Click on words to see what they mean.

धृतराष्ट्र उवाच ।कांस्तत्र संजयापश्यः प्रत्यर्थेन समागतान् ।ये योत्स्यन्ते पाण्डवार्थे पुत्रस्य मम वाहिनीम् ॥ १ ॥
संजय उवाच ।मुख्यमन्धकवृष्णीनामपश्यं कृष्णमागतम् ।चेकितानं च तत्रैव युयुधानं च सात्यकिम् ॥ २ ॥
पृथगक्षौहिणीभ्यां तौ पाण्डवानभिसंश्रितौ ।महारथौ समाख्यातावुभौ पुरुषमानिनौ ॥ ३ ॥
अक्षौहिण्याथ पाञ्चाल्यो दशभिस्तनयैर्वृतः ।सत्यजित्प्रमुखैर्वीरैर्धृष्टद्युम्नपुरोगमैः ॥ ४ ॥
द्रुपदो वर्धयन्मानं शिखण्डिपरिपालितः ।उपायात्सर्वसैन्यानां प्रतिच्छाद्य तदा वपुः ॥ ५ ॥
विराटः सह पुत्राभ्यां शङ्खेनैवोत्तरेण च ।सूर्यदत्तादिभिर्वीरैर्मदिराश्वपुरोगमैः ॥ ६ ॥
सहितः पृथिवीपालो भ्रातृभिस्तनयैस्तथा ।अक्षौहिण्यैव सैन्यस्य वृतः पार्थं समाश्रितः ॥ ७ ॥
जारासंधिर्मागधश्च धृष्टकेतुश्च चेदिराट् ।पृथक्पृथगनुप्राप्तौ पृथगक्षौहिणीवृतौ ॥ ८ ॥
केकया भ्रातरः पञ्च सर्वे लोहितकध्वजाः ।अक्षौहिणीपरिवृताः पाण्डवानभिसंश्रिताः ॥ ९ ॥
एतानेतावतस्तत्र यानपश्यं समागतान् ।ये पाण्डवार्थे योत्स्यन्ति धार्तराष्ट्रस्य वाहिनीम् ॥ १० ॥
यो वेद मानुषं व्यूहं दैवं गान्धर्वमासुरम् ।स तस्य सेनाप्रमुखे धृष्टद्युम्नो महामनाः ॥ ११ ॥
भीष्मः शांतनवो राजन्भागः कॢप्तः शिखण्डिनः ।तं विराटोऽनु संयाता सह मत्स्यैः प्रहारिभिः ॥ १२ ॥
ज्येष्ठस्य पाण्डुपुत्रस्य भागो मद्राधिपो बली ।तौ तु तत्राब्रुवन्केचिद्विषमौ नो मताविति ॥ १३ ॥
दुर्योधनः सहसुतः सार्धं भ्रातृशतेन च ।प्राच्याश्च दाक्षिणात्याश्च भीमसेनस्य भागतः ॥ १४ ॥
अर्जुनस्य तु भागेन कर्णो वैकर्तनो मतः ।अश्वत्थामा विकर्णश्च सैन्धवश्च जयद्रथः ॥ १५ ॥
अशक्याश्चैव ये केचित्पृथिव्यां शूरमानिनः ।सर्वांस्तानर्जुनः पार्थः कल्पयामास भागतः ॥ १६ ॥
महेष्वासा राजपुत्रा भ्रातरः पञ्च केकयाः ।केकयानेव भागेन कृत्वा योत्स्यन्ति संयुगे ॥ १७ ॥
तेषामेव कृतो भागो मालवाः शाल्वकेकयाः ।त्रिगर्तानां च द्वौ मुख्यौ यौ तौ संशप्तकाविति ॥ १८ ॥
दुर्योधनसुताः सर्वे तथा दुःशासनस्य च ।सौभद्रेण कृतो भागो राजा चैव बृहद्बलः ॥ १९ ॥
द्रौपदेया महेष्वासाः सुवर्णविकृतध्वजाः ।धृष्टद्युम्नमुखा द्रोणमभियास्यन्ति भारत ॥ २० ॥
चेकितानः सोमदत्तं द्वैरथे योद्धुमिच्छति ।भोजं तु कृतवर्माणं युयुधानो युयुत्सति ॥ २१ ॥
सहदेवस्तु माद्रेयः शूरः संक्रन्दनो युधि ।स्वमंशं कल्पयामास श्यालं ते सुबलात्मजम् ॥ २२ ॥
उलूकं चापि कैतव्यं ये च सारस्वता गणाः ।नकुलः कल्पयामास भागं माद्रवतीसुतः ॥ २३ ॥
ये चान्ये पार्थिवा राजन्प्रत्युद्यास्यन्ति संयुगे ।समाह्वानेन तांश्चापि पाण्डुपुत्रा अकल्पयन् ॥ २४ ॥
एवमेषामनीकानि प्रविभक्तानि भागशः ।यत्ते कार्यं सपुत्रस्य क्रियतां तदकालिकम् ॥ २५ ॥
धृतराष्ट्र उवाच ।न सन्ति सर्वे पुत्रा मे मूढा दुर्द्यूतदेविनः ।येषां युद्धं बलवता भीमेन रणमूर्धनि ॥ २६ ॥
राजानः पार्थिवाः सर्वे प्रोक्षिताः कालधर्मणा ।गाण्डीवाग्निं प्रवेक्ष्यन्ति पतङ्गा इव पावकम् ॥ २७ ॥
विद्रुतां वाहिनीं मन्ये कृतवैरैर्महात्मभिः ।तां रणे केऽनुयास्यन्ति प्रभग्नां पाण्डवैर्युधि ॥ २८ ॥
सर्वे ह्यतिरथाः शूराः कीर्तिमन्तः प्रतापिनः ।सूर्यपावकयोस्तुल्यास्तेजसा समितिंजयाः ॥ २९ ॥
येषां युधिष्ठिरो नेता गोप्ता च मधुसूदनः ।योधौ च पाण्डवौ वीरौ सव्यसाचिवृकोदरौ ॥ ३० ॥
नकुलः सहदेवश्च धृष्टद्युम्नश्च पार्षतः ।सात्यकिर्द्रुपदश्चैव धृष्टद्युम्नस्य चात्मजः ॥ ३१ ॥
उत्तमौजाश्च पाञ्चाल्यो युधामन्युश्च दुर्जयः ।शिखण्डी क्षत्रदेवश्च तथा वैराटिरुत्तरः ॥ ३२ ॥
काशयश्चेदयश्चैव मत्स्याः सर्वे च सृञ्जयाः ।विराटपुत्रो बभ्रुश्च पाञ्चालाश्च प्रभद्रकाः ॥ ३३ ॥
येषामिन्द्रोऽप्यकामानां न हरेत्पृथिवीमिमाम् ।वीराणां रणधीराणां ये भिन्द्युः पर्वतानपि ॥ ३४ ॥
तान्सर्वान्गुणसंपन्नानमनुष्यप्रतापिनः ।क्रोशतो मम दुष्पुत्रो योद्धुमिच्छति संजय ॥ ३५ ॥
दुर्योधन उवाच ।उभौ स्व एकजातीयौ तथोभौ भूमिगोचरौ ।अथ कस्मात्पाण्डवानामेकतो मन्यसे जयम् ॥ ३६ ॥
पितामहं च द्रोणं च कृपं कर्णं च दुर्जयम् ।जयद्रथं सोमदत्तमश्वत्थामानमेव च ॥ ३७ ॥
सुचेतसो महेष्वासानिन्द्रोऽपि सहितोऽमरैः ।अशक्तः समरे जेतुं किं पुनस्तात पाण्डवाः ॥ ३८ ॥
सर्वा च पृथिवी सृष्टा मदर्थे तात पाण्डवान् ।आर्यान्धृतिमतः शूरानग्निकल्पान्प्रबाधितुम् ॥ ३९ ॥
न मामकान्पाण्डवास्ते समर्थाः प्रतिवीक्षितुम् ।पराक्रान्तो ह्यहं पाण्डून्सपुत्रान्योद्धुमाहवे ॥ ४० ॥
मत्प्रियं पार्थिवाः सर्वे ये चिकीर्षन्ति भारत ।ते तानावारयिष्यन्ति ऐणेयानिव तन्तुना ॥ ४१ ॥
महता रथवंशेन शरजालैश्च मामकैः ।अभिद्रुता भविष्यन्ति पाञ्चालाः पाण्डवैः सह ॥ ४२ ॥
धृतराष्ट्र उवाच ।उन्मत्त इव मे पुत्रो विलपत्येष संजय ।न हि शक्तो युधा जेतुं धर्मराजं युधिष्ठिरम् ॥ ४३ ॥
जानाति हि सदा भीष्मः पाण्डवानां यशस्विनाम् ।बलवत्तां सपुत्राणां धर्मज्ञानां महात्मनाम् ॥ ४४ ॥
यतो नारोचयमहं विग्रहं तैर्महात्मभिः ।किं तु संजय मे ब्रूहि पुनस्तेषां विचेष्टितम् ॥ ४५ ॥
कस्तांस्तरस्विनो भूयः संदीपयति पाण्डवान् ।अर्चिष्मतो महेष्वासान्हविषा पावकानिव ॥ ४६ ॥
संजय उवाच ।धृष्टद्युम्नः सदैवैतान्संदीपयति भारत ।युध्यध्वमिति मा भैष्ट युद्धाद्भरतसत्तमाः ॥ ४७ ॥
ये केचित्पार्थिवास्तत्र धार्तराष्ट्रेण संवृताः ।युद्धे समागमिष्यन्ति तुमुले कवचह्रदे ॥ ४८ ॥
तान्सर्वानाहवे क्रुद्धान्सानुबन्धान्समागतान् ।अहमेकः समादास्ये तिमिर्मत्स्यानिवौदकान् ॥ ४९ ॥
भीष्मं द्रोणं कृपं कर्णं द्रौणिं शल्यं सुयोधनम् ।एतांश्चापि निरोत्स्यामि वेलेव मकरालयम् ॥ ५० ॥
तथा ब्रुवाणं धर्मात्मा प्राह राजा युधिष्ठिरः ।तव धैर्यं च वीर्यं च पाञ्चालाः पाण्डवैः सह ।सर्वे समधिरूढाः स्म संग्रामान्नः समुद्धर ॥ ५१ ॥
जानामि त्वां महाबाहो क्षत्रधर्मे व्यवस्थितम् ।समर्थमेकं पर्याप्तं कौरवाणां युयुत्सताम् ।भवता यद्विधातव्यं तन्नः श्रेयः परंतप ॥ ५२ ॥
संग्रामादपयातानां भग्नानां शरणैषिणाम् ।पौरुषं दर्शयञ्शूरो यस्तिष्ठेदग्रतः पुमान् ।क्रीणीयात्तं सहस्रेण नीतिमन्नाम तत्पदम् ॥ ५३ ॥
स त्वं शूरश्च वीरश्च विक्रान्तश्च नरर्षभ ।भयार्तानां परित्राता संयुगेषु न संशयः ॥ ५४ ॥
एवं ब्रुवति कौन्तेये धर्मात्मनि युधिष्ठिरे ।धृष्टद्युम्न उवाचेदं मां वचो गतसाध्वसः ॥ ५५ ॥
सर्वाञ्जनपदान्सूत योधा दुर्योधनस्य ये ।सबाह्लीकान्कुरून्ब्रूयाः प्रातिपेयाञ्शरद्वतः ॥ ५६ ॥
सूतपुत्रं तथा द्रोणं सहपुत्रं जयद्रथम् ।दुःशासनं विकर्णं च तथा दुर्योधनं नृपम् ॥ ५७ ॥
भीष्मं चैव ब्रूहि गत्वा त्वमाशु युधिष्ठिरं साधुनैवाभ्युपेत ।मा वो वधीदर्जुनो देवगुप्तः क्षिप्रं याचध्वं पाण्डवं लोकवीरम् ॥ ५८ ॥
नैतादृशो हि योधोऽस्ति पृथिव्यामिह कश्चन ।यथाविधः सव्यसाची पाण्डवः शस्त्रवित्तमः ॥ ५९ ॥
देवैर्हि संभृतो दिव्यो रथो गाण्डीवधन्वनः ।न स जेयो मनुष्येण मा स्म कृध्वं मनो युधि ॥ ६० ॥
« »