Click on words to see what they mean.

धृतराष्ट्र उवाच ।यदिदं भारतं वर्षं यत्रेदं मूर्छितं बलम् ।यत्रातिमात्रं लुब्धोऽयं पुत्रो दुर्योधनो मम ॥ १ ॥
यत्र गृद्धाः पाण्डुसुता यत्र मे सज्जते मनः ।एतन्मे तत्त्वमाचक्ष्व कुशलो ह्यसि संजय ॥ २ ॥
संजय उवाच ।न तत्र पाण्डवा गृद्धाः शृणु राजन्वचो मम ।गृद्धो दुर्योधनस्तत्र शकुनिश्चापि सौबलः ॥ ३ ॥
अपरे क्षत्रियाश्चापि नानाजनपदेश्वराः ।ये गृद्धा भारते वर्षे न मृष्यन्ति परस्परम् ॥ ४ ॥
अत्र ते वर्णयिष्यामि वर्षं भारत भारतम् ।प्रियमिन्द्रस्य देवस्य मनोर्वैवस्वतस्य च ॥ ५ ॥
पृथोश्च राजन्वैन्यस्य तथेक्ष्वाकोर्महात्मनः ।ययातेरम्बरीषस्य मान्धातुर्नहुषस्य च ॥ ६ ॥
तथैव मुचुकुन्दस्य शिबेरौशीनरस्य च ।ऋषभस्य तथैलस्य नृगस्य नृपतेस्तथा ॥ ७ ॥
अन्येषां च महाराज क्षत्रियाणां बलीयसाम् ।सर्वेषामेव राजेन्द्र प्रियं भारत भारतम् ॥ ८ ॥
तत्ते वर्षं प्रवक्ष्यामि यथाश्रुतमरिंदम ।शृणु मे गदतो राजन्यन्मां त्वं परिपृच्छसि ॥ ९ ॥
महेन्द्रो मलयः सह्यः शुक्तिमानृक्षवानपि ।विन्ध्यश्च पारियात्रश्च सप्तैते कुलपर्वताः ॥ १० ॥
तेषां सहस्रशो राजन्पर्वतास्तु समीपतः ।अभिज्ञाताः सारवन्तो विपुलाश्चित्रसानवः ॥ ११ ॥
अन्ये ततोऽपरिज्ञाता ह्रस्वा ह्रस्वोपजीविनः ।आर्या म्लेच्छाश्च कौरव्य तैर्मिश्राः पुरुषा विभो ॥ १२ ॥
नदीः पिबन्ति बहुला गङ्गां सिन्धुं सरस्वतीम् ।गोदावरीं नर्मदां च बाहुदां च महानदीम् ॥ १३ ॥
शतद्रुं चन्द्रभागां च यमुनां च महानदीम् ।दृषद्वतीं विपाशां च विपापां स्थूलवालुकाम् ॥ १४ ॥
नदीं वेत्रवतीं चैव कृष्णवेणां च निम्नगाम् ।इरावतीं वितस्तां च पयोष्णीं देविकामपि ॥ १५ ॥
वेदस्मृतिं वेतसिनीं त्रिदिवामिष्कुमालिनीम् ।करीषिणीं चित्रवहां चित्रसेनां च निम्नगाम् ॥ १६ ॥
गोमतीं धूतपापां च वन्दनां च महानदीम् ।कौशिकीं त्रिदिवां कृत्यां विचित्रां लोहतारिणीम् ॥ १७ ॥
रथस्थां शतकुम्भां च सरयूं च नरेश्वर ।चर्मण्वतीं वेत्रवतीं हस्तिसोमां दिशं तथा ॥ १८ ॥
शतावरीं पयोष्णीं च परां भैमरथीं तथा ।कावेरीं चुलुकां चापि वापीं शतबलामपि ॥ १९ ॥
निचीरां महितां चापि सुप्रयोगां नराधिप ।पवित्रां कुण्डलां सिन्धुं वाजिनीं पुरमालिनीम् ॥ २० ॥
पूर्वाभिरामां वीरां च भीमामोघवतीं तथा ।पलाशिनीं पापहरां महेन्द्रां पिप्पलावतीम् ॥ २१ ॥
पारिषेणामसिक्नीं च सरलां भारमर्दिनीम् ।पुरुहीं प्रवरां मेनां मोघां घृतवतीं तथा ॥ २२ ॥
धूमत्यामतिकृष्णां च सूचीं छावीं च कौरव ।सदानीरामधृष्यां च कुशधारां महानदीम् ॥ २३ ॥
शशिकान्तां शिवां चैव तथा वीरवतीमपि ।वास्तुं सुवास्तुं गौरीं च कम्पनां सहिरण्वतीम् ॥ २४ ॥
हिरण्वतीं चित्रवतीं चित्रसेनां च निम्नगाम् ।रथचित्रां ज्योतिरथां विश्वामित्रां कपिञ्जलाम् ॥ २५ ॥
उपेन्द्रां बहुलां चैव कुचरामम्बुवाहिनीम् ।वैनन्दीं पिञ्जलां वेण्णां तुङ्गवेणां महानदीम् ॥ २६ ॥
विदिशां कृष्णवेण्णां च ताम्रां च कपिलामपि ।शलुं सुवामां वेदाश्वां हरिस्रावां महापगाम् ॥ २७ ॥
शीघ्रां च पिच्छिलां चैव भारद्वाजीं च निम्नगाम् ।कौशिकीं निम्नगां शोणां बाहुदामथ चन्दनाम् ॥ २८ ॥
दुर्गामन्तःशिलां चैव ब्रह्ममेध्यां बृहद्वतीम् ।चरक्षां महिरोहीं च तथा जम्बुनदीमपि ॥ २९ ॥
सुनसां तमसां दासीं त्रसामन्यां वराणसीम् ।लोलोद्धृतकरां चैव पूर्णाशां च महानदीम् ॥ ३० ॥
मानवीं वृषभां चैव महानद्यो जनाधिप ।सदानिरामयां वृत्यां मन्दगां मन्दवाहिनीम् ॥ ३१ ॥
ब्रह्माणीं च महागौरीं दुर्गामपि च भारत ।चित्रोपलां चित्रबर्हां मञ्जुं मकरवाहिनीम् ॥ ३२ ॥
मन्दाकिनीं वैतरणीं कोकां चैव महानदीम् ।शुक्तिमतीमरण्यां च पुष्पवेण्युत्पलावतीम् ॥ ३३ ॥
लोहित्यां करतोयां च तथैव वृषभङ्गिनीम् ।कुमारीमृषिकुल्यां च ब्रह्मकुल्यां च भारत ॥ ३४ ॥
सरस्वतीः सुपुण्याश्च सर्वा गङ्गाश्च मारिष ।विश्वस्य मातरः सर्वाः सर्वाश्चैव महाबलाः ॥ ३५ ॥
तथा नद्यस्त्वप्रकाशाः शतशोऽथ सहस्रशः ।इत्येताः सरितो राजन्समाख्याता यथास्मृति ॥ ३६ ॥
अत ऊर्ध्वं जनपदान्निबोध गदतो मम ।तत्रेमे कुरुपाञ्चालाः शाल्वमाद्रेयजाङ्गलाः ॥ ३७ ॥
शूरसेनाः कलिङ्गाश्च बोधा मौकास्तथैव च ।मत्स्याः सुकुट्यः सौबल्याः कुन्तलाः काशिकोशलाः ॥ ३८ ॥
चेदिवत्साः करूषाश्च भोजाः सिन्धुपुलिन्दकाः ।उत्तमौजा दशार्णाश्च मेकलाश्चोत्कलैः सह ॥ ३९ ॥
पाञ्चालाः कौशिजाश्चैव एकपृष्ठा युगंधराः ।सौधा मद्रा भुजिङ्गाश्च काशयोऽपरकाशयः ॥ ४० ॥
जठराः कुक्कुशाश्चैव सुदाशार्णाश्च भारत ।कुन्तयोऽवन्तयश्चैव तथैवापरकुन्तयः ॥ ४१ ॥
गोविन्दा मन्दकाः षण्डा विदर्भानूपवासिकाः ।अश्मकाः पांसुराष्ट्राश्च गोपराष्ट्राः पनीतकाः ॥ ४२ ॥
आदिराष्ट्राः सुकुट्टाश्च बलिराष्ट्रं च केवलम् ।वानरास्याः प्रवाहाश्च वक्रा वक्रभयाः शकाः ॥ ४३ ॥
विदेहका मागधाश्च सुह्माश्च विजयास्तथा ।अङ्गा वङ्गाः कलिङ्गाश्च यकृल्लोमान एव च ॥ ४४ ॥
मल्लाः सुदेष्णाः प्राहूतास्तथा माहिषकार्षिकाः ।वाहीका वाटधानाश्च आभीराः कालतोयकाः ॥ ४५ ॥
अपरन्ध्राश्च शूद्राश्च पह्लवाश्चर्मखण्डिकाः ।अटवीशबराश्चैव मरुभौमाश्च मारिष ॥ ४६ ॥
उपावृश्चानुपावृश्चसुराष्ट्राः केकयास्तथा ।कुट्टापरान्ता द्वैधेयाः काक्षाः सामुद्रनिष्कुटाः ॥ ४७ ॥
अन्ध्राश्च बहवो राजन्नन्तर्गिर्यास्तथैव च ।बहिर्गिर्याङ्गमलदा मागधा मानवर्जकाः ॥ ४८ ॥
मह्युत्तराः प्रावृषेया भार्गवाश्च जनाधिप ।पुण्ड्रा भार्गाः किराताश्च सुदोष्णाः प्रमुदास्तथा ॥ ४९ ॥
शका निषादा निषधास्तथैवानर्तनैरृताः ।दुगूलाः प्रतिमत्स्याश्च कुशलाः कुनटास्तथा ॥ ५० ॥
तीरग्राहास्तरतोया राजिका रस्यकागणाः ।तिलकाः पारसीकाश्च मधुमन्तः प्रकुत्सकाः ॥ ५१ ॥
काश्मीराः सिन्धुसौवीरा गान्धारा दर्शकास्तथा ।अभीसारा कुलूताश्च शैवला बाह्लिकास्तथा ॥ ५२ ॥
दर्वीकाः सकचा दर्वा वातजामरथोरगाः ।बहुवाद्याश्च कौरव्य सुदामानः सुमल्लिकाः ॥ ५३ ॥
वध्राः करीषकाश्चापि कुलिन्दोपत्यकास्तथा ।वनायवो दशापार्श्वा रोमाणः कुशबिन्दवः ॥ ५४ ॥
कच्छा गोपालकच्छाश्च लाङ्गलाः परवल्लकाः ।किराता बर्बराः सिद्धा विदेहास्ताम्रलिङ्गकाः ॥ ५५ ॥
ओष्ट्राः पुण्ड्राः ससैरन्ध्राः पार्वतीयाश्च मारिष ।अथापरे जनपदा दक्षिणा भरतर्षभ ॥ ५६ ॥
द्रविडाः केरलाः प्राच्या भूषिका वनवासिनः ।उन्नत्यका माहिषका विकल्पा मूषकास्तथा ॥ ५७ ॥
कर्णिकाः कुन्तिकाश्चैव सौद्भिदा नलकालकाः ।कौकुट्टकास्तथा चोलाः कोङ्कणा मालवाणकाः ॥ ५८ ॥
समङ्गाः कोपनाश्चैव कुकुराङ्गदमारिषाः ।ध्वजिन्युत्सवसंकेतास्त्रिगर्ताः सर्वसेनयः ॥ ५९ ॥
त्र्यङ्गाः केकरकाः प्रोष्ठाः परसंचरकास्तथा ।तथैव विन्ध्यपुलकाः पुलिन्दाः कल्कलैः सह ॥ ६० ॥
मालका मल्लकाश्चैव तथैवापरवर्तकाः ।कुलिन्दाः कुलकाश्चैव करण्ठाः कुरकास्तथा ॥ ६१ ॥
मूषका स्तनबालाश्च सतियः पत्तिपञ्जकाः ।आदिदायाः सिरालाश्च स्तूबका स्तनपास्तथा ॥ ६२ ॥
हृषीविदर्भाः कान्तीकास्तङ्गणाः परतङ्गणाः ।उत्तराश्चापरे म्लेच्छा जना भरतसत्तम ॥ ६३ ॥
यवनाश्च सकाम्बोजा दारुणा म्लेच्छजातयः ।सक्षद्द्रुहः कुन्तलाश्च हूणाः पारतकैः सह ॥ ६४ ॥
तथैव मरधाश्चीनास्तथैव दशमालिकाः ।क्षत्रियोपनिवेशाश्च वैश्यशूद्रकुलानि च ॥ ६५ ॥
शूद्राभीराथ दरदाः काश्मीराः पशुभिः सह ।खशिकाश्च तुखाराश्च पल्लवा गिरिगह्वराः ॥ ६६ ॥
आत्रेयाः सभरद्वाजास्तथैव स्तनयोषिकाः ।औपकाश्च कलिङ्गाश्च किरातानां च जातयः ॥ ६७ ॥
तामरा हंसमार्गाश्च तथैव करभञ्जकाः ।उद्देशमात्रेण मया देशाः संकीर्तिताः प्रभो ॥ ६८ ॥
यथागुणबलं चापि त्रिवर्गस्य महाफलम् ।दुह्येद्धेनुः कामधुक्च भूमिः सम्यगनुष्ठिता ॥ ६९ ॥
तस्यां गृध्यन्ति राजानः शूरा धर्मार्थकोविदाः ।ते त्यजन्त्याहवे प्राणान्रसागृद्धास्तरस्विनः ॥ ७० ॥
देवमानुषकायानां कामं भूमिः परायणम् ।अन्योन्यस्यावलुम्पन्ति सारमेया इवामिषम् ॥ ७१ ॥
राजानो भरतश्रेष्ठ भोक्तुकामा वसुंधराम् ।न चापि तृप्तिः कामानां विद्यते चेह कस्यचित् ॥ ७२ ॥
तस्मात्परिग्रहे भूमेर्यतन्ते कुरुपाण्डवाः ।साम्ना दानेन भेदेन दण्डेनैव च पार्थिव ॥ ७३ ॥
पिता माता च पुत्रश्च खं द्यौश्च नरपुंगव ।भूमिर्भवति भूतानां सम्यगच्छिद्रदर्शिनी ॥ ७४ ॥
« »