Click on words to see what they mean.

दुर्योधन उवाच ।न भेतव्यं महाराज न शोच्या भवता वयम् ।समर्थाः स्म परान्राजन्विजेतुं समरे विभो ॥ १ ॥
वनं प्रव्राजितान्पार्थान्यदायान्मधुसूदनः ।महता बलचक्रेण परराष्ट्रावमर्दिना ॥ २ ॥
केकया धृष्टकेतुश्च धृष्टद्युम्नश्च पार्षतः ।राजानश्चान्वयुः पार्थान्बहवोऽन्येऽनुयायिनः ॥ ३ ॥
इन्द्रप्रस्थस्य चादूरात्समाजग्मुर्महारथाः ।व्यगर्हयंश्च संगम्य भवन्तं कुरुभिः सह ॥ ४ ॥
ते युधिष्ठिरमासीनमजिनैः प्रतिवासितम् ।कृष्णप्रधानाः संहत्य पर्युपासन्त भारत ॥ ५ ॥
प्रत्यादानं च राज्यस्य कार्यमूचुर्नराधिपाः ।भवतः सानुबन्धस्य समुच्छेदं चिकीर्षवः ॥ ६ ॥
श्रुत्वा चैतन्मयोक्तास्तु भीष्मद्रोणकृपास्तदा ।ज्ञातिक्षयभयाद्राजन्भीतेन भरतर्षभ ॥ ७ ॥
न ते स्थास्यन्ति समये पाण्डवा इति मे मतिः ।समुच्छेदं हि नः कृत्स्नं वासुदेवश्चिकीर्षति ॥ ८ ॥
ऋते च विदुरं सर्वे यूयं वध्या महात्मनः ।धृतराष्ट्रश्च धर्मज्ञो न वध्यः कुरुसत्तमः ॥ ९ ॥
समुच्छेदं च कृत्स्नं नः कृत्वा तात जनार्दनः ।एकराज्यं कुरूणां स्म चिकीर्षति युधिष्ठिरे ॥ १० ॥
तत्र किं प्राप्तकालं नः प्रणिपातः पलायनम् ।प्राणान्वा संपरित्यज्य प्रतियुध्यामहे परान् ॥ ११ ॥
प्रतियुद्धे तु नियतः स्यादस्माकं पराजयः ।युधिष्ठिरस्य सर्वे हि पार्थिवा वशवर्तिनः ॥ १२ ॥
विरक्तराष्ट्राश्च वयं मित्राणि कुपितानि नः ।धिक्कृताः पार्थिवैः सर्वैः स्वजनेन च सर्वशः ॥ १३ ॥
प्रणिपाते तु दोषोऽस्ति बन्धूनां शाश्वतीः समाः ।पितरं त्वेव शोचामि प्रज्ञानेत्रं जनेश्वरम् ।मत्कृते दुःखमापन्नं क्लेशं प्राप्तमनन्तकम् ॥ १४ ॥
कृतं हि तव पुत्रैश्च परेषामवरोधनम् ।मत्प्रियार्थं पुरैवैतद्विदितं ते नरोत्तम ॥ १५ ॥
ते राज्ञो धृतराष्ट्रस्य सामात्यस्य महारथाः ।वैरं प्रतिकरिष्यन्ति कुलोच्छेदेन पाण्डवाः ॥ १६ ॥
ततो द्रोणोऽब्रवीद्भीष्मः कृपो द्रौणिश्च भारत ।मत्वा मां महतीं चिन्तामास्थितं व्यथितेन्द्रियम् ॥ १७ ॥
अभिद्रुग्धाः परे चेन्नो न भेतव्यं परंतप ।असमर्थाः परे जेतुमस्मान्युधि जनेश्वर ॥ १८ ॥
एकैकशः समर्थाः स्मो विजेतुं सर्वपार्थिवान् ।आगच्छन्तु विनेष्यामो दर्पमेषां शितैः शरैः ॥ १९ ॥
पुरैकेन हि भीष्मेण विजिताः सर्वपार्थिवाः ।मृते पितर्यभिक्रुद्धो रथेनैकेन भारत ॥ २० ॥
जघान सुबहूंस्तेषां संरब्धः कुरुसत्तमः ।ततस्ते शरणं जग्मुर्देवव्रतमिमं भयात् ॥ २१ ॥
स भीष्मः सुसमर्थोऽयमस्माभिः सहितो रणे ।परान्विजेतुं तस्मात्ते व्येतु भीर्भरतर्षभ ।इत्येषां निश्चयो ह्यासीत्तत्कालममितौजसाम् ॥ २२ ॥
पुरा परेषां पृथिवी कृत्स्नासीद्वशवर्तिनी ।अस्मान्पुनरमी नाद्य समर्था जेतुमाहवे ।छिन्नपक्षाः परे ह्यद्य वीर्यहीनाश्च पाण्डवाः ॥ २३ ॥
अस्मत्संस्था च पृथिवी वर्तते भरतर्षभ ।एकार्थाः सुखदुःखेषु मयानीताश्च पार्थिवाः ॥ २४ ॥
अप्यग्निं प्रविशेयुस्ते समुद्रं वा परंतप ।मदर्थे पार्थिवाः सर्वे तद्विद्धि कुरुसत्तम ॥ २५ ॥
उन्मत्तमिव चापि त्वां प्रहसन्तीह दुःखितम् ।विलपन्तं बहुविधं भीतं परविकत्थने ॥ २६ ॥
एषां ह्येकैकशो राज्ञां समर्थः पाण्डवान्प्रति ।आत्मानं मन्यते सर्वो व्येतु ते भयमागतम् ॥ २७ ॥
सर्वां समग्रां सेनां मे वासवोऽपि न शक्नुयात् ।हन्तुमक्षय्यरूपेयं ब्रह्मणापि स्वयम्भुवा ॥ २८ ॥
युधिष्ठिरः पुरं हित्वा पञ्च ग्रामान्स याचति ।भीतो हि मामकात्सैन्यात्प्रभावाच्चैव मे प्रभो ॥ २९ ॥
समर्थं मन्यसे यच्च कुन्तीपुत्रं वृकोदरम् ।तन्मिथ्या न हि मे कृत्स्नं प्रभावं वेत्थ भारत ॥ ३० ॥
मत्समो हि गदायुद्धे पृथिव्यां नास्ति कश्चन ।नासीत्कश्चिदतिक्रान्तो भविता न च कश्चन ॥ ३१ ॥
युक्तो दुःखोचितश्चाहं विद्यापारगतस्तथा ।तस्मान्न भीमान्नान्येभ्यो भयं मे विद्यते क्वचित् ॥ ३२ ॥
दुर्योधनसमो नास्ति गदायामिति निश्चयः ।संकर्षणस्य भद्रं ते यत्तदैनमुपावसम् ॥ ३३ ॥
युद्धे संकर्षणसमो बलेनाभ्यधिको भुवि ।गदाप्रहारं भीमो मे न जातु विषहेद्युधि ॥ ३४ ॥
एकं प्रहारं यं दद्यां भीमाय रुषितो नृप ।स एवैनं नयेद्घोरं क्षिप्रं वैवस्वतक्षयम् ॥ ३५ ॥
इच्छेयं च गदाहस्तं राजन्द्रष्टुं वृकोदरम् ।सुचिरं प्रार्थितो ह्येष मम नित्यं मनोरथः ॥ ३६ ॥
गदया निहतो ह्याजौ मम पार्थो वृकोदरः ।विशीर्णगात्रः पृथिवीं परासुः प्रपतिष्यति ॥ ३७ ॥
गदाप्रहाराभिहतो हिमवानपि पर्वतः ।सकृन्मया विशीर्येत गिरिः शतसहस्रधा ॥ ३८ ॥
स चाप्येतद्विजानाति वासुदेवार्जुनौ तथा ।दुर्योधनसमो नास्ति गदायामिति निश्चयः ॥ ३९ ॥
तत्ते वृकोदरमयं भयं व्येतु महाहवे ।व्यपनेष्याम्यहं ह्येनं मा राजन्विमना भव ॥ ४० ॥
तस्मिन्मया हते क्षिप्रमर्जुनं बहवो रथाः ।तुल्यरूपा विशिष्टाश्च क्षेप्स्यन्ति भरतर्षभ ॥ ४१ ॥
भीष्मो द्रोणः कृपो द्रौणिः कर्णो भूरिश्रवास्तथा ।प्राग्ज्योतिषाधिपः शल्यः सिन्धुराजो जयद्रथः ॥ ४२ ॥
एकैक एषां शक्तस्तु हन्तुं भारत पाण्डवान् ।समस्तास्तु क्षणेनैतान्नेष्यन्ति यमसादनम् ॥ ४३ ॥
समग्रा पार्थिवी सेना पार्थमेकं धनंजयम् ।कस्मादशक्ता निर्जेतुमिति हेतुर्न विद्यते ॥ ४४ ॥
शरव्रातैस्तु भीष्मेण शतशोऽथ सहस्रशः ।द्रोणद्रौणिकृपैश्चैव गन्ता पार्थो यमक्षयम् ॥ ४५ ॥
पितामहो हि गाङ्गेयः शंतनोरधि भारत ।ब्रह्मर्षिसदृशो जज्ञे देवैरपि दुरुत्सहः ।पित्रा ह्युक्तः प्रसन्नेन नाकामस्त्वं मरिष्यसि ॥ ४६ ॥
ब्रह्मर्षेश्च भरद्वाजाद्द्रोण्यां द्रोणो व्यजायत ।द्रोणाज्जज्ञे महाराज द्रौणिश्च परमास्त्रवित् ॥ ४७ ॥
कृपश्चाचार्यमुख्योऽयं महर्षेर्गौतमादपि ।शरस्तम्बोद्भवः श्रीमानवध्य इति मे मतिः ॥ ४८ ॥
अयोनिजं त्रयं ह्येतत्पिता माता च मातुलः ।अश्वत्थाम्नो महाराज स च शूरः स्थितो मम ॥ ४९ ॥
सर्व एते महाराज देवकल्पा महारथाः ।शक्रस्यापि व्यथां कुर्युः संयुगे भरतर्षभ ॥ ५० ॥
भीष्मद्रोणकृपाणां च तुल्यः कर्णो मतो मम ।अनुज्ञातश्च रामेण मत्समोऽसीति भारत ॥ ५१ ॥
कुण्डले रुचिरे चास्तां कर्णस्य सहजे शुभे ।ते शच्यर्थे महेन्द्रेण याचितः स परंतपः ।अमोघया महाराज शक्त्या परमभीमया ॥ ५२ ॥
तस्य शक्त्योपगूढस्य कस्माज्जीवेद्धनंजयः ।विजयो मे ध्रुवं राजन्फलं पाणाविवाहितम् ।अभिव्यक्तः परेषां च कृत्स्नो भुवि पराजयः ॥ ५३ ॥
अह्ना ह्येकेन भीष्मोऽयमयुतं हन्ति भारत ।तत्समाश्च महेष्वासा द्रोणद्रौणिकृपा अपि ॥ ५४ ॥
संशप्तानि च वृन्दानि क्षत्रियाणां परंतप ।अर्जुनं वयमस्मान्वा धनंजय इति स्म ह ॥ ५५ ॥
तांश्चालमिति मन्यन्ते सव्यसाचिवधे विभो ।पार्थिवाः स भवान्राजन्नकस्माद्व्यथते कथम् ॥ ५६ ॥
भीमसेने च निहते कोऽन्यो युध्येत भारत ।परेषां तन्ममाचक्ष्व यदि वेत्थ परंतप ॥ ५७ ॥
पञ्च ते भ्रातरः सर्वे धृष्टद्युम्नोऽथ सात्यकिः ।परेषां सप्त ये राजन्योधाः परमकं बलम् ॥ ५८ ॥
अस्माकं तु विशिष्टा ये भीष्मद्रोणकृपादयः ।द्रौणिर्वैकर्तनः कर्णः सोमदत्तोऽथ बाह्लिकः ॥ ५९ ॥
प्राग्ज्योतिषाधिपः शल्य आवन्त्योऽथ जयद्रथः ।दुःशासनो दुर्मुखश्च दुःसहश्च विशां पते ॥ ६० ॥
श्रुतायुश्चित्रसेनश्च पुरुमित्रो विविंशतिः ।शलो भूरिश्रवाश्चोभौ विकर्णश्च तवात्मजः ॥ ६१ ॥
अक्षौहिण्यो हि मे राजन्दशैका च समाहृताः ।न्यूनाः परेषां सप्तैव कस्मान्मे स्यात्पराजयः ॥ ६२ ॥
बलं त्रिगुणतो हीनं योध्यं प्राह बृहस्पतिः ।परेभ्यस्त्रिगुणा चेयं मम राजन्ननीकिनी ॥ ६३ ॥
गुणहीनं परेषां च बहु पश्यामि भारत ।गुणोदयं बहुगुणमात्मनश्च विशां पते ॥ ६४ ॥
एतत्सर्वं समाज्ञाय बलाग्र्यं मम भारत ।न्यूनतां पाण्डवानां च न मोहं गन्तुमर्हसि ॥ ६५ ॥
वैशंपायन उवाच ।इत्युक्त्वा संजयं भूयः पर्यपृच्छत भारत ।विधित्सुः प्राप्तकालानि ज्ञात्वा परपुरंजयः ॥ ६६ ॥
« »