Click on words to see what they mean.

वैशंपायन उवाच ।द्वाःस्थं प्राह महाप्राज्ञो धृतराष्ट्रो महीपतिः ।विदुरं द्रष्टुमिच्छामि तमिहानय माचिरम् ॥ १ ॥
प्रहितो धृतराष्ट्रेण दूतः क्षत्तारमब्रवीत् ।ईश्वरस्त्वां महाराजो महाप्राज्ञ दिदृक्षति ॥ २ ॥
एवमुक्तस्तु विदुरः प्राप्य राजनिवेशनम् ।अब्रवीद्धृतराष्ट्राय द्वाःस्थ मां प्रतिवेदय ॥ ३ ॥
द्वाःस्थ उवाच ।विदुरोऽयमनुप्राप्तो राजेन्द्र तव शासनात् ।द्रष्टुमिच्छति ते पादौ किं करोतु प्रशाधि माम् ॥ ४ ॥
धृतराष्ट्र उवाच ।प्रवेशय महाप्राज्ञं विदुरं दीर्घदर्शिनम् ।अहं हि विदुरस्यास्य नाकाल्यो जातु दर्शने ॥ ५ ॥
द्वाःस्थ उवाच ।प्रविशान्तःपुरं क्षत्तर्महाराजस्य धीमतः ।न हि ते दर्शनेऽकाल्यो जातु राजा ब्रवीति माम् ॥ ६ ॥
वैशंपायन उवाच ।ततः प्रविश्य विदुरो धृतराष्ट्रनिवेशनम् ।अब्रवीत्प्राञ्जलिर्वाक्यं चिन्तयानं नराधिपम् ॥ ७ ॥
विदुरोऽहं महाप्राज्ञ संप्राप्तस्तव शासनात् ।यदि किंचन कर्तव्यमयमस्मि प्रशाधि माम् ॥ ८ ॥
धृतराष्ट्र उवाच ।संजयो विदुर प्राप्तो गर्हयित्वा च मां गतः ।अजातशत्रोः श्वो वाक्यं सभामध्ये स वक्ष्यति ॥ ९ ॥
तस्याद्य कुरुवीरस्य न विज्ञातं वचो मया ।तन्मे दहति गात्राणि तदकार्षीत्प्रजागरम् ॥ १० ॥
जाग्रतो दह्यमानस्य श्रेयो यदिह पश्यसि ।तद्ब्रूहि त्वं हि नस्तात धर्मार्थकुशलो ह्यसि ॥ ११ ॥
यतः प्राप्तः संजयः पाण्डवेभ्यो न मे यथावन्मनसः प्रशान्तिः ।सर्वेन्द्रियाण्यप्रकृतिं गतानि किं वक्ष्यतीत्येव हि मेऽद्य चिन्ता ॥ १२ ॥
विदुर उवाच ।अभियुक्तं बलवता दुर्बलं हीनसाधनम् ।हृतस्वं कामिनं चोरमाविशन्ति प्रजागराः ॥ १३ ॥
कच्चिदेतैर्महादोषैर्न स्पृष्टोऽसि नराधिप ।कच्चिन्न परवित्तेषु गृध्यन्विपरितप्यसे ॥ १४ ॥
धृतराष्ट्र उवाच ।श्रोतुमिच्छामि ते धर्म्यं परं नैःश्रेयसं वचः ।अस्मिन्राजर्षिवंशे हि त्वमेकः प्राज्ञसंमतः ॥ १५ ॥
विदुर उवाच ।निषेवते प्रशस्तानि निन्दितानि न सेवते ।अनास्तिकः श्रद्दधान एतत्पण्डितलक्षणम् ॥ १६ ॥
क्रोधो हर्षश्च दर्पश्च ह्रीस्तम्भो मान्यमानिता ।यमर्थान्नापकर्षन्ति स वै पण्डित उच्यते ॥ १७ ॥
यस्य कृत्यं न जानन्ति मन्त्रं वा मन्त्रितं परे ।कृतमेवास्य जानन्ति स वै पण्डित उच्यते ॥ १८ ॥
यस्य कृत्यं न विघ्नन्ति शीतमुष्णं भयं रतिः ।समृद्धिरसमृद्धिर्वा स वै पण्डित उच्यते ॥ १९ ॥
यस्य संसारिणी प्रज्ञा धर्मार्थावनुवर्तते ।कामादर्थं वृणीते यः स वै पण्डित उच्यते ॥ २० ॥
यथाशक्ति चिकीर्षन्ति यथाशक्ति च कुर्वते ।न किंचिदवमन्यन्ते पण्डिता भरतर्षभ ॥ २१ ॥
क्षिप्रं विजानाति चिरं शृणोति विज्ञाय चार्थं भजते न कामात् ।नासंपृष्टो व्युपयुङ्क्ते परार्थे तत्प्रज्ञानं प्रथमं पण्डितस्य ॥ २२ ॥
नाप्राप्यमभिवाञ्छन्ति नष्टं नेच्छन्ति शोचितुम् ।आपत्सु च न मुह्यन्ति नराः पण्डितबुद्धयः ॥ २३ ॥
निश्चित्य यः प्रक्रमते नान्तर्वसति कर्मणः ।अवन्ध्यकालो वश्यात्मा स वै पण्डित उच्यते ॥ २४ ॥
आर्यकर्मणि रज्यन्ते भूतिकर्माणि कुर्वते ।हितं च नाभ्यसूयन्ति पण्डिता भरतर्षभ ॥ २५ ॥
न हृष्यत्यात्मसंमाने नावमानेन तप्यते ।गाङ्गो ह्रद इवाक्षोभ्यो यः स पण्डित उच्यते ॥ २६ ॥
तत्त्वज्ञः सर्वभूतानां योगज्ञः सर्वकर्मणाम् ।उपायज्ञो मनुष्याणां नरः पण्डित उच्यते ॥ २७ ॥
प्रवृत्तवाक्चित्रकथ ऊहवान्प्रतिभानवान् ।आशु ग्रन्थस्य वक्ता च स वै पण्डित उच्यते ॥ २८ ॥
श्रुतं प्रज्ञानुगं यस्य प्रज्ञा चैव श्रुतानुगा ।असंभिन्नार्यमर्यादः पण्डिताख्यां लभेत सः ॥ २९ ॥
अश्रुतश्च समुन्नद्धो दरिद्रश्च महामनाः ।अर्थांश्चाकर्मणा प्रेप्सुर्मूढ इत्युच्यते बुधैः ॥ ३० ॥
स्वमर्थं यः परित्यज्य परार्थमनुतिष्ठति ।मिथ्या चरति मित्रार्थे यश्च मूढः स उच्यते ॥ ३१ ॥
अकामान्कामयति यः कामयानान्परिद्विषन् ।बलवन्तं च यो द्वेष्टि तमाहुर्मूढचेतसम् ॥ ३२ ॥
अमित्रं कुरुते मित्रं मित्रं द्वेष्टि हिनस्ति च ।कर्म चारभते दुष्टं तमाहुर्मूढचेतसम् ॥ ३३ ॥
संसारयति कृत्यानि सर्वत्र विचिकित्सते ।चिरं करोति क्षिप्रार्थे स मूढो भरतर्षभ ॥ ३४ ॥
अनाहूतः प्रविशति अपृष्टो बहु भाषते ।विश्वसत्यप्रमत्तेषु मूढचेता नराधमः ॥ ३५ ॥
परं क्षिपति दोषेण वर्तमानः स्वयं तथा ।यश्च क्रुध्यत्यनीशः सन्स च मूढतमो नरः ॥ ३६ ॥
आत्मनो बलमज्ञाय धर्मार्थपरिवर्जितम् ।अलभ्यमिच्छन्नैष्कर्म्यान्मूढबुद्धिरिहोच्यते ॥ ३७ ॥
अशिष्यं शास्ति यो राजन्यश्च शून्यमुपासते ।कदर्यं भजते यश्च तमाहुर्मूढचेतसम् ॥ ३८ ॥
अर्थं महान्तमासाद्य विद्यामैश्वर्यमेव वा ।विचरत्यसमुन्नद्धो यः स पण्डित उच्यते ॥ ३९ ॥
एकः संपन्नमश्नाति वस्ते वासश्च शोभनम् ।योऽसंविभज्य भृत्येभ्यः को नृशंसतरस्ततः ॥ ४० ॥
एकः पापानि कुरुते फलं भुङ्क्ते महाजनः ।भोक्तारो विप्रमुच्यन्ते कर्ता दोषेण लिप्यते ॥ ४१ ॥
एकं हन्यान्न वा हन्यादिषुर्मुक्तो धनुष्मता ।बुद्धिर्बुद्धिमतोत्सृष्टा हन्याद्राष्ट्रं सराजकम् ॥ ४२ ॥
एकया द्वे विनिश्चित्य त्रींश्चतुर्भिर्वशे कुरु ।पञ्च जित्वा विदित्वा षट्सप्त हित्वा सुखी भव ॥ ४३ ॥
एकं विषरसो हन्ति शस्त्रेणैकश्च वध्यते ।सराष्ट्रं सप्रजं हन्ति राजानं मन्त्रविस्रवः ॥ ४४ ॥
एकः स्वादु न भुञ्जीत एकश्चार्थान्न चिन्तयेत् ।एको न गच्छेदध्वानं नैकः सुप्तेषु जागृयात् ॥ ४५ ॥
एकमेवाद्वितीयं तद्यद्राजन्नावबुध्यसे ।सत्यं स्वर्गस्य सोपानं पारावारस्य नौरिव ॥ ४६ ॥
एकः क्षमावतां दोषो द्वितीयो नोपलभ्यते ।यदेनं क्षमया युक्तमशक्तं मन्यते जनः ॥ ४७ ॥
एको धर्मः परं श्रेयः क्षमैका शान्तिरुत्तमा ।विद्यैका परमा दृष्टिरहिंसैका सुखावहा ॥ ४८ ॥
द्वाविमौ ग्रसते भूमिः सर्पो बिलशयानिव ।राजानं चाविरोद्धारं ब्राह्मणं चाप्रवासिनम् ॥ ४९ ॥
द्वे कर्मणी नरः कुर्वन्नस्मिँल्लोके विरोचते ।अब्रुवन्परुषं किंचिदसतो नार्थयंस्तथा ॥ ५० ॥
द्वाविमौ पुरुषव्याघ्र परप्रत्ययकारिणौ ।स्त्रियः कामितकामिन्यो लोकः पूजितपूजकः ॥ ५१ ॥
द्वाविमौ कण्टकौ तीक्ष्णौ शरीरपरिशोषणौ ।यश्चाधनः कामयते यश्च कुप्यत्यनीश्वरः ॥ ५२ ॥
द्वाविमौ पुरुषौ राजन्स्वर्गस्योपरि तिष्ठतः ।प्रभुश्च क्षमया युक्तो दरिद्रश्च प्रदानवान् ॥ ५३ ॥
न्यायागतस्य द्रव्यस्य बोद्धव्यौ द्वावतिक्रमौ ।अपात्रे प्रतिपत्तिश्च पात्रे चाप्रतिपादनम् ॥ ५४ ॥
त्रयो न्याया मनुष्याणां श्रूयन्ते भरतर्षभ ।कनीयान्मध्यमः श्रेष्ठ इति वेदविदो विदुः ॥ ५५ ॥
त्रिविधाः पुरुषा राजन्नुत्तमाधममध्यमाः ।नियोजयेद्यथावत्तांस्त्रिविधेष्वेव कर्मसु ॥ ५६ ॥
त्रय एवाधना राजन्भार्या दासस्तथा सुतः ।यत्ते समधिगच्छन्ति यस्य ते तस्य तद्धनम् ॥ ५७ ॥
चत्वारि राज्ञा तु महाबलेन वर्ज्यान्याहुः पण्डितस्तानि विद्यात् ।अल्पप्रज्ञैः सह मन्त्रं न कुर्यान्न दीर्घसूत्रैरलसैश्चारणैश्च ॥ ५८ ॥
चत्वारि ते तात गृहे वसन्तु श्रियाभिजुष्टस्य गृहस्थधर्मे ।वृद्धो ज्ञातिरवसन्नः कुलीनः सखा दरिद्रो भगिनी चानपत्या ॥ ५९ ॥
चत्वार्याह महाराज सद्यस्कानि बृहस्पतिः ।पृच्छते त्रिदशेन्द्राय तानीमानि निबोध मे ॥ ६० ॥
देवतानां च संकल्पमनुभावं च धीमताम् ।विनयं कृतविद्यानां विनाशं पापकर्मणाम् ॥ ६१ ॥
पञ्चाग्नयो मनुष्येण परिचर्याः प्रयत्नतः ।पिता माताग्निरात्मा च गुरुश्च भरतर्षभ ॥ ६२ ॥
पञ्चैव पूजयँल्लोके यशः प्राप्नोति केवलम् ।देवान्पितॄन्मनुष्यांश्च भिक्षूनतिथिपञ्चमान् ॥ ६३ ॥
पञ्च त्वानुगमिष्यन्ति यत्र यत्र गमिष्यसि ।मित्राण्यमित्रा मध्यस्था उपजीव्योपजीविनः ॥ ६४ ॥
पञ्चेन्द्रियस्य मर्त्यस्य छिद्रं चेदेकमिन्द्रियम् ।ततोऽस्य स्रवति प्रज्ञा दृतेः पादादिवोदकम् ॥ ६५ ॥
षड्दोषाः पुरुषेणेह हातव्या भूतिमिच्छता ।निद्रा तन्द्री भयं क्रोध आलस्यं दीर्घसूत्रता ॥ ६६ ॥
षडिमान्पुरुषो जह्याद्भिन्नां नावमिवार्णवे ।अप्रवक्तारमाचार्यमनधीयानमृत्विजम् ॥ ६७ ॥
अरक्षितारं राजानं भार्यां चाप्रियवादिनीम् ।ग्रामकामं च गोपालं वनकामं च नापितम् ॥ ६८ ॥
षडेव तु गुणाः पुंसा न हातव्याः कदाचन ।सत्यं दानमनालस्यमनसूया क्षमा धृतिः ॥ ६९ ॥
षण्णामात्मनि नित्यानामैश्वर्यं योऽधिगच्छति ।न स पापैः कुतोऽनर्थैर्युज्यते विजितेन्द्रियः ॥ ७० ॥
षडिमे षट्सु जीवन्ति सप्तमो नोपलभ्यते ।चोराः प्रमत्ते जीवन्ति व्याधितेषु चिकित्सकाः ॥ ७१ ॥
प्रमदाः कामयानेषु यजमानेषु याजकाः ।राजा विवदमानेषु नित्यं मूर्खेषु पण्डिताः ॥ ७२ ॥
सप्त दोषाः सदा राज्ञा हातव्या व्यसनोदयाः ।प्रायशो यैर्विनश्यन्ति कृतमूलाश्च पार्थिवाः ॥ ७३ ॥
स्त्रियोऽक्षा मृगया पानं वाक्पारुष्यं च पञ्चमम् ।महच्च दण्डपारुष्यमर्थदूषणमेव च ॥ ७४ ॥
अष्टौ पूर्वनिमित्तानि नरस्य विनशिष्यतः ।ब्राह्मणान्प्रथमं द्वेष्टि ब्राह्मणैश्च विरुध्यते ॥ ७५ ॥
ब्राह्मणस्वानि चादत्ते ब्राह्मणांश्च जिघांसति ।रमते निन्दया चैषां प्रशंसां नाभिनन्दति ॥ ७६ ॥
नैतान्स्मरति कृत्येषु याचितश्चाभ्यसूयति ।एतान्दोषान्नरः प्राज्ञो बुद्ध्या बुद्ध्वा विवर्जयेत् ॥ ७७ ॥
अष्टाविमानि हर्षस्य नवनीतानि भारत ।वर्तमानानि दृश्यन्ते तान्येव सुसुखान्यपि ॥ ७८ ॥
समागमश्च सखिभिर्महांश्चैव धनागमः ।पुत्रेण च परिष्वङ्गः संनिपातश्च मैथुने ॥ ७९ ॥
समये च प्रियालापः स्वयूथेषु च संनतिः ।अभिप्रेतस्य लाभश्च पूजा च जनसंसदि ॥ ८० ॥
नवद्वारमिदं वेश्म त्रिस्थूणं पञ्चसाक्षिकम् ।क्षेत्रज्ञाधिष्ठितं विद्वान्यो वेद स परः कविः ॥ ८१ ॥
दश धर्मं न जानन्ति धृतराष्ट्र निबोध तान् ।मत्तः प्रमत्त उन्मत्तः श्रान्तः क्रुद्धो बुभुक्षितः ॥ ८२ ॥
त्वरमाणश्च भीरुश्च लुब्धः कामी च ते दश ।तस्मादेतेषु भावेषु न प्रसज्जेत पण्डितः ॥ ८३ ॥
अत्रैवोदाहरन्तीममितिहासं पुरातनम् ।पुत्रार्थमसुरेन्द्रेण गीतं चैव सुधन्वना ॥ ८४ ॥
यः काममन्यू प्रजहाति राजा पात्रे प्रतिष्ठापयते धनं च ।विशेषविच्छ्रुतवान्क्षिप्रकारी तं सर्वलोकः कुरुते प्रमाणम् ॥ ८५ ॥
जानाति विश्वासयितुं मनुष्यान्विज्ञातदोषेषु दधाति दण्डम् ।जानाति मात्रां च तथा क्षमां च तं तादृशं श्रीर्जुषते समग्रा ॥ ८६ ॥
सुदुर्बलं नावजानाति कंचिद्युक्तो रिपुं सेवते बुद्धिपूर्वम् ।न विग्रहं रोचयते बलस्थैः काले च यो विक्रमते स धीरः ॥ ८७ ॥
प्राप्यापदं न व्यथते कदाचिदुद्योगमन्विच्छति चाप्रमत्तः ।दुःखं च काले सहते जितात्मा धुरंधरस्तस्य जिताः सपत्नाः ॥ ८८ ॥
अनर्थकं विप्रवासं गृहेभ्यः पापैः संधिं परदाराभिमर्शम् ।दम्भं स्तैन्यं पैशुनं मद्यपानं न सेवते यः स सुखी सदैव ॥ ८९ ॥
न संरम्भेणारभतेऽर्थवर्गमाकारितः शंसति तथ्यमेव ।न मात्रार्थे रोचयते विवादं नापूजितः कुप्यति चाप्यमूढः ॥ ९० ॥
न योऽभ्यसूयत्यनुकम्पते च न दुर्बलः प्रातिभाव्यं करोति ।नात्याह किंचित्क्षमते विवादं सर्वत्र तादृग्लभते प्रशंसाम् ॥ ९१ ॥
यो नोद्धतं कुरुते जातु वेषं न पौरुषेणापि विकत्थतेऽन्यान् ।न मूर्च्छितः कटुकान्याह किंचित्प्रियं सदा तं कुरुते जनोऽपि ॥ ९२ ॥
न वैरमुद्दीपयति प्रशान्तं न दर्पमारोहति नास्तमेति ।न दुर्गतोऽस्मीति करोति मन्युं तमार्यशीलं परमाहुरग्र्यम् ॥ ९३ ॥
न स्वे सुखे वै कुरुते प्रहर्षं नान्यस्य दुःखे भवति प्रतीतः ।दत्त्वा न पश्चात्कुरुतेऽनुतापं न कत्थते सत्पुरुषार्यशीलः ॥ ९४ ॥
देशाचारान्समयाञ्जातिधर्मान्बुभूषते यस्तु परावरज्ञः ।स तत्र तत्राधिगतः सदैव महाजनस्याधिपत्यं करोति ॥ ९५ ॥
दम्भं मोहं मत्सरं पापकृत्यं राजद्विष्टं पैशुनं पूगवैरम् ।मत्तोन्मत्तैर्दुर्जनैश्चापि वादं यः प्रज्ञावान्वर्जयेत्स प्रधानः ॥ ९६ ॥
दमं शौचं दैवतं मङ्गलानि प्रायश्चित्तं विविधाँल्लोकवादान् ।एतानि यः कुरुते नैत्यकानि तस्योत्थानं देवता राधयन्ति ॥ ९७ ॥
समैर्विवाहं कुरुते न हीनैः समैः सख्यं व्यवहारं कथाश्च ।गुणैर्विशिष्टांश्च पुरोदधाति विपश्चितस्तस्य नयाः सुनीताः ॥ ९८ ॥
मितं भुङ्क्ते संविभज्याश्रितेभ्यो मितं स्वपित्यमितं कर्म कृत्वा ।ददात्यमित्रेष्वपि याचितः संस्तमात्मवन्तं प्रजहत्यनर्थाः ॥ ९९ ॥
चिकीर्षितं विप्रकृतं च यस्य नान्ये जनाः कर्म जानन्ति किंचित् ।मन्त्रे गुप्ते सम्यगनुष्ठिते च स्वल्पो नास्य व्यथते कश्चिदर्थः ॥ १०० ॥
यः सर्वभूतप्रशमे निविष्टः सत्यो मृदुर्दानकृच्छुद्धभावः ।अतीव संज्ञायते ज्ञातिमध्ये महामणिर्जात्य इव प्रसन्नः ॥ १०१ ॥
य आत्मनापत्रपते भृशं नरः स सर्वलोकस्य गुरुर्भवत्युत ।अनन्ततेजाः सुमनाः समाहितः स्वतेजसा सूर्य इवावभासते ॥ १०२ ॥
वने जाताः शापदग्धस्य राज्ञः पाण्डोः पुत्राः पञ्च पञ्चेन्द्रकल्पाः ।त्वयैव बाला वर्धिताः शिक्षिताश्च तवादेशं पालयन्त्याम्बिकेय ॥ १०३ ॥
प्रदायैषामुचितं तात राज्यं सुखी पुत्रैः सहितो मोदमानः ।न देवानां नापि च मानुषाणां भविष्यसि त्वं तर्कणीयो नरेन्द्र ॥ १०४ ॥
« »