Click on words to see what they mean.

धृतराष्ट्र उवाच ।क्षत्रतेजा ब्रह्मचारी कौमारादपि पाण्डवः ।तेन संयुगमेष्यन्ति मन्दा विलपतो मम ॥ १ ॥
दुर्योधन निवर्तस्व युद्धाद्भरतसत्तम ।न हि युद्धं प्रशंसन्ति सर्वावस्थमरिंदम ॥ २ ॥
अलमर्धं पृथिव्यास्ते सहामात्यस्य जीवितुम् ।प्रयच्छ पाण्डुपुत्राणां यथोचितमरिंदम ॥ ३ ॥
एतद्धि कुरवः सर्वे मन्यन्ते धर्मसंहितम् ।यत्त्वं प्रशान्तिमिच्छेथाः पाण्डुपुत्रैर्महात्मभिः ॥ ४ ॥
अङ्गेमां समवेक्षस्व पुत्र स्वामेव वाहिनीम् ।जात एव तव स्रावस्त्वं तु मोहान्न बुध्यसे ॥ ५ ॥
न ह्यहं युद्धमिच्छामि नैतदिच्छति बाह्लिकः ।न च भीष्मो न च द्रोणो नाश्वत्थामा न संजयः ॥ ६ ॥
न सोमदत्तो न शल्यो न कृपो युद्धमिच्छति ।सत्यव्रतः पुरुमित्रो जयो भूरिश्रवास्तथा ॥ ७ ॥
येषु संप्रतितिष्ठेयुः कुरवः पीडिताः परैः ।ते युद्धं नाभिनन्दन्ति तत्तुभ्यं तात रोचताम् ॥ ८ ॥
न त्वं करोषि कामेन कर्णः कारयिता तव ।दुःशासनश्च पापात्मा शकुनिश्चापि सौबलः ॥ ९ ॥
दुर्योधन उवाच ।नाहं भवति न द्रोणे नाश्वत्थाम्नि न संजये ।न विकर्णे न काम्बोजे न कृपे न च बाह्लिके ॥ १० ॥
सत्यव्रते पुरुमित्रे भूरिश्रवसि वा पुनः ।अन्येषु वा तावकेषु भारं कृत्वा समाह्वये ॥ ११ ॥
अहं च तात कर्णश्च रणयज्ञं वितत्य वै ।युधिष्ठिरं पशुं कृत्वा दीक्षितौ भरतर्षभ ॥ १२ ॥
रथो वेदी स्रुवः खड्गो गदा स्रुक्कवचं सदः ।चातुर्होत्रं च धुर्या मे शरा दर्भा हविर्यशः ॥ १३ ॥
आत्मयज्ञेन नृपते इष्ट्वा वैवस्वतं रणे ।विजित्य स्वयमेष्यावो हतामित्रौ श्रिया वृतौ ॥ १४ ॥
अहं च तात कर्णश्च भ्राता दुःशासनश्च मे ।एते वयं हनिष्यामः पाण्डवान्समरे त्रयः ॥ १५ ॥
अहं हि पाण्डवान्हत्वा प्रशास्ता पृथिवीमिमाम् ।मां वा हत्वा पाण्डुपुत्रा भोक्तारः पृथिवीमिमाम् ॥ १६ ॥
त्यक्तं मे जीवितं राजन्धनं राज्यं च पार्थिव ।न जातु पाण्डवैः सार्धं वसेयमहमच्युत ॥ १७ ॥
यावद्धि सूच्यास्तीक्ष्णाया विध्येदग्रेण मारिष ।तावदप्यपरित्याज्यं भूमेर्नः पाण्डवान्प्रति ॥ १८ ॥
धृतराष्ट्र उवाच ।सर्वान्वस्तात शोचामि त्यक्तो दुर्योधनो मया ।ये मन्दमनुयास्यध्वं यान्तं वैवस्वतक्षयम् ॥ १९ ॥
रुरूणामिव यूथेषु व्याघ्राः प्रहरतां वराः ।वरान्वरान्हनिष्यन्ति समेता युधि पाण्डवाः ॥ २० ॥
प्रतीपमिव मे भाति युयुधानेन भारती ।व्यस्ता सीमन्तिनी त्रस्ता प्रमृष्टा दीर्घबाहुना ॥ २१ ॥
संपूर्णं पूरयन्भूयो बलं पार्थस्य माधवः ।शैनेयः समरे स्थाता बीजवत्प्रवपञ्शरान् ॥ २२ ॥
सेनामुखे प्रयुद्धानां भीमसेनो भविष्यति ।तं सर्वे संश्रयिष्यन्ति प्राकारमकुतोभयम् ॥ २३ ॥
यदा द्रक्ष्यसि भीमेन कुञ्जरान्विनिपातितान् ।विशीर्णदन्तान्गिर्याभान्भिन्नकुम्भान्सशोणितान् ॥ २४ ॥
तानभिप्रेक्ष्य संग्रामे विशीर्णानिव पर्वतान् ।भीतो भीमस्य संस्पर्शात्स्मर्तासि वचनस्य मे ॥ २५ ॥
निर्दग्धं भीमसेनेन सैन्यं हतरथद्विपम् ।गतिमग्नेरिव प्रेक्ष्य स्मर्तासि वचनस्य मे ॥ २६ ॥
महद्वो भयमागामि न चेच्छाम्यथ पाण्डवैः ।गदया भीमसेनेन हताः शममुपैष्यथ ॥ २७ ॥
महावनमिव छिन्नं यदा द्रक्ष्यसि पातितम् ।बलं कुरूणां संग्रामे तदा स्मर्तासि मे वचः ॥ २८ ॥
वैशंपायन उवाच ।एतावदुक्त्वा राजा तु स सर्वान्पृथिवीपतीन् ।अनुभाष्य महाराज पुनः पप्रच्छ संजयम् ॥ २९ ॥
« »