Click on words to see what they mean.

संजय उवाच ।धर्मे नित्या पाण्डव ते विचेष्टा लोके श्रुता दृश्यते चापि पार्थ ।महास्रावं जीवितं चाप्यनित्यं संपश्य त्वं पाण्डव मा विनीनशः ॥ १ ॥
न चेद्भागं कुरवोऽन्यत्र युद्धात्प्रयच्छन्ते तुभ्यमजातशत्रो ।भैक्षचर्यामन्धकवृष्णिराज्ये श्रेयो मन्ये न तु युद्धेन राज्यम् ॥ २ ॥
अल्पकालं जीवितं यन्मनुष्ये महास्रावं नित्यदुःखं चलं च ।भूयश्च तद्वयसो नानुरूपं तस्मात्पापं पाण्डव मा प्रसार्षीः ॥ ३ ॥
कामा मनुष्यं प्रसजन्त एव धर्मस्य ये विघ्नमूलं नरेन्द्र ।पूर्वं नरस्तान्धृतिमान्विनिघ्नँल्लोके प्रशंसां लभतेऽनवद्याम् ॥ ४ ॥
निबन्धनी ह्यर्थतृष्णेह पार्थ तामेषतो बाध्यते धर्म एव ।धर्मं तु यः प्रवृणीते स बुद्धः कामे गृद्धो हीयतेऽर्थानुरोधात् ॥ ५ ॥
धर्मं कृत्वा कर्मणां तात मुख्यं महाप्रतापः सवितेव भाति ।हानेन धर्मस्य महीमपीमां लब्ध्वा नरः सीदति पापबुद्धिः ॥ ६ ॥
वेदोऽधीतश्चरितं ब्रह्मचर्यं यज्ञैरिष्टं ब्राह्मणेभ्यश्च दत्तम् ।परं स्थानं मन्यमानेन भूय आत्मा दत्तो वर्षपूगं सुखेभ्यः ॥ ७ ॥
सुखप्रिये सेवमानोऽतिवेलं योगाभ्यासे यो न करोति कर्म ।वित्तक्षये हीनसुखोऽतिवेलं दुःखं शेते कामवेगप्रणुन्नः ॥ ८ ॥
एवं पुनरर्थचर्याप्रसक्तो हित्वा धर्मं यः प्रकरोत्यधर्मम् ।अश्रद्दधत्परलोकाय मूढो हित्वा देहं तप्यते प्रेत्य मन्दः ॥ ९ ॥
न कर्मणां विप्रणाशोऽस्त्यमुत्र पुण्यानां वाप्यथ वा पापकानाम् ।पूर्वं कर्तुर्गच्छति पुण्यपापं पश्चात्त्वेतदनुयात्येव कर्ता ॥ १० ॥
न्यायोपेतं ब्राह्मणेभ्यो यदन्नं श्रद्धापूतं गन्धरसोपपन्नम् ।अन्वाहार्येषूत्तमदक्षिणेषु तथारूपं कर्म विख्यायते ते ॥ ११ ॥
इह क्षेत्रे क्रियते पार्थ कार्यं न वै किंचिद्विद्यते प्रेत्य कार्यम् ।कृतं त्वया पारलोक्यं च कार्यं पुण्यं महत्सद्भिरनुप्रशस्तम् ॥ १२ ॥
जहाति मृत्युं च जरां भयं च न क्षुत्पिपासे मनसश्चाप्रियाणि ।न कर्तव्यं विद्यते तत्र किंचिदन्यत्र वै इन्द्रियप्रीणनार्थात् ॥ १३ ॥
एवंरूपं कर्मफलं नरेन्द्र मात्रावता हृदयस्य प्रियेण ।स क्रोधजं पाण्डव हर्षजं च लोकावुभौ मा प्रहासीश्चिराय ॥ १४ ॥
अन्तं गत्वा कर्मणां या प्रशंसा सत्यं दमश्चार्जवमानृशंस्यम् ।अश्वमेधो राजसूयस्तथेष्टः पापस्यान्तं कर्मणो मा पुनर्गाः ॥ १५ ॥
तच्चेदेवं देशरूपेण पार्थाः करिष्यध्वं कर्म पापं चिराय ।निवसध्वं वर्षपूगान्वनेषु दुःखं वासं पाण्डवा धर्महेतोः ॥ १६ ॥
अप्रव्रज्ये योजयित्वा पुरस्तादात्माधीनं यद्बलं ते तदासीत् ।नित्यं पाञ्चालाः सचिवास्तवेमे जनार्दनो युयुधानश्च वीरः ॥ १७ ॥
मत्स्यो राजा रुक्मरथः सपुत्रः प्रहारिभिः सह पुत्रैर्विराटः ।राजानश्च ये विजिताः पुरस्तात्त्वामेव ते संश्रयेयुः समस्ताः ॥ १८ ॥
महासहायः प्रतपन्बलस्थः पुरस्कृतो वासुदेवार्जुनाभ्याम् ।वरान्हनिष्यन्द्विषतो रङ्गमध्ये व्यनेष्यथा धार्तराष्ट्रस्य दर्पम् ॥ १९ ॥
बलं कस्माद्वर्धयित्वा परस्य निजान्कस्मात्कर्शयित्वा सहायान् ।निरुष्य कस्माद्वर्षपूगान्वनेषु युयुत्ससे पाण्डव हीनकालम् ॥ २० ॥
अप्रज्ञो वा पाण्डव युध्यमानो अधर्मज्ञो वा भूतिपथाद्व्यपैति ।प्रज्ञावान्वा बुध्यमानोऽपि धर्मं संरम्भाद्वा सोऽपि भूतेरपैति ॥ २१ ॥
नाधर्मे ते धीयते पार्थ बुद्धिर्न संरम्भात्कर्म चकर्थ पापम् ।अद्धा किं तत्कारणं यस्य हेतोः प्रज्ञाविरुद्धं कर्म चिकीर्षसीदम् ॥ २२ ॥
अव्याधिजं कटुकं शीर्षरोगं यशोमुषं पापफलोदयं च ।सतां पेयं यन्न पिबन्त्यसन्तो मन्युं महाराज पिब प्रशाम्य ॥ २३ ॥
पापानुबन्धं को नु तं कामयेत क्षमैव ते ज्यायसी नोत भोगाः ।यत्र भीष्मः शांतनवो हतः स्याद्यत्र द्रोणः सहपुत्रो हतः स्यात् ॥ २४ ॥
कृपः शल्यः सौमदत्तिर्विकर्णो विविंशतिः कर्णदुर्योधनौ च ।एतान्हत्वा कीदृशं तत्सुखं स्याद्यद्विन्देथास्तदनुब्रूहि पार्थ ॥ २५ ॥
लब्ध्वापीमां पृथिवीं सागरान्तां जरामृत्यू नैव हि त्वं प्रजह्याः ।प्रियाप्रिये सुखदुःखे च राजन्नेवं विद्वान्नैव युद्धं कुरुष्व ॥ २६ ॥
अमात्यानां यदि कामस्य हेतोरेवंयुक्तं कर्म चिकीर्षसि त्वम् ।अपाक्रमेः संप्रदाय स्वमेभ्यो मा गास्त्वं वै देवयानात्पथोऽद्य ॥ २७ ॥
« »