Click on words to see what they mean.

युधिष्ठिर उवाच ।कथमिन्द्रेण राजेन्द्र सभार्येण महात्मना ।दुःखं प्राप्तं परं घोरमेतदिच्छामि वेदितुम् ॥ १ ॥
शल्य उवाच ।शृणु राजन्पुरा वृत्तमितिहासं पुरातनम् ।सभार्येण यथा प्राप्तं दुःखमिन्द्रेण भारत ॥ २ ॥
त्वष्टा प्रजापतिर्ह्यासीद्देवश्रेष्ठो महातपाः ।स पुत्रं वै त्रिशिरसमिन्द्रद्रोहात्किलासृजत् ॥ ३ ॥
ऐन्द्रं स प्रार्थयत्स्थानं विश्वरूपो महाद्युतिः ।तैस्त्रिभिर्वदनैर्घोरैः सूर्येन्दुज्वलनोपमैः ॥ ४ ॥
वेदानेकेन सोऽधीते सुरामेकेन चापिबत् ।एकेन च दिशः सर्वाः पिबन्निव निरीक्षते ॥ ५ ॥
स तपस्वी मृदुर्दान्तो धर्मे तपसि चोद्यतः ।तपोऽतप्यन्महत्तीव्रं सुदुश्चरमरिंदम ॥ ६ ॥
तस्य दृष्ट्वा तपोवीर्यं सत्त्वं चामिततेजसः ।विषादमगमच्छक्र इन्द्रोऽयं मा भवेदिति ॥ ७ ॥
कथं सज्जेत भोगेषु न च तप्येन्महत्तपः ।विवर्धमानस्त्रिशिराः सर्वं त्रिभुवनं ग्रसेत् ॥ ८ ॥
इति संचिन्त्य बहुधा बुद्धिमान्भरतर्षभ ।आज्ञापयत्सोऽप्सरसस्त्वष्टृपुत्रप्रलोभने ॥ ९ ॥
यथा स सज्जेत्त्रिशिराः कामभोगेषु वै भृशम् ।क्षिप्रं कुरुत गच्छध्वं प्रलोभयत माचिरम् ॥ १० ॥
शृङ्गारवेषाः सुश्रोण्यो भावैर्युक्ता मनोहरैः ।प्रलोभयत भद्रं वः शमयध्वं भयं मम ॥ ११ ॥
अस्वस्थं ह्यात्मनात्मानं लक्षयामि वराङ्गनाः ।भयमेतन्महाघोरं क्षिप्रं नाशयताबलाः ॥ १२ ॥
अप्सरस ऊचुः ।तथा यत्नं करिष्यामः शक्र तस्य प्रलोभने ।यथा नावाप्स्यसि भयं तस्माद्बलनिषूदन ॥ १३ ॥
निर्दहन्निव चक्षुर्भ्यां योऽसावास्ते तपोनिधिः ।तं प्रलोभयितुं देव गच्छामः सहिता वयम् ।यतिष्यामो वशे कर्तुं व्यपनेतुं च ते भयम् ॥ १४ ॥
शल्य उवाच ।इन्द्रेण तास्त्वनुज्ञाता जग्मुस्त्रिशिरसोऽन्तिकम् ।तत्र ता विविधैर्भावैर्लोभयन्त्यो वराङ्गनाः ।नृत्यं संदर्शयन्त्यश्च तथैवाङ्गेषु सौष्ठवम् ॥ १५ ॥
विचेरुः संप्रहर्षं च नाभ्यगच्छन्महातपाः ।इन्द्रियाणि वशे कृत्वा पूर्णसागरसंनिभः ॥ १६ ॥
तास्तु यत्नं परं कृत्वा पुनः शक्रमुपस्थिताः ।कृताञ्जलिपुटाः सर्वा देवराजमथाब्रुवन् ॥ १७ ॥
न स शक्यः सुदुर्धर्षो धैर्याच्चालयितुं प्रभो ।यत्ते कार्यं महाभाग क्रियतां तदनन्तरम् ॥ १८ ॥
संपूज्याप्सरसः शक्रो विसृज्य च महामतिः ।चिन्तयामास तस्यैव वधोपायं महात्मनः ॥ १९ ॥
स तूष्णीं चिन्तयन्वीरो देवराजः प्रतापवान् ।विनिश्चितमतिर्धीमान्वधे त्रिशिरसोऽभवत् ॥ २० ॥
वज्रमस्य क्षिपाम्यद्य स क्षिप्रं न भविष्यति ।शत्रुः प्रवृद्धो नोपेक्ष्यो दुर्बलोऽपि बलीयसा ॥ २१ ॥
शास्त्रबुद्ध्या विनिश्चित्य कृत्वा बुद्धिं वधे दृढाम् ।अथ वैश्वानरनिभं घोररूपं भयावहम् ।मुमोच वज्रं संक्रुद्धः शक्रस्त्रिशिरसं प्रति ॥ २२ ॥
स पपात हतस्तेन वज्रेण दृढमाहतः ।पर्वतस्येव शिखरं प्रणुन्नं मेदिनीतले ॥ २३ ॥
तं तु वज्रहतं दृष्ट्वा शयानमचलोपमम् ।न शर्म लेभे देवेन्द्रो दीपितस्तस्य तेजसा ।हतोऽपि दीप्ततेजाः स जीवन्निव च दृश्यते ॥ २४ ॥
अभितस्तत्र तक्षाणं घटमानं शचीपतिः ।अपश्यदब्रवीच्चैनं सत्वरं पाकशासनः ।क्षिप्रं छिन्धि शिरांस्यस्य कुरुष्व वचनं मम ॥ २५ ॥
तक्षोवाच ।महास्कन्धो भृशं ह्येष परशुर्न तरिष्यति ।कर्तुं चाहं न शक्ष्यामि कर्म सद्भिर्विगर्हितम् ॥ २६ ॥
इन्द्र उवाच ।मा भैस्त्वं क्षिप्रमेतद्वै कुरुष्व वचनं मम ।मत्प्रसादाद्धि ते शस्त्रं वज्रकल्पं भविष्यति ॥ २७ ॥
तक्षोवाच ।कं भवन्तमहं विद्यां घोरकर्माणमद्य वै ।एतदिच्छाम्यहं श्रोतुं तत्त्वेन कथयस्व मे ॥ २८ ॥
इन्द्र उवाच ।अहमिन्द्रो देवराजस्तक्षन्विदितमस्तु ते ।कुरुष्वैतद्यथोक्तं मे तक्षन्मा त्वं विचारय ॥ २९ ॥
तक्षोवाच ।क्रूरेण नापत्रपसे कथं शक्रेह कर्मणा ।ऋषिपुत्रमिमं हत्वा ब्रह्महत्याभयं न ते ॥ ३० ॥
इन्द्र उवाच ।पश्चाद्धर्मं चरिष्यामि पावनार्थं सुदुश्चरम् ।शत्रुरेष महावीर्यो वज्रेण निहतो मया ॥ ३१ ॥
अद्यापि चाहमुद्विग्नस्तक्षन्नस्माद्बिभेमि वै ।क्षिप्रं छिन्धि शिरांसि त्वं करिष्येऽनुग्रहं तव ॥ ३२ ॥
शिरः पशोस्ते दास्यन्ति भागं यज्ञेषु मानवाः ।एष तेऽनुग्रहस्तक्षन्क्षिप्रं कुरु मम प्रियम् ॥ ३३ ॥
शल्य उवाच ।एतच्छ्रुत्वा तु तक्षा स महेन्द्रवचनं तदा ।शिरांस्यथ त्रिशिरसः कुठारेणाच्छिनत्तदा ॥ ३४ ॥
निकृत्तेषु ततस्तेषु निष्क्रामंस्त्रिशिरास्त्वथ ।कपिञ्जलास्तित्तिराश्च कलविङ्काश्च सर्वशः ॥ ३५ ॥
येन वेदानधीते स्म पिबते सोममेव च ।तस्माद्वक्त्रान्विनिष्पेतुः क्षिप्रं तस्य कपिञ्जलाः ॥ ३६ ॥
येन सर्वा दिशो राजन्पिबन्निव निरीक्षते ।तस्माद्वक्त्राद्विनिष्पेतुस्तित्तिरास्तस्य पाण्डव ॥ ३७ ॥
यत्सुरापं तु तस्यासीद्वक्त्रं त्रिशिरसस्तदा ।कलविङ्का विनिष्पेतुस्तेनास्य भरतर्षभ ॥ ३८ ॥
ततस्तेषु निकृत्तेषु विज्वरो मघवानभूत् ।जगाम त्रिदिवं हृष्टस्तक्षापि स्वगृहान्ययौ ॥ ३९ ॥
त्वष्टा प्रजापतिः श्रुत्वा शक्रेणाथ हतं सुतम् ।क्रोधसंरक्तनयन इदं वचनमब्रवीत् ॥ ४० ॥
तप्यमानं तपो नित्यं क्षान्तं दान्तं जितेन्द्रियम् ।अनापराधिनं यस्मात्पुत्रं हिंसितवान्मम ॥ ४१ ॥
तस्माच्छक्रवधार्थाय वृत्रमुत्पादयाम्यहम् ।लोकाः पश्यन्तु मे वीर्यं तपसश्च बलं महत् ।स च पश्यतु देवेन्द्रो दुरात्मा पापचेतनः ॥ ४२ ॥
उपस्पृश्य ततः क्रुद्धस्तपस्वी सुमहायशाः ।अग्निं हुत्वा समुत्पाद्य घोरं वृत्रमुवाच ह ।इन्द्रशत्रो विवर्धस्व प्रभावात्तपसो मम ॥ ४३ ॥
सोऽवर्धत दिवं स्तब्ध्वा सूर्यवैश्वानरोपमः ।किं करोमीति चोवाच कालसूर्य इवोदितः ।शक्रं जहीति चाप्युक्तो जगाम त्रिदिवं ततः ॥ ४४ ॥
ततो युद्धं समभवद्वृत्रवासवयोस्तदा ।संक्रुद्धयोर्महाघोरं प्रसक्तं कुरुसत्तम ॥ ४५ ॥
ततो जग्राह देवेन्द्रं वृत्रो वीरः शतक्रतुम् ।अपावृत्य स जग्रास वृत्रः क्रोधसमन्वितः ॥ ४६ ॥
ग्रस्ते वृत्रेण शक्रे तु संभ्रान्तास्त्रिदशास्तदा ।असृजंस्ते महासत्त्वा जृम्भिकां वृत्रनाशिनीम् ॥ ४७ ॥
विजृम्भमाणस्य ततो वृत्रस्यास्यादपावृतात् ।स्वान्यङ्गान्यभिसंक्षिप्य निष्क्रान्तो बलसूदनः ।ततः प्रभृति लोकेषु जृम्भिका प्राणिसंश्रिता ॥ ४८ ॥
जहृषुश्च सुराः सर्वे दृष्ट्वा शक्रं विनिःसृतम् ।ततः प्रववृते युद्धं वृत्रवासवयोः पुनः ।संरब्धयोस्तदा घोरं सुचिरं भरतर्षभ ॥ ४९ ॥
यदा व्यवर्धत रणे वृत्रो बलसमन्वितः ।त्वष्टुस्तपोबलाद्विद्वांस्तदा शक्रो न्यवर्तत ॥ ५० ॥
निवृत्ते तु तदा देवा विषादमगमन्परम् ।समेत्य शक्रेण च ते त्वष्टुस्तेजोविमोहिताः ।अमन्त्रयन्त ते सर्वे मुनिभिः सह भारत ॥ ५१ ॥
किं कार्यमिति ते राजन्विचिन्त्य भयमोहिताः ।जग्मुः सर्वे महात्मानं मनोभिर्विष्णुमव्ययम् ।उपविष्टा मन्दराग्रे सर्वे वृत्रवधेप्सवः ॥ ५२ ॥
« »