Click on words to see what they mean.

वैशंपायन उवाच ।दुर्योधने धार्तराष्ट्रे तद्वचोऽप्रतिनन्दति ।तूष्णींभूतेषु सर्वेषु समुत्तस्थुर्नरेश्वराः ॥ १ ॥
उत्थितेषु महाराज पृथिव्यां सर्वराजसु ।रहिते संजयं राजा परिप्रष्टुं प्रचक्रमे ॥ २ ॥
आशंसमानो विजयं तेषां पुत्रवशानुगः ।आत्मनश्च परेषां च पाण्डवानां च निश्चयम् ॥ ३ ॥
धृतराष्ट्र उवाच ।गावल्गणे ब्रूहि नः सारफल्गु स्वसेनायां यावदिहास्ति किंचित् ।त्वं पाण्डवानां निपुणं वेत्थ सर्वं किमेषां ज्यायः किमु तेषां कनीयः ॥ ४ ॥
त्वमेतयोः सारवित्सर्वदर्शी धर्मार्थयोर्निपुणो निश्चयज्ञः ।स मे पृष्टः संजय ब्रूहि सर्वं युध्यमानाः कतरेऽस्मिन्न सन्ति ॥ ५ ॥
संजय उवाच ।न त्वां ब्रूयां रहिते जातु किंचिदसूया हि त्वां प्रसहेत राजन् ।आनयस्व पितरं संशितव्रतं गांधारीं च महिषीमाजमीढ ॥ ६ ॥
तौ तेऽसूयां विनयेतां नरेन्द्र धर्मज्ञौ तौ निपुणौ निश्चयज्ञौ ।तयोस्तु त्वां संनिधौ तद्वदेयं कृत्स्नं मतं वासुदेवार्जुनाभ्याम् ॥ ७ ॥
वैशंपायन उवाच ।ततस्तन्मतमाज्ञाय संजयस्यात्मजस्य च ।अभ्युपेत्य महाप्राज्ञः कृष्णद्वैपायनोऽब्रवीत् ॥ ८ ॥
संपृच्छते धृतराष्ट्राय संजय आचक्ष्व सर्वं यावदेषोऽनुयुङ्क्ते ।सर्वं यावद्वेत्थ तस्मिन्यथावद्याथातथ्यं वासुदेवेऽर्जुने च ॥ ९ ॥
« »