Click on words to see what they mean.

वैशंपायन उवाच ।तस्मिन्नभिहिते वाक्ये केशवेन महात्मना ।स्तिमिता हृष्टरोमाण आसन्सर्वे सभासदः ॥ १ ॥
कः स्विदुत्तरमेतस्माद्वक्तुमुत्सहते पुमान् ।इति सर्वे मनोभिस्ते चिन्तयन्ति स्म पार्थिवाः ॥ २ ॥
तथा तेषु च सर्वेषु तूष्णींभूतेषु राजसु ।जामदग्न्य इदं वाक्यमब्रवीत्कुरुसंसदि ॥ ३ ॥
इमामेकोपमां राजञ्शृणु सत्यामशङ्कितः ।तां श्रुत्वा श्रेय आदत्स्व यदि साध्विति मन्यसे ॥ ४ ॥
राजा दम्भोद्भवो नाम सार्वभौमः पुराभवत् ।अखिलां बुभुजे सर्वां पृथिवीमिति नः श्रुतम् ॥ ५ ॥
स स्म नित्यं निशापाये प्रातरुत्थाय वीर्यवान् ।ब्राह्मणान्क्षत्रियांश्चैव पृच्छन्नास्ते महारथः ॥ ६ ॥
अस्ति कश्चिद्विशिष्टो वा मद्विधो वा भवेद्युधि ।शूद्रो वैश्यः क्षत्रियो वा ब्राह्मणो वापि शस्त्रभृत् ॥ ७ ॥
इति ब्रुवन्नन्वचरत्स राजा पृथिवीमिमाम् ।दर्पेण महता मत्तः कंचिदन्यमचिन्तयन् ॥ ८ ॥
तं स्म वैद्या अकृपणा ब्राह्मणाः सर्वतोऽभयाः ।प्रत्यषेधन्त राजानं श्लाघमानं पुनः पुनः ॥ ९ ॥
प्रतिषिध्यमानोऽप्यसकृत्पृच्छत्येव स वै द्विजान् ।अभिमानी श्रिया मत्तस्तमूचुर्ब्राह्मणास्तदा ॥ १० ॥
तपस्विनो महात्मानो वेदव्रतसमन्विताः ।उदीर्यमाणं राजानं क्रोधदीप्ता द्विजातयः ॥ ११ ॥
अनेकजननं सख्यं ययोः पुरुषसिंहयोः ।तयोस्त्वं न समो राजन्भवितासि कदाचन ॥ १२ ॥
एवमुक्तः स राजा तु पुनः पप्रच्छ तान्द्विजान् ।क्व तौ वीरौ क्वजन्मानौ किंकर्माणौ च कौ च तौ ॥ १३ ॥
ब्राह्मणा ऊचुः ।नरो नारायणश्चैव तापसाविति नः श्रुतम् ।आयातौ मानुषे लोके ताभ्यां युध्यस्व पार्थिव ॥ १४ ॥
श्रूयते तौ महात्मानौ नरनारायणावुभौ ।तपो घोरमनिर्देश्यं तप्येते गन्धमादने ॥ १५ ॥
राम उवाच ।स राजा महतीं सेनां योजयित्वा षडङ्गिनीम् ।अमृष्यमाणः संप्रायाद्यत्र तावपराजितौ ॥ १६ ॥
स गत्वा विषमं घोरं पर्वतं गन्धमादनम् ।मृगयाणोऽन्वगच्छत्तौ तापसावपराजितौ ॥ १७ ॥
तौ दृष्ट्वा क्षुत्पिपासाभ्यां कृशौ धमनिसंततौ ।शीतवातातपैश्चैव कर्शितौ पुरुषोत्तमौ ।अभिगम्योपसंगृह्य पर्यपृच्छदनामयम् ॥ १८ ॥
तमर्चित्वा मूलफलैरासनेनोदकेन च ।न्यमन्त्रयेतां राजानं किं कार्यं क्रियतामिति ॥ १९ ॥
दम्भोद्भव उवाच ।बाहुभ्यां मे जिता भूमिर्निहताः सर्वशत्रवः ।भवद्भ्यां युद्धमाकाङ्क्षन्नुपयातोऽस्मि पर्वतम् ।आतिथ्यं दीयतामेतत्काङ्क्षितं मे चिरं प्रति ॥ २० ॥
नरनारायणावूचतुः ।अपेतक्रोधलोभोऽयमाश्रमो राजसत्तम ।न ह्यस्मिन्नाश्रमे युद्धं कुतः शस्त्रं कुतोऽनृजुः ।अन्यत्र युद्धमाकाङ्क्ष्व बहवः क्षत्रियाः क्षितौ ॥ २१ ॥
राम उवाच ।उच्यमानस्तथापि स्म भूय एवाभ्यभाषत ।पुनः पुनः क्षम्यमाणः सान्त्व्यमानश्च भारत ।दम्भोद्भवो युद्धमिच्छन्नाह्वयत्येव तापसौ ॥ २२ ॥
ततो नरस्त्विषीकाणां मुष्टिमादाय कौरव ।अब्रवीदेहि युध्यस्व युद्धकामुक क्षत्रिय ॥ २३ ॥
सर्वशस्त्राणि चादत्स्व योजयस्व च वाहिनीम् ।अहं हि ते विनेष्यामि युद्धश्रद्धामितः परम् ॥ २४ ॥
दम्भोद्भव उवाच ।यद्येतदस्त्रमस्मासु युक्तं तापस मन्यसे ।एतेनापि त्वया योत्स्ये युद्धार्थी ह्यहमागतः ॥ २५ ॥
राम उवाच ।इत्युक्त्वा शरवर्षेण सर्वतः समवाकिरत् ।दम्भोद्भवस्तापसं तं जिघांसुः सहसैनिकः ॥ २६ ॥
तस्य तानस्यतो घोरानिषून्परतनुच्छिदः ।कदर्थीकृत्य स मुनिरिषीकाभिरपानुदत् ॥ २७ ॥
ततोऽस्मै प्रासृजद्घोरमैषीकमपराजितः ।अस्त्रमप्रतिसंधेयं तदद्भुतमिवाभवत् ॥ २८ ॥
तेषामक्षीणि कर्णांश्च नस्तकांश्चैव मायया ।निमित्तवेधी स मुनिरिषीकाभिः समर्पयत् ॥ २९ ॥
स दृष्ट्वा श्वेतमाकाशमिषीकाभिः समाचितम् ।पादयोर्न्यपतद्राजा स्वस्ति मेऽस्त्विति चाब्रवीत् ॥ ३० ॥
तमब्रवीन्नरो राजञ्शरण्यः शरणैषिणाम् ।ब्रह्मण्यो भव धर्मात्मा मा च स्मैवं पुनः कृथाः ॥ ३१ ॥
मा च दर्पसमाविष्टः क्षेप्सीः कांश्चित्कदाचन ।अल्पीयांसं विशिष्टं वा तत्ते राजन्परं हितम् ॥ ३२ ॥
कृतप्रज्ञो वीतलोभो निरहंकार आत्मवान् ।दान्तः क्षान्तो मृदुः क्षेमः प्रजाः पालय पार्थिव ॥ ३३ ॥
अनुज्ञातः स्वस्ति गच्छ मैवं भूयः समाचरेः ।कुशलं ब्राह्मणान्पृच्छेरावयोर्वचनाद्भृशम् ॥ ३४ ॥
ततो राजा तयोः पादावभिवाद्य महात्मनोः ।प्रत्याजगाम स्वपुरं धर्मं चैवाचिनोद्भृशम् ॥ ३५ ॥
सुमहच्चापि तत्कर्म यन्नरेण कृतं पुरा ।ततो गुणैः सुबहुभिः श्रेष्ठो नारायणोऽभवत् ॥ ३६ ॥
तस्माद्यावद्धनुःश्रेष्ठे गाण्डीवेऽस्त्रं न युज्यते ।तावत्त्वं मानमुत्सृज्य गच्छ राजन्धनंजयम् ॥ ३७ ॥
काकुदीकं शुकं नाकमक्षिसंतर्जनं तथा ।संतानं नर्तनं घोरमास्यमोदकमष्टमम् ॥ ३८ ॥
एतैर्विद्धाः सर्व एव मरणं यान्ति मानवाः ।उन्मत्ताश्च विचेष्टन्ते नष्टसंज्ञा विचेतसः ॥ ३९ ॥
स्वपन्ते च प्लवन्ते च छर्दयन्ति च मानवाः ।मूत्रयन्ते च सततं रुदन्ति च हसन्ति च ॥ ४० ॥
असंख्येया गुणाः पार्थे तद्विशिष्टो जनार्दनः ।त्वमेव भूयो जानासि कुन्तीपुत्रं धनंजयम् ॥ ४१ ॥
नरनारायणौ यौ तौ तावेवार्जुनकेशवौ ।विजानीहि महाराज प्रवीरौ पुरुषर्षभौ ॥ ४२ ॥
यद्येतदेवं जानासि न च मामतिशङ्कसे ।आर्यां मतिं समास्थाय शाम्य भारत पाण्डवैः ॥ ४३ ॥
अथ चेन्मन्यसे श्रेयो न मे भेदो भवेदिति ।प्रशाम्य भरतश्रेष्ठ मा च युद्धे मनः कृथाः ॥ ४४ ॥
भवतां च कुरुश्रेष्ठ कुलं बहुमतं भुवि ।तत्तथैवास्तु भद्रं ते स्वार्थमेवानुचिन्तय ॥ ४५ ॥
« »