Click on words to see what they mean.

वैशंपायन उवाच ।शल्यः श्रुत्वा तु दूतानां सैन्येन महता वृतः ।अभ्ययात्पाण्डवान्राजन्सह पुत्रैर्महारथैः ॥ १ ॥
तस्य सेनानिवेशोऽभूदध्यर्धमिव योजनम् ।तथा हि बहुलां सेनां स बिभर्ति नरर्षभः ॥ २ ॥
विचित्रकवचाः शूरा विचित्रध्वजकार्मुकाः ।विचित्राभरणाः सर्वे विचित्ररथवाहनाः ॥ ३ ॥
स्वदेशवेषाभरणा वीराः शतसहस्रशः ।तस्य सेनाप्रणेतारो बभूवुः क्षत्रियर्षभाः ॥ ४ ॥
व्यथयन्निव भूतानि कम्पयन्निव मेदिनीम् ।शनैर्विश्रामयन्सेनां स ययौ येन पाण्डवः ॥ ५ ॥
ततो दुर्योधनः श्रुत्वा महासेनं महारथम् ।उपायान्तमभिद्रुत्य स्वयमानर्च भारत ॥ ६ ॥
कारयामास पूजार्थं तस्य दुर्योधनः सभाः ।रमणीयेषु देशेषु रत्नचित्राः स्वलंकृताः ॥ ७ ॥
स ताः सभाः समासाद्य पूज्यमानो यथामरः ।दुर्योधनस्य सचिवैर्देशे देशे यथार्हतः ।आजगाम सभामन्यां देवावसथवर्चसम् ॥ ८ ॥
स तत्र विषयैर्युक्तः कल्याणैरतिमानुषैः ।मेनेऽभ्यधिकमात्मानमवमेने पुरंदरम् ॥ ९ ॥
पप्रच्छ स ततः प्रेष्यान्प्रहृष्टः क्षत्रियर्षभः ।युधिष्ठिरस्य पुरुषाः के नु चक्रुः सभा इमाः ।आनीयन्तां सभाकाराः प्रदेयार्हा हि मे मताः ॥ १० ॥
गूढो दुर्योधनस्तत्र दर्शयामास मातुलम् ।तं दृष्ट्वा मद्रराजस्तु ज्ञात्वा यत्नं च तस्य तम् ।परिष्वज्याब्रवीत्प्रीत इष्टोऽर्थो गृह्यतामिति ॥ ११ ॥
दुर्योधन उवाच ।सत्यवाग्भव कल्याण वरो वै मम दीयताम् ।सर्वसेनाप्रणेता मे भवान्भवितुमर्हति ॥ १२ ॥
वैशंपायन उवाच ।कृतमित्यब्रवीच्छल्यः किमन्यत्क्रियतामिति ।कृतमित्येव गान्धारिः प्रत्युवाच पुनः पुनः ॥ १३ ॥
स तथा शल्यमामन्त्र्य पुनरायात्स्वकं पुरम् ।शल्यो जगाम कौन्तेयानाख्यातुं कर्म तस्य तत् ॥ १४ ॥
उपप्लव्यं स गत्वा तु स्कन्धावारं प्रविश्य च ।पाण्डवानथ तान्सर्वाञ्शल्यस्तत्र ददर्श ह ॥ १५ ॥
समेत्य तु महाबाहुः शल्यः पाण्डुसुतैस्तदा ।पाद्यमर्घ्यं च गां चैव प्रत्यगृह्णाद्यथाविधि ॥ १६ ॥
ततः कुशलपूर्वं स मद्रराजोऽरिसूदनः ।प्रीत्या परमया युक्तः समाश्लिष्य युधिष्ठिरम् ॥ १७ ॥
तथा भीमार्जुनौ हृष्टौ स्वस्रीयौ च यमावुभौ ।आसने चोपविष्टस्तु शल्यः पार्थमुवाच ह ॥ १८ ॥
कुशलं राजशार्दूल कच्चित्ते कुरुनन्दन ।अरण्यवासाद्दिष्ट्यासि विमुक्तो जयतां वर ॥ १९ ॥
सुदुष्करं कृतं राजन्निर्जने वसता वने ।भ्रातृभिः सह राजेन्द्र कृष्णया चानया सह ॥ २० ॥
अज्ञातवासं घोरं च वसता दुष्करं कृतम् ।दुःखमेव कुतः सौख्यं राज्यभ्रष्टस्य भारत ॥ २१ ॥
दुःखस्यैतस्य महतो धार्तराष्ट्रकृतस्य वै ।अवाप्स्यसि सुखं राजन्हत्वा शत्रून्परंतप ॥ २२ ॥
विदितं ते महाराज लोकतत्त्वं नराधिप ।तस्माल्लोभकृतं किंचित्तव तात न विद्यते ॥ २३ ॥
ततोऽस्याकथयद्राजा दुर्योधनसमागमम् ।तच्च शुश्रूषितं सर्वं वरदानं च भारत ॥ २४ ॥
युधिष्ठिर उवाच ।सुकृतं ते कृतं राजन्प्रहृष्टेनान्तरात्मना ।दुर्योधनस्य यद्वीर त्वया वाचा प्रतिश्रुतम् ।एकं त्विच्छामि भद्रं ते क्रियमाणं महीपते ॥ २५ ॥
भवानिह महाराज वासुदेवसमो युधि ।कर्णार्जुनाभ्यां संप्राप्ते द्वैरथे राजसत्तम ।कर्णस्य भवता कार्यं सारथ्यं नात्र संशयः ॥ २६ ॥
तत्र पाल्योऽर्जुनो राजन्यदि मत्प्रियमिच्छसि ।तेजोवधश्च ते कार्यः सौतेरस्मज्जयावहः ।अकर्तव्यमपि ह्येतत्कर्तुमर्हसि मातुल ॥ २७ ॥
शल्य उवाच ।शृणु पाण्डव भद्रं ते यद्ब्रवीषि दुरात्मनः ।तेजोवधनिमित्तं मां सूतपुत्रस्य संयुगे ॥ २८ ॥
अहं तस्य भविष्यामि संग्रामे सारथिर्ध्रुवम् ।वासुदेवेन हि समं नित्यं मां स हि मन्यते ॥ २९ ॥
तस्याहं कुरुशार्दूल प्रतीपमहितं वचः ।ध्रुवं संकथयिष्यामि योद्धुकामस्य संयुगे ॥ ३० ॥
यथा स हृतदर्पश्च हृततेजाश्च पाण्डव ।भविष्यति सुखं हन्तुं सत्यमेतद्ब्रवीमि ते ॥ ३१ ॥
एवमेतत्करिष्यामि यथा तात त्वमात्थ माम् ।यच्चान्यदपि शक्ष्यामि तत्करिष्यामि ते प्रियम् ॥ ३२ ॥
यच्च दुःखं त्वया प्राप्तं द्यूते वै कृष्णया सह ।परुषाणि च वाक्यानि सूतपुत्रकृतानि वै ॥ ३३ ॥
जटासुरात्परिक्लेशः कीचकाच्च महाद्युते ।द्रौपद्याधिगतं सर्वं दमयन्त्या यथाशुभम् ॥ ३४ ॥
सर्वं दुःखमिदं वीर सुखोदर्कं भविष्यति ।नात्र मन्युस्त्वया कार्यो विधिर्हि बलवत्तरः ॥ ३५ ॥
दुःखानि हि महात्मानः प्राप्नुवन्ति युधिष्ठिर ।देवैरपि हि दुःखानि प्राप्तानि जगतीपते ॥ ३६ ॥
इन्द्रेण श्रूयते राजन्सभार्येण महात्मना ।अनुभूतं महद्दुःखं देवराजेन भारत ॥ ३७ ॥
« »