Click on words to see what they mean.

राम उवाच ।प्रत्यक्षमेतल्लोकानां सर्वेषामेव भामिनि ।यथा मया परं शक्त्या कृतं वै पौरुषं महत् ॥ १ ॥
न चैव युधि शक्नोमि भीष्मं शस्त्रभृतां वरम् ।विशेषयितुमत्यर्थमुत्तमास्त्राणि दर्शयन् ॥ २ ॥
एषा मे परमा शक्तिरेतन्मे परमं बलम् ।यथेष्टं गम्यतां भद्रे किमन्यद्वा करोमि ते ॥ ३ ॥
भीष्ममेव प्रपद्यस्व न तेऽन्या विद्यते गतिः ।निर्जितो ह्यस्मि भीष्मेण महास्त्राणि प्रमुञ्चता ॥ ४ ॥
भीष्म उवाच ।एवमुक्त्वा ततो रामो विनिःश्वस्य महामनाः ।तूष्णीमासीत्तदा कन्या प्रोवाच भृगुनन्दनम् ॥ ५ ॥
भगवन्नेवमेवैतद्यथाह भगवांस्तथा ।अजेयो युधि भीष्मोऽयमपि देवैरुदारधीः ॥ ६ ॥
यथाशक्ति यथोत्साहं मम कार्यं कृतं त्वया ।अनिधाय रणे वीर्यमस्त्राणि विविधानि च ॥ ७ ॥
न चैष शक्यते युद्धे विशेषयितुमन्ततः ।न चाहमेनं यास्यामि पुनर्भीष्मं कथंचन ॥ ८ ॥
गमिष्यामि तु तत्राहं यत्र भीष्मं तपोधन ।समरे पातयिष्यामि स्वयमेव भृगूद्वह ॥ ९ ॥
एवमुक्त्वा ययौ कन्या रोषव्याकुललोचना ।तपसे धृतसंकल्पा मम चिन्तयती वधम् ॥ १० ॥
ततो महेन्द्रं सह तैर्मुनिभिर्भृगुसत्तमः ।यथागतं ययौ रामो मामुपामन्त्र्य भारत ॥ ११ ॥
ततोऽहं रथमारुह्य स्तूयमानो द्विजातिभिः ।प्रविश्य नगरं मात्रे सत्यवत्यै न्यवेदयम् ।यथावृत्तं महाराज सा च मां प्रत्यनन्दत ॥ १२ ॥
पुरुषांश्चादिशं प्राज्ञान्कन्यावृत्तान्तकर्मणि ।दिवसे दिवसे ह्यस्या गतजल्पितचेष्टितम् ।प्रत्याहरंश्च मे युक्ताः स्थिताः प्रियहिते मम ॥ १३ ॥
यदैव हि वनं प्रायात्कन्या सा तपसे धृता ।तदैव व्यथितो दीनो गतचेता इवाभवम् ॥ १४ ॥
न हि मां क्षत्रियः कश्चिद्वीर्येण विजयेद्युधि ।ऋते ब्रह्मविदस्तात तपसा संशितव्रतात् ॥ १५ ॥
अपि चैतन्मया राजन्नारदेऽपि निवेदितम् ।व्यासे चैव भयात्कार्यं तौ चोभौ मामवोचताम् ॥ १६ ॥
न विषादस्त्वया कार्यो भीष्म काशिसुतां प्रति ।दैवं पुरुषकारेण को निवर्तितुमुत्सहेत् ॥ १७ ॥
सा तु कन्या महाराज प्रविश्याश्रममण्डलम् ।यमुनातीरमाश्रित्य तपस्तेपेऽतिमानुषम् ॥ १८ ॥
निराहारा कृशा रूक्षा जटिला मलपङ्किनी ।षण्मासान्वायुभक्षा च स्थाणुभूता तपोधना ॥ १९ ॥
यमुनातीरमासाद्य संवत्सरमथापरम् ।उदवासं निराहारा पारयामास भामिनी ॥ २० ॥
शीर्णपर्णेन चैकेन पारयामास चापरम् ।संवत्सरं तीव्रकोपा पादाङ्गुष्ठाग्रधिष्ठिता ॥ २१ ॥
एवं द्वादश वर्षाणि तापयामास रोदसी ।निवर्त्यमानापि तु सा ज्ञातिभिर्नैव शक्यते ॥ २२ ॥
ततोऽगमद्वत्सभूमिं सिद्धचारणसेविताम् ।आश्रमं पुण्यशीलानां तापसानां महात्मनाम् ॥ २३ ॥
तत्र पुण्येषु देशेषु साप्लुताङ्गी दिवानिशम् ।व्यचरत्काशिकन्या सा यथाकामविचारिणी ॥ २४ ॥
नन्दाश्रमे महाराज ततोलूकाश्रमे शुभे ।च्यवनस्याश्रमे चैव ब्रह्मणः स्थान एव च ॥ २५ ॥
प्रयागे देवयजने देवारण्येषु चैव ह ।भोगवत्यां तथा राजन्कौशिकस्याश्रमे तथा ॥ २६ ॥
माण्डव्यस्याश्रमे राजन्दिलीपस्याश्रमे तथा ।रामह्रदे च कौरव्य पैलगार्ग्यस्य चाश्रमे ॥ २७ ॥
एतेषु तीर्थेषु तदा काशिकन्या विशां पते ।आप्लावयत गात्राणि तीव्रमास्थाय वै तपः ॥ २८ ॥
तामब्रवीत्कौरवेय मम माता जलोत्थिता ।किमर्थं क्लिश्यसे भद्रे तथ्यमेतद्ब्रवीहि मे ॥ २९ ॥
सैनामथाब्रवीद्राजन्कृताञ्जलिरनिन्दिता ।भीष्मो रामेण समरे न जितश्चारुलोचने ॥ ३० ॥
कोऽन्यस्तमुत्सहेज्जेतुमुद्यतेषुं महीपतिम् ।साहं भीष्मविनाशाय तपस्तप्स्ये सुदारुणम् ॥ ३१ ॥
चरामि पृथिवीं देवि यथा हन्यामहं नृपम् ।एतद्व्रतफलं देहे परस्मिन्स्याद्यथा हि मे ॥ ३२ ॥
ततोऽब्रवीत्सागरगा जिह्मं चरसि भामिनि ।नैष कामोऽनवद्याङ्गि शक्यः प्राप्तुं त्वयाबले ॥ ३३ ॥
यदि भीष्मविनाशाय काश्ये चरसि वै व्रतम् ।व्रतस्था च शरीरं त्वं यदि नाम विमोक्ष्यसि ।नदी भविष्यसि शुभे कुटिला वार्षिकोदका ॥ ३४ ॥
दुस्तीर्था चानभिज्ञेया वार्षिकी नाष्टमासिकी ।भीमग्राहवती घोरा सर्वभूतभयंकरी ॥ ३५ ॥
एवमुक्त्वा ततो राजन्काशिकन्यां न्यवर्तत ।माता मम महाभागा स्मयमानेव भामिनी ॥ ३६ ॥
कदाचिदष्टमे मासि कदाचिद्दशमे तथा ।न प्राश्नीतोदकमपि पुनः सा वरवर्णिनी ॥ ३७ ॥
सा वत्सभूमिं कौरव्य तीर्थलोभात्ततस्ततः ।पतिता परिधावन्ती पुनः काशिपतेः सुता ॥ ३८ ॥
सा नदी वत्सभूम्यां तु प्रथिताम्बेति भारत ।वार्षिकी ग्राहबहुला दुस्तीर्था कुटिला तथा ॥ ३९ ॥
सा कन्या तपसा तेन भागार्धेन व्यजायत ।नदी च राजन्वत्सेषु कन्या चैवाभवत्तदा ॥ ४० ॥
« »