Click on words to see what they mean.

दुर्योधन उवाच ।सदृशानां मनुष्येषु सर्वेषां तुल्यजन्मनाम् ।कथमेकान्ततस्तेषां पार्थानां मन्यसे जयम् ॥ १ ॥
सर्वे स्म समजातीयाः सर्वे मानुषयोनयः ।पितामह विजानीषे पार्थेषु विजयं कथम् ॥ २ ॥
नाहं भवति न द्रोणे न कृपे न च बाह्लिके ।अन्येषु च नरेन्द्रेषु पराक्रम्य समारभे ॥ ३ ॥
अहं वैकर्तनः कर्णो भ्राता दुःशासनश्च मे ।पाण्डवान्समरे पञ्च हनिष्यामः शितैः शरैः ॥ ४ ॥
ततो राजन्महायज्ञैर्विविधैर्भूरिदक्षिणैः ।ब्राह्मणांस्तर्पयिष्यामि गोभिरश्वैर्धनेन च ॥ ५ ॥
विदुर उवाच ।शकुनीनामिहार्थाय पाशं भूमावयोजयत् ।कश्चिच्छाकुनिकस्तात पूर्वेषामिति शुश्रुम ॥ ६ ॥
तस्मिन्द्वौ शकुनौ बद्धौ युगपत्समपौरुषौ ।तावुपादाय तं पाशं जग्मतुः खचरावुभौ ॥ ७ ॥
तौ विहायसमाक्रान्तौ दृष्ट्वा शाकुनिकस्तदा ।अन्वधावदनिर्विण्णो येन येन स्म गच्छतः ॥ ८ ॥
तथा तमनुधावन्तं मृगयुं शकुनार्थिनम् ।आश्रमस्थो मुनिः कश्चिद्ददर्शाथ कृताह्निकः ॥ ९ ॥
तावन्तरिक्षगौ शीघ्रमनुयान्तं महीचरम् ।श्लोकेनानेन कौरव्य पप्रच्छ स मुनिस्तदा ॥ १० ॥
विचित्रमिदमाश्चर्यं मृगहन्प्रतिभाति मे ।प्लवमानौ हि खचरौ पदातिरनुधावसि ॥ ११ ॥
शाकुनिक उवाच ।पाशमेकमुभावेतौ सहितौ हरतो मम ।यत्र वै विवदिष्येते तत्र मे वशमेष्यतः ॥ १२ ॥
विदुर उवाच ।तौ विवादमनुप्राप्तौ शकुनौ मृत्युसंधितौ ।विगृह्य च सुदुर्बुद्धी पृथिव्यां संनिपेततुः ॥ १३ ॥
तौ युध्यमानौ संरब्धौ मृत्युपाशवशानुगौ ।उपसृत्यापरिज्ञातो जग्राह मृगयुस्तदा ॥ १४ ॥
एवं ये ज्ञातयोऽर्थेषु मिथो गच्छन्ति विग्रहम् ।तेऽमित्रवशमायान्ति शकुनाविव विग्रहात् ॥ १५ ॥
संभोजनं संकथनं संप्रश्नोऽथ समागमः ।एतानि ज्ञातिकार्याणि न विरोधः कदाचन ॥ १६ ॥
यस्मिन्काले सुमनसः सर्वे वृद्धानुपासते ।सिंहगुप्तमिवारण्यमप्रधृष्या भवन्ति ते ॥ १७ ॥
येऽर्थं संततमासाद्य दीना इव समासते ।श्रियं ते संप्रयच्छन्ति द्विषद्भ्यो भरतर्षभ ॥ १८ ॥
धूमायन्ते व्यपेतानि ज्वलन्ति सहितानि च ।धृतराष्ट्रोल्मुकानीव ज्ञातयो भरतर्षभ ॥ १९ ॥
इदमन्यत्प्रवक्ष्यामि यथा दृष्टं गिरौ मया ।श्रुत्वा तदपि कौरव्य यथा श्रेयस्तथा कुरु ॥ २० ॥
वयं किरातैः सहिता गच्छामो गिरिमुत्तरम् ।ब्राह्मणैर्देवकल्पैश्च विद्याजम्भकवातिकैः ॥ २१ ॥
कुञ्जभूतं गिरिं सर्वमभितो गन्धमादनम् ।दीप्यमानौषधिगणं सिद्धगन्धर्वसेवितम् ॥ २२ ॥
तत्र पश्यामहे सर्वे मधु पीतममाक्षिकम् ।मरुप्रपाते विषमे निविष्टं कुम्भसंमितम् ॥ २३ ॥
आशीविषै रक्ष्यमाणं कुबेरदयितं भृशम् ।यत्प्राश्य पुरुषो मर्त्यो अमरत्वं निगच्छति ॥ २४ ॥
अचक्षुर्लभते चक्षुर्वृद्धो भवति वै युवा ।इति ते कथयन्ति स्म ब्राह्मणा जम्भसाधकाः ॥ २५ ॥
ततः किरातास्तद्दृष्ट्वा प्रार्थयन्तो महीपते ।विनेशुर्विषमे तस्मिन्ससर्पे गिरिगह्वरे ॥ २६ ॥
तथैव तव पुत्रोऽयं पृथिवीमेक इच्छति ।मधु पश्यति संमोहात्प्रपातं नानुपश्यति ॥ २७ ॥
दुर्योधनो योद्धुमनाः समरे सव्यसाचिना ।न च पश्यामि तेजोऽस्य विक्रमं वा तथाविधम् ॥ २८ ॥
एकेन रथमास्थाय पृथिवी येन निर्जिता ।प्रतीक्षमाणो यो वीरः क्षमते वीक्षितं तव ॥ २९ ॥
द्रुपदो मत्स्यराजश्च संक्रुद्धश्च धनंजयः ।न शेषयेयुः समरे वायुयुक्ता इवाग्नयः ॥ ३० ॥
अङ्के कुरुष्व राजानं धृतराष्ट्र युधिष्ठिरम् ।युध्यतोर्हि द्वयोर्युद्धे नैकान्तेन भवेज्जयः ॥ ३१ ॥
« »