Click on words to see what they mean.

वैशंपायन उवाच ।तथा तु पृच्छन्तमतीव पार्थान्वैचित्रवीर्यं तमचिन्तयित्वा ।उवाच कर्णो धृतराष्ट्रपुत्रं प्रहर्षयन्संसदि कौरवाणाम् ॥ १ ॥
मिथ्या प्रतिज्ञाय मया यदस्त्रं रामाद्धृतं ब्रह्मपुरं पुरस्तात् ।विज्ञाय तेनास्मि तदैवमुक्तस्तवान्तकालेऽप्रतिभास्यतीति ॥ २ ॥
महापराधे ह्यपि संनतेन महर्षिणाहं गुरुणा च शप्तः ।शक्तः प्रदग्धुं ह्यपि तिग्मतेजाः ससागरामप्यवनिं महर्षिः ॥ ३ ॥
प्रसादितं ह्यस्य मया मनोऽभूच्छुश्रूषया स्वेन च पौरुषेण ।ततस्तदस्त्रं मम सावशेषं तस्मात्समर्थोऽस्मि ममैष भारः ॥ ४ ॥
निमेषमात्रं तमृषिप्रसादमवाप्य पाञ्चालकरूषमत्स्यान् ।निहत्य पार्थांश्च सपुत्रपौत्राँल्लोकानहं शस्त्रजितान्प्रपत्स्ये ॥ ५ ॥
पितामहस्तिष्ठतु ते समीपे द्रोणश्च सर्वे च नरेन्द्रमुख्याः ।यथाप्रधानेन बलेन यात्वा पार्थान्हनिष्यामि ममैष भारः ॥ ६ ॥
एवं ब्रुवाणं तमुवाच भीष्मः किं कत्थसे कालपरीतबुद्धे ।न कर्ण जानासि यथा प्रधाने हते हताः स्युर्धृतराष्ट्रपुत्राः ॥ ७ ॥
यत्खाण्डवं दाहयता कृतं हि कृष्णद्वितीयेन धनंजयेन ।श्रुत्वैव तत्कर्म नियन्तुमात्मा शक्यस्त्वया वै सह बान्धवेन ॥ ८ ॥
यां चापि शक्तिं त्रिदशाधिपस्ते ददौ महात्मा भगवान्महेन्द्रः ।भस्मीकृतां तां पतितां विशीर्णां चक्राहतां द्रक्ष्यसि केशवेन ॥ ९ ॥
यस्ते शरः सर्पमुखो विभाति सदाग्र्यमाल्यैर्महितः प्रयत्नात् ।स पाण्डुपुत्राभिहतः शरौघैः सह त्वया यास्यति कर्ण नाशम् ॥ १० ॥
बाणस्य भौमस्य च कर्ण हन्ता किरीटिनं रक्षति वासुदेवः ।यस्त्वादृशानां च गरीयसां च हन्ता रिपूणां तुमुले प्रगाढे ॥ ११ ॥
कर्ण उवाच ।असंशयं वृष्णिपतिर्यथोक्तस्तथा च भूयश्च ततो महात्मा ।अहं यदुक्तः परुषं तु किंचित्पितामहस्तस्य फलं शृणोतु ॥ १२ ॥
न्यस्यामि शस्त्राणि न जातु संख्ये पितामहो द्रक्ष्यति मां सभायाम् ।त्वयि प्रशान्ते तु मम प्रभावं द्रक्ष्यन्ति सर्वे भुवि भूमिपालाः ॥ १३ ॥
वैशंपायन उवाच ।इत्येवमुक्त्वा स महाधनुष्मान्हित्वा सभां स्वं भवनं जगाम ।भीष्मस्तु दुर्योधनमेव राजन्मध्ये कुरूणां प्रहसन्नुवाच ॥ १४ ॥
सत्यप्रतिज्ञः किल सूतपुत्रस्तथा स भारं विषहेत कस्मात् ।व्यूहं प्रतिव्यूह्य शिरांसि भित्त्वा लोकक्षयं पश्यत भीमसेनात् ॥ १५ ॥
आवन्त्यकालिङ्गजयद्रथेषु वेदिध्वजे तिष्ठति बाह्लिके च ।अहं हनिष्यामि सदा परेषां सहस्रशश्चायुतशश्च योधान् ॥ १६ ॥
यदैव रामे भगवत्यनिन्द्ये ब्रह्म ब्रुवाणः कृतवांस्तदस्त्रम् ।तदैव धर्मश्च तपश्च नष्टं वैकर्तनस्याधमपूरुषस्य ॥ १७ ॥
अथोक्तवाक्ये नृपतौ तु भीष्मे निक्षिप्य शस्त्राणि गते च कर्णे ।वैचित्रवीर्यस्य सुतोऽल्पबुद्धिर्दुर्योधनः शांतनवं बभाषे ॥ १८ ॥
« »