Click on words to see what they mean.

वैशंपायन उवाच ।गते द्वारवतीं कृष्णे बलदेवे च माधवे ।सह वृष्ण्यन्धकैः सर्वैर्भोजैश्च शतशस्तथा ॥ १ ॥
सर्वमागमयामास पाण्डवानां विचेष्टितम् ।धृतराष्ट्रात्मजो राजा दूतैः प्रणिहितैश्चरैः ॥ २ ॥
स श्रुत्वा माधवं यातं सदश्वैरनिलोपमैः ।बलेन नातिमहता द्वारकामभ्ययात्पुरीम् ॥ ३ ॥
तमेव दिवसं चापि कौन्तेयः पाण्डुनन्दनः ।आनर्तनगरीं रम्यां जगामाशु धनंजयः ॥ ४ ॥
तौ यात्वा पुरुषव्याघ्रौ द्वारकां कुरुनन्दनौ ।सुप्तं ददृशतुः कृष्णं शयानं चोपजग्मतुः ॥ ५ ॥
ततः शयाने गोविन्दे प्रविवेश सुयोधनः ।उच्छीर्षतश्च कृष्णस्य निषसाद वरासने ॥ ६ ॥
ततः किरीटी तस्यानु प्रविवेश महामनाः ।पश्चार्धे च स कृष्णस्य प्रह्वोऽतिष्ठत्कृताञ्जलिः ॥ ७ ॥
प्रतिबुद्धः स वार्ष्णेयो ददर्शाग्रे किरीटिनम् ।स तयोः स्वागतं कृत्वा यथार्हं प्रतिपूज्य च ।तदागमनजं हेतुं पप्रच्छ मधुसूदनः ॥ ८ ॥
ततो दुर्योधनः कृष्णमुवाच प्रहसन्निव ।विग्रहेऽस्मिन्भवान्साह्यं मम दातुमिहार्हति ॥ ९ ॥
समं हि भवतः सख्यं मयि चैवार्जुनेऽपि च ।तथा संबन्धकं तुल्यमस्माकं त्वयि माधव ॥ १० ॥
अहं चाभिगतः पूर्वं त्वामद्य मधुसूदन ।पूर्वं चाभिगतं सन्तो भजन्ते पूर्वसारिणः ॥ ११ ॥
त्वं च श्रेष्ठतमो लोके सतामद्य जनार्दन ।सततं संमतश्चैव सद्वृत्तमनुपालय ॥ १२ ॥
कृष्ण उवाच ।भवानभिगतः पूर्वमत्र मे नास्ति संशयः ।दृष्टस्तु प्रथमं राजन्मया पार्थो धनंजयः ॥ १३ ॥
तव पूर्वाभिगमनात्पूर्वं चाप्यस्य दर्शनात् ।साहाय्यमुभयोरेव करिष्यामि सुयोधन ॥ १४ ॥
प्रवारणं तु बालानां पूर्वं कार्यमिति श्रुतिः ।तस्मात्प्रवारणं पूर्वमर्हः पार्थो धनंजयः ॥ १५ ॥
मत्संहननतुल्यानां गोपानामर्बुदं महत् ।नारायणा इति ख्याताः सर्वे संग्रामयोधिनः ॥ १६ ॥
ते वा युधि दुराधर्षा भवन्त्वेकस्य सैनिकाः ।अयुध्यमानः संग्रामे न्यस्तशस्त्रोऽहमेकतः ॥ १७ ॥
आभ्यामन्यतरं पार्थ यत्ते हृद्यतरं मतम् ।तद्वृणीतां भवानग्रे प्रवार्यस्त्वं हि धर्मतः ॥ १८ ॥
वैशंपायन उवाच ।एवमुक्तस्तु कृष्णेन कुन्तीपुत्रो धनंजयः ।अयुध्यमानं संग्रामे वरयामास केशवम् ॥ १९ ॥
सहस्राणां सहस्रं तु योधानां प्राप्य भारत ।कृष्णं चापहृतं ज्ञात्वा संप्राप परमां मुदम् ॥ २० ॥
दुर्योधनस्तु तत्सैन्यं सर्वमादाय पार्थिवः ।ततोऽभ्ययाद्भीमबलो रौहिणेयं महाबलम् ॥ २१ ॥
सर्वं चागमने हेतुं स तस्मै संन्यवेदयत् ।प्रत्युवाच ततः शौरिर्धार्तराष्ट्रमिदं वचः ॥ २२ ॥
विदितं ते नरव्याघ्र सर्वं भवितुमर्हति ।यन्मयोक्तं विराटस्य पुरा वैवाहिके तदा ॥ २३ ॥
निगृह्योक्तो हृषीकेशस्त्वदर्थं कुरुनन्दन ।मया संबन्धकं तुल्यमिति राजन्पुनः पुनः ॥ २४ ॥
न च तद्वाक्यमुक्तं वै केशवः प्रत्यपद्यत ।न चाहमुत्सहे कृष्णं विना स्थातुमपि क्षणम् ॥ २५ ॥
नाहं सहायः पार्थानां नापि दुर्योधनस्य वै ।इति मे निश्चिता बुद्दिर्वासुदेवमवेक्ष्य ह ॥ २६ ॥
जातोऽसि भारते वंशे सर्वपार्थिवपूजिते ।गच्छ युध्यस्व धर्मेण क्षात्रेण भरतर्षभ ॥ २७ ॥
इत्येवमुक्तः स तदा परिष्वज्य हलायुधम् ।कृष्णं चापहृतं ज्ञात्वा युद्धान्मेने जितं जयम् ॥ २८ ॥
सोऽभ्ययात्कृतवर्माणं धृतराष्ट्रसुतो नृपः ।कृतवर्मा ददौ तस्य सेनामक्षौहिणीं तदा ॥ २९ ॥
स तेन सर्वसैन्येन भीमेन कुरुनन्दनः ।वृतः प्रतिययौ हृष्टः सुहृदः संप्रहर्षयन् ॥ ३० ॥
गते दुर्योधने कृष्णः किरीटिनमथाब्रवीत् ।अयुध्यमानः कां बुद्धिमास्थायाहं त्वया वृतः ॥ ३१ ॥
अर्जुन उवाच ।भवान्समर्थस्तान्सर्वान्निहन्तुं नात्र संशयः ।निहन्तुमहमप्येकः समर्थः पुरुषोत्तम ॥ ३२ ॥
भवांस्तु कीर्तिमाँल्लोके तद्यशस्त्वां गमिष्यति ।यशसा चाहमप्यर्थी तस्मादसि मया वृतः ॥ ३३ ॥
सारथ्यं तु त्वया कार्यमिति मे मानसं सदा ।चिररात्रेप्सितं कामं तद्भवान्कर्तुमर्हति ॥ ३४ ॥
वासुदेव उवाच ।उपपन्नमिदं पार्थ यत्स्पर्धेथा मया सह ।सारथ्यं ते करिष्यामि कामः संपद्यतां तव ॥ ३५ ॥
वैशंपायन उवाच ।एवं प्रमुदितः पार्थः कृष्णेन सहितस्तदा ।वृतो दाशार्हप्रवरैः पुनरायाद्युधिष्ठिरम् ॥ ३६ ॥
« »