Click on words to see what they mean.

वैशंपायन उवाच ।तथा कथयतोरेव तयोर्बुद्धिमतोस्तदा ।शिवा नक्षत्रसंपन्ना सा व्यतीयाय शर्वरी ॥ १ ॥
धर्मार्थकामयुक्ताश्च विचित्रार्थपदाक्षराः ।शृण्वतो विविधा वाचो विदुरस्य महात्मनः ॥ २ ॥
कथाभिरनुरूपाभिः कृष्णस्यामिततेजसः ।अकामस्येव कृष्णस्य सा व्यतीयाय शर्वरी ॥ ३ ॥
ततस्तु स्वरसंपन्ना बहवः सूतमागधाः ।शङ्खदुन्दुभिनिर्घोषैः केशवं प्रत्यबोधयन् ॥ ४ ॥
तत उत्थाय दाशार्ह ऋषभः सर्वसात्वताम् ।सर्वमावश्यकं चक्रे प्रातःकार्यं जनार्दनः ॥ ५ ॥
कृतोदकार्यजप्यः स हुताग्निः समलंकृतः ।तत आदित्यमुद्यन्तमुपातिष्ठत माधवः ॥ ६ ॥
अथ दुर्योधनः कृष्णं शकुनिश्चापि सौबलः ।संध्यां तिष्ठन्तमभ्येत्य दाशार्हमपराजितम् ॥ ७ ॥
आचक्षेतां तु कृष्णस्य धृतराष्ट्रं सभागतम् ।कुरूंश्च भीष्मप्रमुखान्राज्ञः सर्वांश्च पार्थिवान् ॥ ८ ॥
त्वामर्थयन्ते गोविन्द दिवि शक्रमिवामराः ।तावभ्यनन्दद्गोविन्दः साम्ना परमवल्गुना ॥ ९ ॥
ततो विमल आदित्ये ब्राह्मणेभ्यो जनार्दनः ।ददौ हिरण्यं वासांसि गाश्चाश्वांश्च परंतपः ॥ १० ॥
विसृष्टवन्तं रत्नानि दाशार्हमपराजितम् ।तिष्ठन्तमुपसंगम्य ववन्दे सारथिस्तदा ॥ ११ ॥
तमुपस्थितमाज्ञाय रथं दिव्यं महामनाः ।महाभ्रघननिर्घोषं सर्वरत्नविभूषितम् ॥ १२ ॥
अग्निं प्रदक्षिणं कृत्वा ब्राह्मणांश्च जनार्दनः ।कौस्तुभं मणिमामुच्य श्रिया परमया ज्वलन् ॥ १३ ॥
कुरुभिः संवृतः कृष्णो वृष्णिभिश्चाभिरक्षितः ।आतिष्ठत रथं शौरिः सर्वयादवनन्दनः ॥ १४ ॥
अन्वारुरोह दाशार्हं विदुरः सर्वधर्मवित् ।सर्वप्राणभृतां श्रेष्ठं सर्वधर्मभृतां वरम् ॥ १५ ॥
ततो दुर्योधनः कृष्णं शकुनिश्चापि सौबलः ।द्वितीयेन रथेनैनमन्वयातां परंतपम् ॥ १६ ॥
सात्यकिः कृतवर्मा च वृष्णीनां च महारथाः ।पृष्ठतोऽनुययुः कृष्णं रथैरश्वैर्गजैरपि ॥ १७ ॥
तेषां हेमपरिष्कारा युक्ताः परमवाजिभिः ।गच्छतां घोषिणश्चित्राश्चारु बभ्राजिरे रथाः ॥ १८ ॥
संमृष्टसंसिक्तरजः प्रतिपेदे महापथम् ।राजर्षिचरितं काले कृष्णो धीमाञ्श्रिया ज्वलन् ॥ १९ ॥
ततः प्रयाते दाशार्हे प्रावाद्यन्तैकपुष्कराः ।शङ्खाश्च दध्मिरे तत्र वाद्यान्यन्यानि यानि च ॥ २० ॥
प्रवीराः सर्वलोकस्य युवानः सिंहविक्रमाः ।परिवार्य रथं शौरेरगच्छन्त परंतपाः ॥ २१ ॥
ततोऽन्ये बहुसाहस्रा विचित्राद्भुतवाससः ।असिप्रासायुधधराः कृष्णस्यासन्पुरःसराः ॥ २२ ॥
गजाः परःशतास्तत्र वराश्चाश्वाः सहस्रशः ।प्रयान्तमन्वयुर्वीरं दाशार्हमपराजितम् ॥ २३ ॥
पुरं कुरूणां संवृत्तं द्रष्टुकामं जनार्दनम् ।सवृद्धबालं सस्त्रीकं रथ्यागतमरिंदमम् ॥ २४ ॥
वेदिकापाश्रिताभिश्च समाक्रान्तान्यनेकशः ।प्रचलन्तीव भारेण योषिद्भिर्भवनान्युत ॥ २५ ॥
संपूज्यमानः कुरुभिः संशृण्वन्विविधाः कथाः ।यथार्हं प्रतिसत्कुर्वन्प्रेक्षमाणः शनैर्ययौ ॥ २६ ॥
ततः सभां समासाद्य केशवस्यानुयायिनः ।सशङ्खैर्वेणुनिर्घोषैर्दिशः सर्वा व्यनादयन् ॥ २७ ॥
ततः सा समितिः सर्वा राज्ञाममिततेजसाम् ।संप्राकम्पत हर्षेण कृष्णागमनकाङ्क्षया ॥ २८ ॥
ततोऽभ्याशगते कृष्णे समहृष्यन्नराधिपाः ।श्रुत्वा तं रथनिर्घोषं पर्जन्यनिनदोपमम् ॥ २९ ॥
आसाद्य तु सभाद्वारमृषभः सर्वसात्वताम् ।अवतीर्य रथाच्छौरिः कैलासशिखरोपमात् ॥ ३० ॥
नगमेघप्रतीकाशां ज्वलन्तीमिव तेजसा ।महेन्द्रसदनप्रख्यां प्रविवेश सभां ततः ॥ ३१ ॥
पाणौ गृहीत्वा विदुरं सात्यकिं च महायशाः ।ज्योतींष्यादित्यवद्राजन्कुरून्प्रच्छादयञ्श्रिया ॥ ३२ ॥
अग्रतो वासुदेवस्य कर्णदुर्योधनावुभौ ।वृष्णयः कृतवर्मा च आसन्कृष्णस्य पृष्ठतः ॥ ३३ ॥
धृतराष्ट्रं पुरस्कृत्य भीष्मद्रोणादयस्ततः ।आसनेभ्योऽचलन्सर्वे पूजयन्तो जनार्दनम् ॥ ३४ ॥
अभ्यागच्छति दाशार्हे प्रज्ञाचक्षुर्महामनाः ।सहैव भीष्मद्रोणाभ्यामुदतिष्ठन्महायशाः ॥ ३५ ॥
उत्तिष्ठति महाराजे धृतराष्ट्रे जनेश्वरे ।तानि राजसहस्राणि समुत्तस्थुः समन्ततः ॥ ३६ ॥
आसनं सर्वतोभद्रं जाम्बूनदपरिष्कृतम् ।कृष्णार्थे कल्पितं तत्र धृतराष्ट्रस्य शासनात् ॥ ३७ ॥
स्मयमानस्तु राजानं भीष्मद्रोणौ च माधवः ।अभ्यभाषत धर्मात्मा राज्ञश्चान्यान्यथावयः ॥ ३८ ॥
तत्र केशवमानर्चुः सम्यगभ्यागतं सभाम् ।राजानः पार्थिवाः सर्वे कुरवश्च जनार्दनम् ॥ ३९ ॥
तत्र तिष्ठन्स दाशार्हो राजमध्ये परंतपः ।अपश्यदन्तरिक्षस्थानृषीन्परपुरंजयः ॥ ४० ॥
ततस्तानभिसंप्रेक्ष्य नारदप्रमुखानृषीन् ।अभ्यभाषत दाशार्हो भीष्मं शांतनवं शनैः ॥ ४१ ॥
पार्थिवीं समितिं द्रष्टुमृषयोऽभ्यागता नृप ।निमन्त्र्यन्तामासनैश्च सत्कारेण च भूयसा ॥ ४२ ॥
नैतेष्वनुपविष्टेषु शक्यं केनचिदासितुम् ।पूजा प्रयुज्यतामाशु मुनीनां भावितात्मनाम् ॥ ४३ ॥
ऋषीञ्शांतनवो दृष्ट्वा सभाद्वारमुपस्थितान् ।त्वरमाणस्ततो भृत्यानासनानीत्यचोदयत् ॥ ४४ ॥
आसनान्यथ मृष्टानि महान्ति विपुलानि च ।मणिकाञ्चनचित्राणि समाजह्रुस्ततस्ततः ॥ ४५ ॥
तेषु तत्रोपविष्टेषु गृहीतार्घेषु भारत ।निषसादासने कृष्णो राजानश्च यथासनम् ॥ ४६ ॥
दुःशासनः सात्यकये ददावासनमुत्तमम् ।विविंशतिर्ददौ पीठं काञ्चनं कृतवर्मणे ॥ ४७ ॥
अविदूरेऽथ कृष्णस्य कर्णदुर्योधनावुभौ ।एकासने महात्मानौ निषीदतुरमर्षणौ ॥ ४८ ॥
गान्धारराजः शकुनिर्गान्धारैरभिरक्षितः ।निषसादासने राजा सहपुत्रो विशां पते ॥ ४९ ॥
विदुरो मणिपीठे तु शुक्लस्पर्ध्याजिनोत्तरे ।संस्पृशन्नासनं शौरेर्महामतिरुपाविशत् ॥ ५० ॥
चिरस्य दृष्ट्वा दाशार्हं राजानः सर्वपार्थिवाः ।अमृतस्येव नातृप्यन्प्रेक्षमाणा जनार्दनम् ॥ ५१ ॥
अतसीपुष्पसंकाशः पीतवासा जनार्दनः ।व्यभ्राजत सभामध्ये हेम्नीवोपहितो मणिः ॥ ५२ ॥
ततस्तूष्णीं सर्वमासीद्गोविन्दगतमानसम् ।न तत्र कश्चित्किंचिद्धि व्याजहार पुमान्क्वचित् ॥ ५३ ॥
« »