Click on words to see what they mean.

धृतराष्ट्र उवाच ।जाग्रतो दह्यमानस्य यत्कार्यमनुपश्यसि ।तद्ब्रूहि त्वं हि नस्तात धर्मार्थकुशलः शुचिः ॥ १ ॥
त्वं मां यथावद्विदुर प्रशाधि प्रज्ञापूर्वं सर्वमजातशत्रोः ।यन्मन्यसे पथ्यमदीनसत्त्व श्रेयस्करं ब्रूहि तद्वै कुरूणाम् ॥ २ ॥
पापाशङ्की पापमेवानुपश्यन्पृच्छामि त्वां व्याकुलेनात्मनाहम् ।कवे तन्मे ब्रूहि सर्वं यथावन्मनीषितं सर्वमजातशत्रोः ॥ ३ ॥
विदुर उवाच ।शुभं वा यदि वा पापं द्वेष्यं वा यदि वा प्रियम् ।अपृष्टस्तस्य तद्ब्रूयाद्यस्य नेच्छेत्पराभवम् ॥ ४ ॥
तस्माद्वक्ष्यामि ते राजन्भवमिच्छन्कुरून्प्रति ।वचः श्रेयस्करं धर्म्यं ब्रुवतस्तन्निबोध मे ॥ ५ ॥
मिथ्योपेतानि कर्माणि सिध्येयुर्यानि भारत ।अनुपायप्रयुक्तानि मा स्म तेषु मनः कृथाः ॥ ६ ॥
तथैव योगविहितं न सिध्येत्कर्म यन्नृप ।उपाययुक्तं मेधावी न तत्र ग्लपयेन्मनः ॥ ७ ॥
अनुबन्धानवेक्षेत सानुबन्धेषु कर्मसु ।संप्रधार्य च कुर्वीत न वेगेन समाचरेत् ॥ ८ ॥
अनुबन्धं च संप्रेक्ष्य विपाकांश्चैव कर्मणाम् ।उत्थानमात्मनश्चैव धीरः कुर्वीत वा न वा ॥ ९ ॥
यः प्रमाणं न जानाति स्थाने वृद्धौ तथा क्षये ।कोशे जनपदे दण्डे न स राज्येऽवतिष्ठते ॥ १० ॥
यस्त्वेतानि प्रमाणानि यथोक्तान्यनुपश्यति ।युक्तो धर्मार्थयोर्ज्ञाने स राज्यमधिगच्छति ॥ ११ ॥
न राज्यं प्राप्तमित्येव वर्तितव्यमसांप्रतम् ।श्रियं ह्यविनयो हन्ति जरा रूपमिवोत्तमम् ॥ १२ ॥
भक्ष्योत्तमप्रतिच्छन्नं मत्स्यो बडिशमायसम् ।रूपाभिपाती ग्रसते नानुबन्धमवेक्षते ॥ १३ ॥
यच्छक्यं ग्रसितुं ग्रस्यं ग्रस्तं परिणमेच्च यत् ।हितं च परिणामे यत्तदद्यं भूतिमिच्छता ॥ १४ ॥
वनस्पतेरपक्वानि फलानि प्रचिनोति यः ।स नाप्नोति रसं तेभ्यो बीजं चास्य विनश्यति ॥ १५ ॥
यस्तु पक्वमुपादत्ते काले परिणतं फलम् ।फलाद्रसं स लभते बीजाच्चैव फलं पुनः ॥ १६ ॥
यथा मधु समादत्ते रक्षन्पुष्पाणि षट्पदः ।तद्वदर्थान्मनुष्येभ्य आदद्यादविहिंसया ॥ १७ ॥
पुष्पं पुष्पं विचिन्वीत मूलच्छेदं न कारयेत् ।मालाकार इवारामे न यथाङ्गारकारकः ॥ १८ ॥
किं नु मे स्यादिदं कृत्वा किं नु मे स्यादकुर्वतः ।इति कर्माणि संचिन्त्य कुर्याद्वा पुरुषो न वा ॥ १९ ॥
अनारभ्या भवन्त्यर्थाः केचिन्नित्यं तथागताः ।कृतः पुरुषकारोऽपि भवेद्येषु निरर्थकः ॥ २० ॥
कांश्चिदर्थान्नरः प्राज्ञो लघुमूलान्महाफलान् ।क्षिप्रमारभते कर्तुं न विघ्नयति तादृशान् ॥ २१ ॥
ऋजु पश्यति यः सर्वं चक्षुषानुपिबन्निव ।आसीनमपि तूष्णीकमनुरज्यन्ति तं प्रजाः ॥ २२ ॥
चक्षुषा मनसा वाचा कर्मणा च चतुर्विधम् ।प्रसादयति लोकं यः तं लोकोऽनुप्रसीदति ॥ २३ ॥
यस्मात्त्रस्यन्ति भूतानि मृगव्याधान्मृगा इव ।सागरान्तामपि महीं लब्ध्वा स परिहीयते ॥ २४ ॥
पितृपैतामहं राज्यं प्राप्तवान्स्वेन तेजसा ।वायुरभ्रमिवासाद्य भ्रंशयत्यनये स्थितः ॥ २५ ॥
धर्ममाचरतो राज्ञः सद्भिश्चरितमादितः ।वसुधा वसुसंपूर्णा वर्धते भूतिवर्धनी ॥ २६ ॥
अथ संत्यजतो धर्ममधर्मं चानुतिष्ठतः ।प्रतिसंवेष्टते भूमिरग्नौ चर्माहितं यथा ॥ २७ ॥
य एव यत्नः क्रियते परराष्ट्रावमर्दने ।स एव यत्नः कर्तव्यः स्वराष्ट्रपरिपालने ॥ २८ ॥
धर्मेण राज्यं विन्देत धर्मेण परिपालयेत् ।धर्ममूलां श्रियं प्राप्य न जहाति न हीयते ॥ २९ ॥
अप्युन्मत्तात्प्रलपतो बालाच्च परिसर्पतः ।सर्वतः सारमादद्यादश्मभ्य इव काञ्चनम् ॥ ३० ॥
सुव्याहृतानि सुधियां सुकृतानि ततस्ततः ।संचिन्वन्धीर आसीत शिलाहारी शिलं यथा ॥ ३१ ॥
गन्धेन गावः पश्यन्ति वेदैः पश्यन्ति ब्राह्मणाः ।चारैः पश्यन्ति राजानश्चक्षुर्भ्यामितरे जनाः ॥ ३२ ॥
भूयांसं लभते क्लेशं या गौर्भवति दुर्दुहा ।अथ या सुदुहा राजन्नैव तां विनयन्त्यपि ॥ ३३ ॥
यदतप्तं प्रणमति न तत्संतापयन्त्यपि ।यच्च स्वयं नतं दारु न तत्संनामयन्त्यपि ॥ ३४ ॥
एतयोपमया धीरः संनमेत बलीयसे ।इन्द्राय स प्रणमते नमते यो बलीयसे ॥ ३५ ॥
पर्जन्यनाथाः पशवो राजानो मित्रबान्धवाः ।पतयो बान्धवाः स्त्रीणां ब्राह्मणा वेदबान्धवाः ॥ ३६ ॥
सत्येन रक्ष्यते धर्मो विद्या योगेन रक्ष्यते ।मृजया रक्ष्यते रूपं कुलं वृत्तेन रक्ष्यते ॥ ३७ ॥
मानेन रक्ष्यते धान्यमश्वान्रक्षत्यनुक्रमः ।अभीक्ष्णदर्शनाद्गावः स्त्रियो रक्ष्याः कुचेलतः ॥ ३८ ॥
न कुलं वृत्तहीनस्य प्रमाणमिति मे मतिः ।अन्त्येष्वपि हि जातानां वृत्तमेव विशिष्यते ॥ ३९ ॥
य ईर्ष्युः परवित्तेषु रूपे वीर्ये कुलान्वये ।सुखे सौभाग्यसत्कारे तस्य व्याधिरनन्तकः ॥ ४० ॥
अकार्यकरणाद्भीतः कार्याणां च विवर्जनात् ।अकाले मन्त्रभेदाच्च येन माद्येन्न तत्पिबेत् ॥ ४१ ॥
विद्यामदो धनमदस्तृतीयोऽभिजनो मदः ।एते मदावलिप्तानामेत एव सतां दमाः ॥ ४२ ॥
असन्तोऽभ्यर्थिताः सद्भिः किंचित्कार्यं कदाचन ।मन्यन्ते सन्तमात्मानमसन्तमपि विश्रुतम् ॥ ४३ ॥
गतिरात्मवतां सन्तः सन्त एव सतां गतिः ।असतां च गतिः सन्तो न त्वसन्तः सतां गतिः ॥ ४४ ॥
जिता सभा वस्त्रवता समाशा गोमता जिता ।अध्वा जितो यानवता सर्वं शीलवता जितम् ॥ ४५ ॥
शीलं प्रधानं पुरुषे तद्यस्येह प्रणश्यति ।न तस्य जीवितेनार्थो न धनेन न बन्धुभिः ॥ ४६ ॥
आढ्यानां मांसपरमं मध्यानां गोरसोत्तरम् ।लवणोत्तरं दरिद्राणां भोजनं भरतर्षभ ॥ ४७ ॥
संपन्नतरमेवान्नं दरिद्रा भुञ्जते सदा ।क्षुत्स्वादुतां जनयति सा चाढ्येषु सुदुर्लभा ॥ ४८ ॥
प्रायेण श्रीमतां लोके भोक्तुं शक्तिर्न विद्यते ।दरिद्राणां तु राजेन्द्र अपि काष्ठं हि जीर्यते ॥ ४९ ॥
अवृत्तिर्भयमन्त्यानां मध्यानां मरणाद्भयम् ।उत्तमानां तु मर्त्यानामवमानात्परं भयम् ॥ ५० ॥
ऐश्वर्यमदपापिष्ठा मदाः पानमदादयः ।ऐश्वर्यमदमत्तो हि नापतित्वा विबुध्यते ॥ ५१ ॥
इन्द्रियैरिन्द्रियार्थेषु वर्तमानैरनिग्रहैः ।तैरयं ताप्यते लोको नक्षत्राणि ग्रहैरिव ॥ ५२ ॥
यो जितः पञ्चवर्गेण सहजेनात्मकर्शिना ।आपदस्तस्य वर्धन्ते शुक्लपक्ष इवोडुराट् ॥ ५३ ॥
अविजित्य य आत्मानममात्यान्विजिगीषते ।अमित्रान्वाजितामात्यः सोऽवशः परिहीयते ॥ ५४ ॥
आत्मानमेव प्रथमं देशरूपेण यो जयेत् ।ततोऽमात्यानमित्रांश्च न मोघं विजिगीषते ॥ ५५ ॥
वश्येन्द्रियं जितामात्यं धृतदण्डं विकारिषु ।परीक्ष्यकारिणं धीरमत्यन्तं श्रीर्निषेवते ॥ ५६ ॥
रथः शरीरं पुरुषस्य राजन्नात्मा नियन्तेन्द्रियाण्यस्य चाश्वाः ।तैरप्रमत्तः कुशलः सदश्वैर्दान्तैः सुखं याति रथीव धीरः ॥ ५७ ॥
एतान्यनिगृहीतानि व्यापादयितुमप्यलम् ।अविधेया इवादान्ता हयाः पथि कुसारथिम् ॥ ५८ ॥
अनर्थमर्थतः पश्यन्नर्थं चैवाप्यनर्थतः ।इन्द्रियैः प्रसृतो बालः सुदुःखं मन्यते सुखम् ॥ ५९ ॥
धर्मार्थौ यः परित्यज्य स्यादिन्द्रियवशानुगः ।श्रीप्राणधनदारेभ्य क्षिप्रं स परिहीयते ॥ ६० ॥
अर्थानामीश्वरो यः स्यादिन्द्रियाणामनीश्वरः ।इन्द्रियाणामनैश्वर्यादैश्वर्याद्भ्रश्यते हि सः ॥ ६१ ॥
आत्मनात्मानमन्विच्छेन्मनोबुद्धीन्द्रियैर्यतैः ।आत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मनः ॥ ६२ ॥
क्षुद्राक्षेणेव जालेन झषावपिहितावुभौ ।कामश्च राजन्क्रोधश्च तौ प्रज्ञानं विलुम्पतः ॥ ६३ ॥
समवेक्ष्येह धर्मार्थौ संभारान्योऽधिगच्छति ।स वै संभृतसंभारः सततं सुखमेधते ॥ ६४ ॥
यः पञ्चाभ्यन्तराञ्शत्रूनविजित्य मतिक्षयान् ।जिगीषति रिपूनन्यान्रिपवोऽभिभवन्ति तम् ॥ ६५ ॥
दृश्यन्ते हि दुरात्मानो वध्यमानाः स्वकर्मभिः ।इन्द्रियाणामनीशत्वाद्राजानो राज्यविभ्रमैः ॥ ६६ ॥
असंत्यागात्पापकृतामपापांस्तुल्यो दण्डः स्पृशते मिश्रभावात् ।शुष्केणार्द्रं दह्यते मिश्रभावात्तस्मात्पापैः सह संधिं न कुर्यात् ॥ ६७ ॥
निजानुत्पततः शत्रून्पञ्च पञ्चप्रयोजनान् ।यो मोहान्न निगृह्णाति तमापद्ग्रसते नरम् ॥ ६८ ॥
अनसूयार्जवं शौचं संतोषः प्रियवादिता ।दमः सत्यमनायासो न भवन्ति दुरात्मनाम् ॥ ६९ ॥
आत्मज्ञानमनायासस्तितिक्षा धर्मनित्यता ।वाक्चैव गुप्ता दानं च नैतान्यन्त्येषु भारत ॥ ७० ॥
आक्रोशपरिवादाभ्यां विहिंसन्त्यबुधा बुधान् ।वक्ता पापमुपादत्ते क्षममाणो विमुच्यते ॥ ७१ ॥
हिंसा बलमसाधूनां राज्ञां दण्डविधिर्बलम् ।शुश्रूषा तु बलं स्त्रीणां क्षमा गुणवतां बलम् ॥ ७२ ॥
वाक्संयमो हि नृपते सुदुष्करतमो मतः ।अर्थवच्च विचित्रं च न शक्यं बहु भाषितुम् ॥ ७३ ॥
अभ्यावहति कल्याणं विविधा वाक्सुभाषिता ।सैव दुर्भाषिता राजन्ननर्थायोपपद्यते ॥ ७४ ॥
संरोहति शरैर्विद्धं वनं परशुना हतम् ।वाचा दुरुक्तं बीभत्सं न संरोहति वाक्क्षतम् ॥ ७५ ॥
कर्णिनालीकनाराचा निर्हरन्ति शरीरतः ।वाक्शल्यस्तु न निर्हर्तुं शक्यो हृदिशयो हि सः ॥ ७६ ॥
वाक्सायका वदनान्निष्पतन्ति यैराहतः शोचति रात्र्यहानि ।परस्य नामर्मसु ते पतन्ति तान्पण्डितो नावसृजेत्परेषु ॥ ७७ ॥
यस्मै देवाः प्रयच्छन्ति पुरुषाय पराभवम् ।बुद्धिं तस्यापकर्षन्ति सोऽपाचीनानि पश्यति ॥ ७८ ॥
बुद्धौ कलुषभूतायां विनाशे प्रत्युपस्थिते ।अनयो नयसंकाशो हृदयान्नापसर्पति ॥ ७९ ॥
सेयं बुद्धिः परीता ते पुत्राणां तव भारत ।पाण्डवानां विरोधेन न चैनामवबुध्यसे ॥ ८० ॥
राजा लक्षणसंपन्नस्त्रैलोक्यस्यापि यो भवेत् ।शिष्यस्ते शासिता सोऽस्तु धृतराष्ट्र युधिष्ठिरः ॥ ८१ ॥
अतीव सर्वान्पुत्रांस्ते भागधेयपुरस्कृतः ।तेजसा प्रज्ञया चैव युक्तो धर्मार्थतत्त्ववित् ॥ ८२ ॥
आनृशंस्यादनुक्रोशाद्योऽसौ धर्मभृतां वरः ।गौरवात्तव राजेन्द्र बहून्क्लेशांस्तितिक्षति ॥ ८३ ॥
« »