Click on words to see what they mean.

धृतराष्ट्र उवाच ।यदब्रूतां महात्मानौ वासुदेवधनंजयौ ।तन्मे ब्रूहि महाप्राज्ञ शुश्रूषे वचनं तव ॥ १ ॥
संजय उवाच ।शृणु राजन्यथा दृष्टौ मया कृष्णधनंजयौ ।ऊचतुश्चापि यद्वीरौ तत्ते वक्ष्यामि भारत ॥ २ ॥
पादाङ्गुलीरभिप्रेक्षन्प्रयतोऽहं कृताञ्जलिः ।शुद्धान्तं प्राविशं राजन्नाख्यातुं नरदेवयोः ॥ ३ ॥
नैवाभिमन्युर्न यमौ तं देशमभियान्ति वै ।यत्र कृष्णौ च कृष्णा च सत्यभामा च भामिनी ॥ ४ ॥
उभौ मध्वासवक्षीबावुभौ चन्दनरूषितौ ।स्रग्विणौ वरवस्त्रौ तौ दिव्याभरणभूषितौ ॥ ५ ॥
नैकरत्नविचित्रं तु काञ्चनं महदासनम् ।विविधास्तरणास्तीर्णं यत्रासातामरिंदमौ ॥ ६ ॥
अर्जुनोत्सङ्गगौ पादौ केशवस्योपलक्षये ।अर्जुनस्य च कृष्णायां सत्यायां च महात्मनः ॥ ७ ॥
काञ्चनं पादपीठं तु पार्थो मे प्रादिशत्तदा ।तदहं पाणिना स्पृष्ट्वा ततो भूमावुपाविशम् ॥ ८ ॥
ऊर्ध्वरेखतलौ पादौ पार्थस्य शुभलक्षणौ ।पादपीठादपहृतौ तत्रापश्यमहं शुभौ ॥ ९ ॥
श्यामौ बृहन्तौ तरुणौ शालस्कन्धाविवोद्गतौ ।एकासनगतौ दृष्ट्वा भयं मां महदाविशत् ॥ १० ॥
इन्द्रविष्णुसमावेतौ मन्दात्मा नावबुध्यते ।संश्रयाद्द्रोणभीष्माभ्यां कर्णस्य च विकत्थनात् ॥ ११ ॥
निदेशस्थाविमौ यस्य मानसस्तस्य सेत्स्यते ।संकल्पो धर्मराजस्य निश्चयो मे तदाभवत् ॥ १२ ॥
सत्कृतश्चान्नपानाभ्यामाच्छन्नो लब्धसत्क्रियः ।अञ्जलिं मूर्ध्नि संधाय तौ संदेशमचोदयम् ॥ १३ ॥
धनुर्बाणोचितेनैकपाणिना शुभलक्षणम् ।पादमानमयन्पार्थः केशवं समचोदयत् ॥ १४ ॥
इन्द्रकेतुरिवोत्थाय सर्वाभरणभूषितः ।इन्द्रवीर्योपमः कृष्णः संविष्टो माभ्यभाषत ॥ १५ ॥
वाचं स वदतां श्रेष्ठो ह्लादिनीं वचनक्षमाम् ।त्रासनीं धार्तराष्ट्राणां मृदुपूर्वां सुदारुणाम् ॥ १६ ॥
वाचं तां वचनार्हस्य शिक्षाक्षरसमन्विताम् ।अश्रौषमहमिष्टार्थां पश्चाद्धृदयशोषिणीम् ॥ १७ ॥
वासुदेव उवाच ।संजयेदं वचो ब्रूया धृतराष्ट्रं मनीषिणम् ।शृण्वतः कुरुमुख्यस्य द्रोणस्यापि च शृण्वतः ॥ १८ ॥
यजध्वं विपुलैर्यज्ञैर्विप्रेभ्यो दत्त दक्षिणाः ।पुत्रैर्दारैश्च मोदध्वं महद्वो भयमागतम् ॥ १९ ॥
अर्थांस्त्यजत पात्रेभ्यः सुतान्प्राप्नुत कामजान् ।प्रियं प्रियेभ्यश्चरत राजा हि त्वरते जये ॥ २० ॥
ऋणमेतत्प्रवृद्धं मे हृदयान्नापसर्पति ।यद्गोविन्देति चुक्रोश कृष्णा मां दूरवासिनम् ॥ २१ ॥
तेजोमयं दुराधर्षं गाण्डीवं यस्य कार्मुकम् ।मद्द्वितीयेन तेनेह वैरं वः सव्यसाचिना ॥ २२ ॥
मद्द्वितीयं पुनः पार्थं कः प्रार्थयितुमिच्छति ।यो न कालपरीतो वाप्यपि साक्षात्पुरंदरः ॥ २३ ॥
बाहुभ्यामुद्वहेद्भूमिं दहेत्क्रुद्ध इमाः प्रजाः ।पातयेत्त्रिदिवाद्देवान्योऽर्जुनं समरे जयेत् ॥ २४ ॥
देवासुरमनुष्येषु यक्षगन्धर्वभोगिषु ।न तं पश्याम्यहं युद्धे पाण्डवं योऽभ्ययाद्रणे ॥ २५ ॥
यत्तद्विराटनगरे श्रूयते महदद्भुतम् ।एकस्य च बहूनां च पर्याप्तं तन्निदर्शनम् ॥ २६ ॥
एकेन पाण्डुपुत्रेण विराटनगरे यदा ।भग्नाः पलायन्त दिशः पर्याप्तं तन्निदर्शनम् ॥ २७ ॥
बलं वीर्यं च तेजश्च शीघ्रता लघुहस्तता ।अविषादश्च धैर्यं च पार्थान्नान्यत्र विद्यते ॥ २८ ॥
संजय उवाच ।इत्यब्रवीद्धृषीकेशः पार्थमुद्धर्षयन्गिरा ।गर्जन्समयवर्षीव गगने पाकशासनः ॥ २९ ॥
केशवस्य वचः श्रुत्वा किरीटी श्वेतवाहनः ।अर्जुनस्तन्महद्वाक्यमब्रवील्लोमहर्षणम् ॥ ३० ॥
« »