Click on words to see what they mean.

वैशंपायन उवाच ।समवेतेषु सर्वेषु तेषु राजसु भारत ।दुर्योधनमिदं वाक्यं भीष्मः शांतनवोऽब्रवीत् ॥ १ ॥
बृहस्पतिश्चोशना च ब्रह्माणं पर्युपस्थितौ ।मरुतश्च सहेन्द्रेण वसवश्च सहाश्विनौ ॥ २ ॥
आदित्याश्चैव साध्याश्च ये च सप्तर्षयो दिवि ।विश्वावसुश्च गन्धर्वः शुभाश्चाप्सरसां गणाः ॥ ३ ॥
नमस्कृत्वोपजग्मुस्ते लोकवृद्धं पितामहम् ।परिवार्य च विश्वेशं पर्यासत दिवौकसः ॥ ४ ॥
तेषां मनश्च तेजश्चाप्याददानौ दिवौकसाम् ।पूर्वदेवौ व्यतिक्रान्तौ नरनारायणावृषी ॥ ५ ॥
बृहस्पतिश्च पप्रच्छ ब्राह्मणं काविमाविति ।भवन्तं नोपतिष्ठेते तौ नः शंस पितामह ॥ ६ ॥
ब्रह्मोवाच ।यावेतौ पृथिवीं द्यां च भासयन्तौ तपस्विनौ ।ज्वलन्तौ रोचमानौ च व्याप्यातीतौ महाबलौ ॥ ७ ॥
नरनारायणावेतौ लोकाल्लोकं समास्थितौ ।ऊर्जितौ स्वेन तपसा महासत्त्वपराक्रमौ ॥ ८ ॥
एतौ हि कर्मणा लोकान्नन्दयामासतुर्ध्रुवौ ।असुराणामभावाय देवगन्धर्वपूजितौ ॥ ९ ॥
वैशंपायन उवाच ।जगाम शक्रस्तच्छ्रुत्वा यत्र तौ तेपतुस्तपः ।सार्धं देवगणैः सर्वैर्बृहस्पतिपुरोगमैः ॥ १० ॥
तदा देवासुरे घोरे भये जाते दिवौकसाम् ।अयाचत महात्मानौ नरनारायणौ वरम् ॥ ११ ॥
तावब्रूतां वृणीष्वेति तदा भरतसत्तम ।अथैतावब्रवीच्छक्रः साह्यं नः क्रियतामिति ॥ १२ ॥
ततस्तौ शक्रमब्रूतां करिष्यावो यदिच्छसि ।ताभ्यां च सहितः शक्रो विजिग्ये दैत्यदानवान् ॥ १३ ॥
नर इन्द्रस्य संग्रामे हत्वा शत्रून्परंतपः ।पौलोमान्कालखञ्जांश्च सहस्राणि शतानि च ॥ १४ ॥
एष भ्रान्ते रथे तिष्ठन्भल्लेनापहरच्छिरः ।जम्भस्य ग्रसमानस्य यज्ञमर्जुन आहवे ॥ १५ ॥
एष पारे समुद्रस्य हिरण्यपुरमारुजत् ।हत्वा षष्टिसहस्राणि निवातकवचान्रणे ॥ १६ ॥
एष देवान्सहेन्द्रेण जित्वा परपुरंजयः ।अतर्पयन्महाबाहुरर्जुनो जातवेदसम् ।नारायणस्तथैवात्र भूयसोऽन्याञ्जघान ह ॥ १७ ॥
एवमेतौ महावीर्यौ तौ पश्यत समागतौ ।वासुदेवार्जुनौ वीरौ समवेतौ महारथौ ॥ १८ ॥
नरनारायणौ देवौ पूर्वदेवाविति श्रुतिः ।अजेयौ मानुषे लोके सेन्द्रैरपि सुरासुरैः ॥ १९ ॥
एष नारायणः कृष्णः फल्गुनस्तु नरः स्मृतः ।नारायणो नरश्चैव सत्त्वमेकं द्विधाकृतम् ॥ २० ॥
एतौ हि कर्मणा लोकानश्नुवातेऽक्षयान्ध्रुवान् ।तत्र तत्रैव जायेते युद्धकाले पुनः पुनः ॥ २१ ॥
तस्मात्कर्मैव कर्तव्यमिति होवाच नारदः ।एतद्धि सर्वमाचष्ट वृष्णिचक्रस्य वेदवित् ॥ २२ ॥
शङ्खचक्रगदाहस्तं यदा द्रक्ष्यसि केशवम् ।पर्याददानं चास्त्राणि भीमधन्वानमर्जुनम् ॥ २३ ॥
सनातनौ महात्मानौ कृष्णावेकरथे स्थितौ ।दुर्योधन तदा तात स्मर्तासि वचनं मम ॥ २४ ॥
नो चेदयमभावः स्यात्कुरूणां प्रत्युपस्थितः ।अर्थाच्च तात धर्माच्च तव बुद्धिरुपप्लुता ॥ २५ ॥
न चेद्ग्रहीष्यसे वाक्यं श्रोतासि सुबहून्हतान् ।तवैव हि मतं सर्वे कुरवः पर्युपासते ॥ २६ ॥
त्रयाणामेव च मतं तत्त्वमेकोऽनुमन्यसे ।रामेण चैव शप्तस्य कर्णस्य भरतर्षभ ॥ २७ ॥
दुर्जातेः सूतपुत्रस्य शकुनेः सौबलस्य च ।तथा क्षुद्रस्य पापस्य भ्रातुर्दुःशासनस्य च ॥ २८ ॥
कर्ण उवाच ।नैवमायुष्मता वाच्यं यन्मामात्थ पितामह ।क्षत्रधर्मे स्थितो ह्यस्मि स्वधर्मादनपेयिवान् ॥ २९ ॥
किं चान्यन्मयि दुर्वृत्तं येन मां परिगर्हसे ।न हि मे वृजिनं किंचिद्धार्तराष्ट्रा विदुः क्वचित् ॥ ३० ॥
राज्ञो हि धृतराष्ट्रस्य सर्वं कार्यं प्रियं मया ।तथा दुर्योधनस्यापि स हि राज्ये समाहितः ॥ ३१ ॥
वैशंपायन उवाच ।कर्णस्य तु वचः श्रुत्वा भीष्मः शांतनवः पुनः ।धृतराष्ट्रं महाराजमाभाष्येदं वचोऽब्रवीत् ॥ ३२ ॥
यदयं कत्थते नित्यं हन्ताहं पाण्डवानिति ।नायं कलापि संपूर्णा पाण्डवानां महात्मनाम् ॥ ३३ ॥
अनयो योऽयमागन्ता पुत्राणां ते दुरात्मनाम् ।तदस्य कर्म जानीहि सूतपुत्रस्य दुर्मतेः ॥ ३४ ॥
एनमाश्रित्य पुत्रस्ते मन्दबुद्धिः सुयोधनः ।अवमन्यत तान्वीरान्देवपुत्रानरिंदमान् ॥ ३५ ॥
किं चाप्यनेन तत्कर्म कृतं पूर्वं सुदुष्करम् ।तैर्यथा पाण्डवैः सर्वैरेकैकेन कृतं पुरा ॥ ३६ ॥
दृष्ट्वा विराटनगरे भ्रातरं निहतं प्रियम् ।धनंजयेन विक्रम्य किमनेन तदा कृतम् ॥ ३७ ॥
सहितान्हि कुरून्सर्वानभियातो धनंजयः ।प्रमथ्य चाच्छिनद्गावः किमयं प्रोषितस्तदा ॥ ३८ ॥
गन्धर्वैर्घोषयात्रायां ह्रियते यत्सुतस्तव ।क्व तदा सूतपुत्रोऽभूद्य इदानीं वृषायते ॥ ३९ ॥
ननु तत्रापि पार्थेन भीमेन च महात्मना ।यमाभ्यामेव चागम्य गन्धर्वास्ते पराजिताः ॥ ४० ॥
एतान्यस्य मृषोक्तानि बहूनि भरतर्षभ ।विकत्थनस्य भद्रं ते सदा धर्मार्थलोपिनः ॥ ४१ ॥
भीष्मस्य तु वचः श्रुत्वा भारद्वाजो महामनाः ।धृतराष्ट्रमुवाचेदं राजमध्येऽभिपूजयन् ॥ ४२ ॥
यदाह भरतश्रेष्ठो भीष्मस्तत्क्रियतां नृप ।न काममर्थलिप्सूनां वचनं कर्तुमर्हसि ॥ ४३ ॥
पुरा युद्धात्साधु मन्ये पाण्डवैः सह संगमम् ।यद्वाक्यमर्जुनेनोक्तं संजयेन निवेदितम् ॥ ४४ ॥
सर्वं तदभिजानामि करिष्यति च पाण्डवः ।न ह्यस्य त्रिषु लोकेषु सदृशोऽस्ति धनुर्धरः ॥ ४५ ॥
अनादृत्य तु तद्वाक्यमर्थवद्द्रोणभीष्मयोः ।ततः स संजयं राजा पर्यपृच्छत पाण्डवम् ॥ ४६ ॥
तदैव कुरवः सर्वे निराशा जीवितेऽभवन् ।भीष्मद्रोणौ यदा राजा न सम्यगनुभाषते ॥ ४७ ॥
« »