Click on words to see what they mean.

भगवानुवाच ।यथा ब्रूयान्महाप्राज्ञो यथा ब्रूयाद्विचक्षणः ।यथा वाच्यस्त्वद्विधेन सुहृदा मद्विधः सुहृत् ॥ १ ॥
धर्मार्थयुक्तं तथ्यं च यथा त्वय्युपपद्यते ।तथा वचनमुक्तोऽस्मि त्वयैतत्पितृमातृवत् ॥ २ ॥
सत्यं प्राप्तं च युक्तं चाप्येवमेव यथात्थ माम् ।शृणुष्वागमने हेतुं विदुरावहितो भव ॥ ३ ॥
दौरात्म्यं धार्तराष्ट्रस्य क्षत्रियाणां च वैरिताम् ।सर्वमेतदहं जानन्क्षत्तः प्राप्तोऽद्य कौरवान् ॥ ४ ॥
पर्यस्तां पृथिवीं सर्वां साश्वां सरथकुञ्जराम् ।यो मोचयेन्मृत्युपाशात्प्राप्नुयाद्धर्ममुत्तमम् ॥ ५ ॥
धर्मकार्यं यतञ्शक्त्या न चेच्छक्नोति मानवः ।प्राप्तो भवति तत्पुण्यमत्र मे नास्ति संशयः ॥ ६ ॥
मनसा चिन्तयन्पापं कर्मणा नाभिरोचयन् ।न प्राप्नोति फलं तस्य एवं धर्मविदो विदुः ॥ ७ ॥
सोऽहं यतिष्ये प्रशमं क्षत्तः कर्तुममायया ।कुरूणां सृञ्जयानां च संग्रामे विनशिष्यताम् ॥ ८ ॥
सेयमापन्महाघोरा कुरुष्वेव समुत्थिता ।कर्णदुर्योधनकृता सर्वे ह्येते तदन्वयाः ॥ ९ ॥
व्यसनैः क्लिश्यमानं हि यो मित्रं नाभिपद्यते ।अनुनीय यथाशक्ति तं नृशंसं विदुर्बुधाः ॥ १० ॥
आ केशग्रहणान्मित्रमकार्यात्संनिवर्तयन् ।अवाच्यः कस्यचिद्भवति कृतयत्नो यथाबलम् ॥ ११ ॥
तत्समर्थं शुभं वाक्यं धर्मार्थसहितं हितम् ।धार्तराष्ट्रः सहामात्यो ग्रहीतुं विदुरार्हति ॥ १२ ॥
हितं हि धार्तराष्ट्राणां पाण्डवानां तथैव च ।पृथिव्यां क्षत्रियाणां च यतिष्येऽहममायया ॥ १३ ॥
हिते प्रयतमानं मां शङ्केद्दुर्योधनो यदि ।हृदयस्य च मे प्रीतिरानृण्यं च भविष्यति ॥ १४ ॥
ज्ञातीनां हि मिथो भेदे यन्मित्रं नाभिपद्यते ।सर्वयत्नेन मध्यस्थं न तन्मित्रं विदुर्बुधाः ॥ १५ ॥
न मां ब्रूयुरधर्मज्ञा मूढा असुहृदस्तथा ।शक्तो नावारयत्कृष्णः संरब्धान्कुरुपाण्डवान् ॥ १६ ॥
उभयोः साधयन्नर्थमहमागत इत्युत ।तत्र यत्नमहं कृत्वा गच्छेयं नृष्ववाच्यताम् ॥ १७ ॥
मम धर्मार्थयुक्तं हि श्रुत्वा वाक्यमनामयम् ।न चेदादास्यते बालो दिष्टस्य वशमेष्यति ॥ १८ ॥
अहापयन्पाण्डवार्थं यथावच्छमं कुरूणां यदि चाचरेयम् ।पुण्यं च मे स्याच्चरितं महार्थं मुच्येरंश्च कुरवो मृत्युपाशात् ॥ १९ ॥
अपि वाचं भाषमाणस्य काव्यां धर्मारामामर्थवतीमहिंस्राम् ।अवेक्षेरन्धार्तराष्ट्राः समर्थां मां च प्राप्तं कुरवः पूजयेयुः ॥ २० ॥
न चापि मम पर्याप्ताः सहिताः सर्वपार्थिवाः ।क्रुद्धस्य प्रमुखे स्थातुं सिंहस्येवेतरे मृगाः ॥ २१ ॥
वैशंपायन उवाच ।इत्येवमुक्त्वा वचनं वृष्णीनामृषभस्तदा ।शयने सुखसंस्पर्शे शिश्ये यदुसुखावहः ॥ २२ ॥
« »