Click on words to see what they mean.

वैशंपायन उवाच ।तं भुक्तवन्तमाश्वस्तं निशायां विदुरोऽब्रवीत् ।नेदं सम्यग्व्यवसितं केशवागमनं तव ॥ १ ॥
अर्थधर्मातिगो मूढः संरम्भी च जनार्दन ।मानघ्नो मानकामश्च वृद्धानां शासनातिगः ॥ २ ॥
धर्मशास्त्रातिगो मन्दो दुरात्मा प्रग्रहं गतः ।अनेयः श्रेयसां पापो धार्तराष्ट्रो जनार्दन ॥ ३ ॥
कामात्मा प्राज्ञमानी च मित्रध्रुक्सर्वशङ्कितः ।अकर्ता चाकृतज्ञश्च त्यक्तधर्मः प्रियानृतः ॥ ४ ॥
एतैश्चान्यैश्च बहुभिर्दोषैरेष समन्वितः ।त्वयोच्यमानः श्रेयोऽपि संरम्भान्न ग्रहीष्यति ॥ ५ ॥
सेनासमुदयं दृष्ट्वा पार्थिवं मधुसूदन ।कृतार्थं मन्यते बाल आत्मानमविचक्षणः ॥ ६ ॥
एकः कर्णः पराञ्जेतुं समर्थ इति निश्चितम् ।धार्तराष्ट्रस्य दुर्बुद्धेः स शमं नोपयास्यति ॥ ७ ॥
भीष्मे द्रोणे कृपे कर्णे द्रोणपुत्रे जयद्रथे ।भूयसीं वर्तते वृत्तिं न शमे कुरुते मनः ॥ ८ ॥
निश्चितं धार्तराष्ट्राणां सकर्णानां जनार्दन ।भीष्मद्रोणकृपान्पार्था न शक्ताः प्रतिवीक्षितुम् ॥ ९ ॥
संविच्च धार्तराष्ट्राणां सर्वेषामेव केशव ।शमे प्रयतमानस्य तव सौभ्रात्रकाङ्क्षिणः ॥ १० ॥
न पाण्डवानामस्माभिः प्रतिदेयं यथोचितम् ।इति व्यवसितास्तेषु वचनं स्यान्निरर्थकम् ॥ ११ ॥
यत्र सूक्तं दुरुक्तं च समं स्यान्मधुसूदन ।न तत्र प्रलपेत्प्राज्ञो बधिरेष्विव गायनः ॥ १२ ॥
अविजानत्सु मूढेषु निर्मर्यादेषु माधव ।न त्वं वाक्यं ब्रुवन्युक्तश्चाण्डालेषु द्विजो यथा ॥ १३ ॥
सोऽयं बलस्थो मूढश्च न करिष्यति ते वचः ।तस्मिन्निरर्थकं वाक्यमुक्तं संपत्स्यते तव ॥ १४ ॥
तेषां समुपविष्टानां सर्वेषां पापचेतसाम् ।तव मध्यावतरणं मम कृष्ण न रोचते ॥ १५ ॥
दुर्बुद्धीनामशिष्टानां बहूनां पापचेतसाम् ।प्रतीपं वचनं मध्ये तव कृष्ण न रोचते ॥ १६ ॥
अनुपासितवृद्धत्वाच्छ्रिया मोहाच्च दर्पितः ।वयोदर्पादमर्षाच्च न ते श्रेयो ग्रहीष्यति ॥ १७ ॥
बलं बलवदप्यस्य यदि वक्ष्यसि माधव ।त्वय्यस्य महती शङ्का न करिष्यति ते वचः ॥ १८ ॥
नेदमद्य युधा शक्यमिन्द्रेणापि सहामरैः ।इति व्यवसिताः सर्वे धार्तराष्ट्रा जनार्दन ॥ १९ ॥
तेष्वेवमुपपन्नेषु कामक्रोधानुवर्तिषु ।समर्थमपि ते वाक्यमसमर्थं भविष्यति ॥ २० ॥
मध्ये तिष्ठन्हस्त्यनीकस्य मन्दो रथाश्वयुक्तस्य बलस्य मूढः ।दुर्योधनो मन्यते वीतमन्युः कृत्स्ना मयेयं पृथिवी जितेति ॥ २१ ॥
आशंसते धृतराष्ट्रस्य पुत्रो महाराज्यमसपत्नं पृथिव्याम् ।तस्मिञ्शमः केवलो नोपलभ्यो बद्धं सन्तमागतं मन्यतेऽर्थम् ॥ २२ ॥
पर्यस्तेयं पृथिवी कालपक्वा दुर्योधनार्थे पाण्डवान्योद्धुकामाः ।समागताः सर्वयोधाः पृथिव्यां राजानश्च क्षितिपालैः समेताः ॥ २३ ॥
सर्वे चैते कृतवैराः पुरस्तात्त्वया राजानो हृतसाराश्च कृष्ण ।तवोद्वेगात्संश्रिता धार्तराष्ट्रान्सुसंहताः सह कर्णेन वीराः ॥ २४ ॥
त्यक्तात्मानः सह दुर्योधनेन सृष्टा योद्धुं पाण्डवान्सर्वयोधाः ।तेषां मध्ये प्रविशेथा यदि त्वं न तन्मतं मम दाशार्ह वीर ॥ २५ ॥
तेषां समुपविष्टानां बहूनां दुष्टचेतसाम् ।कथं मध्यं प्रपद्येथाः शत्रूणां शत्रुकर्शन ॥ २६ ॥
सर्वथा त्वं महाबाहो देवैरपि दुरुत्सहः ।प्रभावं पौरुषं बुद्धिं जानामि तव शत्रुहन् ॥ २७ ॥
या मे प्रीतिः पाण्डवेषु भूयः सा त्वयि माधव ।प्रेम्णा च बहुमानाच्च सौहृदाच्च ब्रवीम्यहम् ॥ २८ ॥
« »