Click on words to see what they mean.

भीष्म उवाच ।ततो हलहलाशब्दो दिवि राजन्महानभूत् ।प्रस्वापं भीष्म मा स्राक्षीरिति कौरवनन्दन ॥ १ ॥
अयुञ्जमेव चैवाहं तदस्त्रं भृगुनन्दने ।प्रस्वापं मां प्रयुञ्जानं नारदो वाक्यमब्रवीत् ॥ २ ॥
एते वियति कौरव्य दिवि देवगणाः स्थिताः ।ते त्वां निवारयन्त्यद्य प्रस्वापं मा प्रयोजय ॥ ३ ॥
रामस्तपस्वी ब्रह्मण्यो ब्राह्मणश्च गुरुश्च ते ।तस्यावमानं कौरव्य मा स्म कार्षीः कथंचन ॥ ४ ॥
ततोऽपश्यं दिविष्ठान्वै तानष्टौ ब्रह्मवादिनः ।ते मां स्मयन्तो राजेन्द्र शनकैरिदमब्रुवन् ॥ ५ ॥
यथाह भरतश्रेष्ठ नारदस्तत्तथा कुरु ।एतद्धि परमं श्रेयो लोकानां भरतर्षभ ॥ ६ ॥
ततश्च प्रतिसंहृत्य तदस्त्रं स्वापनं मृधे ।ब्रह्मास्त्रं दीपयां चक्रे तस्मिन्युधि यथाविधि ॥ ७ ॥
ततो रामो रुषितो राजपुत्र दृष्ट्वा तदस्त्रं विनिवर्तितं वै ।जितोऽस्मि भीष्मेण सुमन्दबुद्धिरित्येव वाक्यं सहसा व्यमुञ्चत् ॥ ८ ॥
ततोऽपश्यत्पितरं जामदग्न्यः पितुस्तथा पितरं तस्य चान्यम् ।त एवैनं संपरिवार्य तस्थुरूचुश्चैनं सान्त्वपूर्वं तदानीम् ॥ ९ ॥
मा स्मैवं साहसं वत्स पुनः कार्षीः कथंचन ।भीष्मेण संयुगं गन्तुं क्षत्रियेण विशेषतः ॥ १० ॥
क्षत्रियस्य तु धर्मोऽयं यद्युद्धं भृगुनन्दन ।स्वाध्यायो व्रतचर्या च ब्राह्मणानां परं धनम् ॥ ११ ॥
इदं निमित्ते कस्मिंश्चिदस्माभिरुपमन्त्रितम् ।शस्त्रधारणमत्युग्रं तच्च कार्यं कृतं त्वया ॥ १२ ॥
वत्स पर्याप्तमेतावद्भीष्मेण सह संयुगे ।विमर्दस्ते महाबाहो व्यपयाहि रणादितः ॥ १३ ॥
पर्याप्तमेतद्भद्रं ते तव कार्मुकधारणम् ।विसर्जयैतद्दुर्धर्ष तपस्तप्यस्व भार्गव ॥ १४ ॥
एष भीष्मः शांतनवो देवैः सर्वैर्निवारितः ।निवर्तस्व रणादस्मादिति चैव प्रचोदितः ॥ १५ ॥
रामेण सह मा योत्सीर्गुरुणेति पुनः पुनः ।न हि रामो रणे जेतुं त्वया न्याय्यः कुरूद्वह ।मानं कुरुष्व गाङ्गेय ब्राह्मणस्य रणाजिरे ॥ १६ ॥
वयं तु गुरवस्तुभ्यं ततस्त्वां वारयामहे ।भीष्मो वसूनामन्यतमो दिष्ट्या जीवसि पुत्रक ॥ १७ ॥
गाङ्गेयः शंतनोः पुत्रो वसुरेष महायशाः ।कथं त्वया रणे जेतुं राम शक्यो निवर्त वै ॥ १८ ॥
अर्जुनः पाण्डवश्रेष्ठः पुरंदरसुतो बली ।नरः प्रजापतिर्वीरः पूर्वदेवः सनातनः ॥ १९ ॥
सव्यसाचीति विख्यातस्त्रिषु लोकेषु वीर्यवान् ।भीष्ममृत्युर्यथाकालं विहितो वै स्वयंभुवा ॥ २० ॥
एवमुक्तः स पितृभिः पितॄन्रामोऽब्रवीदिदम् ।नाहं युधि निवर्तेयमिति मे व्रतमाहितम् ॥ २१ ॥
न निवर्तितपूर्वं च कदाचिद्रणमूर्धनि ।निवर्त्यतामापगेयः कामं युद्धात्पितामहाः ।न त्वहं विनिवर्तिष्ये युद्धादस्मात्कथंचन ॥ २२ ॥
ततस्ते मुनयो राजन्नृचीकप्रमुखास्तदा ।नारदेनैव सहिताः समागम्येदमब्रुवन् ॥ २३ ॥
निवर्तस्व रणात्तात मानयस्व द्विजोत्तमान् ।नेत्यवोचमहं तांश्च क्षत्रधर्मव्यपेक्षया ॥ २४ ॥
मम व्रतमिदं लोके नाहं युद्धात्कथंचन ।विमुखो विनिवर्तेयं पृष्ठतोऽभ्याहतः शरैः ॥ २५ ॥
नाहं लोभान्न कार्पण्यान्न भयान्नार्थकारणात् ।त्यजेयं शाश्वतं धर्ममिति मे निश्चिता मतिः ॥ २६ ॥
ततस्ते मुनयः सर्वे नारदप्रमुखा नृप ।भागीरथी च मे माता रणमध्यं प्रपेदिरे ॥ २७ ॥
तथैवात्तशरो धन्वी तथैव दृढनिश्चयः ।स्थितोऽहमाहवे योद्धुं ततस्ते राममब्रुवन् ।समेत्य सहिता भूयः समरे भृगुनन्दनम् ॥ २८ ॥
नावनीतं हि हृदयं विप्राणां शाम्य भार्गव ।राम राम निवर्तस्व युद्धादस्माद्द्विजोत्तम ।अवध्यो हि त्वया भीष्मस्त्वं च भीष्मस्य भार्गव ॥ २९ ॥
एवं ब्रुवन्तस्ते सर्वे प्रतिरुध्य रणाजिरम् ।न्यासयां चक्रिरे शस्त्रं पितरो भृगुनन्दनम् ॥ ३० ॥
ततोऽहं पुनरेवाथ तानष्टौ ब्रह्मवादिनः ।अद्राक्षं दीप्यमानान्वै ग्रहानष्टाविवोदितान् ॥ ३१ ॥
ते मां सप्रणयं वाक्यमब्रुवन्समरे स्थितम् ।प्रैहि रामं महाबाहो गुरुं लोकहितं कुरु ॥ ३२ ॥
दृष्ट्वा निवर्तितं रामं सुहृद्वाक्येन तेन वै ।लोकानां च हितं कुर्वन्नहमप्याददे वचः ॥ ३३ ॥
ततोऽहं राममासाद्य ववन्दे भृशविक्षतः ।रामश्चाभ्युत्स्मयन्प्रेम्णा मामुवाच महातपाः ॥ ३४ ॥
त्वत्समो नास्ति लोकेऽस्मिन्क्षत्रियः पृथिवीचरः ।गम्यतां भीष्म युद्धेऽस्मिंस्तोषितोऽहं भृशं त्वया ॥ ३५ ॥
मम चैव समक्षं तां कन्यामाहूय भार्गवः ।उवाच दीनया वाचा मध्ये तेषां तपस्विनाम् ॥ ३६ ॥
« »