च लाजैर्माल्यैश्च सर्वशः ।स्त्रियो बालास्तथा वृद्धाः प्रेक्षकाश्च पृथग्जनाः ।समभ्ययुः शांतनवं भूतानीव तमोनुदम् ॥ ३ ॥
तूर्याणि गणिका वारास्तथैव नटनर्तकाः ।उपानृत्यञ्जगुश्चैव वृद्धं कुरुपितामहम् ॥ ४ ॥
उपारम्य च युद्धेभ्यः संनाहान्विप्रमुच्य च ।आयुधानि च निक्षिप्य सहिताः कुरुपाण्डवाः ॥ ५ ॥
अन्वासत दुराधर्षं देवव्रतमरिंदमम् ।अन्योन्यं प्रीतिमन्तस्ते यथापूर्वं यथावयः ॥ ६ ॥
सा पार्थिवशताकीर्णा समितिर्भीष्मशोभिता ।शुशुभे भारती दीप्ता दिवीवादित्यमण्डलम् ॥ ७ ॥
विबभौ च नृपाणां सा पितामहमुपासताम् ।देवानामिव देवेशं पितामहमुपासताम् ॥ ८ ॥
भीष्मस्तु वेदनां धैर्यान्निगृह्य भरतर्षभ ।अभितप्तः शरैश्चैव नातिहृष्टमनाब्रवीत् ॥ ९ ॥
शराभितप्तकायोऽहं शरसंतापमूर्छितः ।पानीयमभिकाङ्क्षेऽहं राज्ञस्तान्प्रत्यभाषत ॥ १० ॥
ततस्ते क्षत्रिया राजन्समाजह्रुः समन्ततः ।भक्ष्यानुच्चावचांस्तत्र वारिकुम्भांश्च शीतलान् ॥ ११ ॥
उपनीतं च तद्दृष्ट्वा भीष्मः शांतनवोऽब्रवीत् ।नाद्य तात मया शक्यं भोगान्कांश्चन मानुषान् ॥ १२ ॥
उपभोक्तुं मनुष्येभ्यः शरशय्यागतो ह्यहम् ।प्रतीक्षमाणस्तिष्ठामि निवृत्तिं शशिसूर्ययोः ॥ १३ ॥
एवमुक्त्वा शांतनवो दीनवाक्सर्वपार्थिवान् ।धनंजयं महाबाहुमभ्यभाषत भारत ॥ १४ ॥
अथोपेत्य महाबाहुरभिवाद्य पितामहम् ।अतिष्ठत्प्राञ्जलिः प्रह्वः किं करोमीति चाब्रवीत् ॥ १५ ॥
तं दृष्ट्वा पाण्डवं राजन्नभिवाद्याग्रतः स्थितम् ।अभ्यभाषत धर्मात्मा भीष्मः प्रीतो धनंजयम् ॥ १६ ॥
दह्यतेऽदः शरीरं मे संस्यूतोऽस्मि महेषुभिः ।मर्माणि परिदूयन्ते वदनं मम शुष्यति ॥ १७ ॥
ह्लादनार्थं शरीरस्य प्रयच्छापो ममार्जुन ।त्वं हि शक्तो महेष्वास दातुमम्भो यथाविधि ॥ १८ ॥
अर्जुनस्तु तथेत्युक्त्वा रथमारुह्य वीर्यवान् ।अधिज्यं बलवत्कृत्वा गाण्डीवं व्याक्षिपद्धनुः ॥ १९ ॥
तस्य ज्यातलनिर्घोषं विस्फूर्जितमिवाशनेः ।वित्रेसुः सर्वभूतानि श्रुत्वा सर्वे च पार्थिवाः ॥ २० ॥
ततः प्रदक्षिणं कृत्वा रथेन रथिनां वरः ।शयानं भरतश्रेष्ठं सर्वशस्त्रभृतां वरम् ॥ २१ ॥
संधाय च शरं दीप्तमभिमन्त्र्य महायशाः ।पर्जन्यास्त्रेण संयोज्य सर्वलोकस्य पश्यतः ।अविध्यत्पृथिवीं पार्थः पार्श्वे भीष्मस्य दक्षिणे ॥ २२ ॥
उत्पपात ततो धारा विमला वारिणः शिवा ।शीतस्यामृतकल्पस्य दिव्यगन्धरसस्य च ॥ २३ ॥
अतर्पयत्ततः पार्थः शीतया वारिधारया ।भीष्मं कुरूणामृषभं दिव्यकर्मपराक्रमः ॥ २४ ॥
कर्मणा तेन पार्थस्य शक्रष्येव विकुर्वतः ।विस्मयं परमं जग्मुस्ततस्ते वसुधाधिपाः ॥ २५ ॥
तत्कर्म प्रेक्ष्य बीभत्सोरतिमानुषमद्भुतम् ।संप्रावेपन्त कुरवो गावः शीतार्दिता इव ॥ २६ ॥
विस्मयाच्चोत्तरीयाणि व्याविध्यन्सर्वतो नृपाः ।शङ्खदुन्दुभिनिर्घोषैस्तुमुलं सर्वतोऽभवत् ॥ २७ ॥
तृप्तः शांतनवश्चापि राजन्बीभत्सुमब्रवीत् ।सर्वपार्थिववीराणां संनिधौ पूजयन्निव ॥ २८ ॥
नैतच्चित्रं महाबाहो त्वयि कौरवनन्दन ।कथितो नारदेनासि पूर्वर्षिरमितद्युतिः ॥ २९ ॥
वासुदेवसहायस्त्वं महत्कर्म करिष्यसि ।यन्नोत्सहति देवेन्द्रः सह देवैरपि ध्रुवम् ॥ ३० ॥
विदुस्त्वां निधनं पार्थ सर्वक्षत्रस्य तद्विदः ।धनुर्धराणामेकस्त्वं पृथिव्यां प्रवरो नृषु ॥ ३१ ॥
मनुष्या जगति श्रेष्ठाः पक्षिणां गरुडो वरः ।सरसां सागरः श्रेष्ठो गौर्वरिष्ठा चतुष्पदाम् ॥ ३२ ॥
आदित्यस्तेजसां श्रेष्ठो गिरीणां हिमवान्वरः ।जातीनां ब्राह्मणः श्रेष्ठः श्रेष्ठस्त्वमसि धन्विनाम् ॥ ३३ ॥
न वै श्रुतं धार्तराष्ट्रेण वाक्यं संबोध्यमानं विदुरेण चैव ।द्रोणेन रामेण जनार्दनेन मुहुर्मुहुः संजयेनापि चोक्तम् ॥ ३४ ॥
परीतबुद्धिर्हि विसंज्ञकल्पो दुर्योधनो नाभ्यनन्दद्वचो मे ।स शेष्यते वै निहतश्चिराय शास्त्रातिगो भीमबलाभिभूतः ॥ ३५ ॥
ततः श्रुत्वा तद्वचः कौरवेन्द्रो दुर्योधनो दीनमना बभूव ।तमब्रवीच्छांतनवोऽभिवीक्ष्य निबोध राजन्भव वीतमन्युः ॥ ३६ ॥
दृष्टं दुर्योधनेदं ते यथा पार्थेन धीमता ।जलस्य धारा जनिता शीतस्यामृतगन्धिनः ।एतस्य कर्ता लोकेऽस्मिन्नान्यः कश्चन विद्यते ॥ ३७ ॥
आग्नेयं वारुणं सौम्यं वायव्यमथ वैष्णवम् ।ऐन्द्रं पाशुपतं ब्राह्मं पारमेष्ठ्यं प्रजापतेः ।धातुस्त्वष्टुश्च सवितुर्दिव्यान्यस्त्राणि सर्वशः ॥ ३८ ॥
सर्वस्मिन्मानुषे लोके वेत्त्येको हि धनंजयः ।कृष्णो वा देवकीपुत्रो नान्यो वै वेद कश्चन ।न शक्याः पाण्डवास्तात युद्धे जेतुं कथंचन ॥ ३९ ॥
अमानुषाणि कर्माणि यस्यैतानि महात्मनः ।तेन सत्त्ववता संख्ये शूरेणाहवशोभिना ।कृतिना समरे राजन्संधिस्ते तात युज्यताम् ॥ ४० ॥
यावत्कृष्णो महाबाहुः स्वाधीनः कुरुसंसदि ।तावत्पार्थेन शूरेण संधिस्ते तात युज्यताम् ॥ ४१ ॥
यावच्चमूं न ते शेषां शरैः संनतपर्वभिः ।नाशयत्यर्जुनस्तावत्संधिस्ते तात युज्यताम् ॥ ४२ ॥
यावत्तिष्ठन्ति समरे हतशेषाः सहोदराः ।नृपाश्च बहवो राजंस्तावत्संधिः प्रयुज्यताम् ॥ ४३ ॥
न निर्दहति ते यावत्क्रोधदीप्तेक्षणश्चमूम् ।युधिष्ठिरो हि तावद्वै संधिस्ते तात युज्यताम् ॥ ४४ ॥
नकुलः सहदेवश्च भीमसेनश्च पाण्डवः ।यावच्चमूं महाराज नाशयन्ति न सर्वशः ।तावत्ते पाण्डवैः सार्धं सौभ्रात्रं तात रोचताम् ॥ ४५ ॥
युद्धं मदन्तमेवास्तु तात संशाम्य पाण्डवैः ।एतत्ते रोचतां वाक्यं यदुक्तोऽसि मयानघ ।एतत्क्षेममहं मन्ये तव चैव कुलस्य च ॥ ४६ ॥
त्यक्त्वा मन्युमुपशाम्यस्व पार्थैः पर्याप्तमेतद्यत्कृतं फल्गुनेन ।भीष्मस्यान्तादस्तु वः सौहृदं वा संप्रश्लेषः साधु राजन्प्रसीद ॥ ४७ ॥
राज्यस्यार्धं दीयतां पाण्डवानामिन्द्रप्रस्थं धर्मराजोऽनुशास्तु ।मा मित्रध्रुक्पार्थिवानां जघन्यः पापां कीर्तिं प्राप्स्यसे कौरवेन्द्र ॥ ४८ ॥
ममावसानाच्छान्तिरस्तु प्रजानां संगच्छन्तां पार्थिवाः प्रीतिमन्तः ।पिता पुत्रं मातुलं भागिनेयो भ्राता चैव भ्रातरं प्रैतु राजन् ॥ ४९ ॥
न चेदेवं प्राप्तकालं वचो मे मोहाविष्टः प्रतिपत्स्यस्यबुद्ध्या ।भीष्मस्यान्तादेतदन्ताः स्थ सर्वे सत्यामेतां भारतीमीरयामि ॥ ५० ॥
एतद्वाक्यं सौहृदादापगेयो मध्ये राज्ञां भारतं श्रावयित्वा ।तूष्णीमासीच्छल्यसंतप्तमर्मा यत्वात्मानं वेदनां संनिगृह्य ॥ ५१ ॥
« »