Click on words to see what they mean.

भीष्म उवाच ।ततः प्रभाते राजेन्द्र सूर्ये विमल उद्गते ।भार्गवस्य मया सार्धं पुनर्युद्धमवर्तत ॥ १ ॥
ततो भ्रान्ते रथे तिष्ठन्रामः प्रहरतां वरः ।ववर्ष शरवर्षाणि मयि शक्र इवाचले ॥ २ ॥
तेन सूतो मम सुहृच्छरवर्षेण ताडितः ।निपपात रथोपस्थे मनो मम विषादयन् ॥ ३ ॥
ततः सूतः स मेऽत्यर्थं कश्मलं प्राविशन्महत् ।पृथिव्यां च शराघातान्निपपात मुमोह च ॥ ४ ॥
ततः सूतोऽजहात्प्राणान्रामबाणप्रपीडितः ।मुहूर्तादिव राजेन्द्र मां च भीराविशत्तदा ॥ ५ ॥
ततः सूते हते राजन्क्षिपतस्तस्य मे शरान् ।प्रमत्तमनसो रामः प्राहिणोन्मृत्युसंमितान् ॥ ६ ॥
ततः सूतव्यसनिनं विप्लुतं मां स भार्गवः ।शरेणाभ्यहनद्गाढं विकृष्य बलवद्धनुः ॥ ७ ॥
स मे जत्र्वन्तरे राजन्निपत्य रुधिराशनः ।मयैव सह राजेन्द्र जगाम वसुधातलम् ॥ ८ ॥
मत्वा तु निहतं रामस्ततो मां भरतर्षभ ।मेघवद्व्यनदच्चोच्चैर्जहृषे च पुनः पुनः ॥ ९ ॥
तथा तु पतिते राजन्मयि रामो मुदा युतः ।उदक्रोशन्महानादं सह तैरनुयायिभिः ॥ १० ॥
मम तत्राभवन्ये तु कौरवाः पार्श्वतः स्थिताः ।आगता ये च युद्धं तज्जनास्तत्र दिदृक्षवः ।आर्तिं परमिकां जग्मुस्ते तदा मयि पातिते ॥ ११ ॥
ततोऽपश्यं पातितो राजसिंह द्विजानष्टौ सूर्यहुताशनाभान् ।ते मां समन्तात्परिवार्य तस्थुः स्वबाहुभिः परिगृह्याजिमध्ये ॥ १२ ॥
रक्ष्यमाणश्च तैर्विप्रैर्नाहं भूमिमुपास्पृशम् ।अन्तरिक्षे स्थितो ह्यस्मि तैर्विप्रैर्बान्धवैरिव ।स्वपन्निवान्तरिक्षे च जलबिन्दुभिरुक्षितः ॥ १३ ॥
ततस्ते ब्राह्मणा राजन्नब्रुवन्परिगृह्य माम् ।मा भैरिति समं सर्वे स्वस्ति तेऽस्त्विति चासकृत् ॥ १४ ॥
ततस्तेषामहं वाग्भिस्तर्पितः सहसोत्थितः ।मातरं सरितां श्रेष्ठामपश्यं रथमास्थिताम् ॥ १५ ॥
हयाश्च मे संगृहीतास्तया वै महानद्या संयति कौरवेन्द्र ।पादौ जनन्याः प्रतिपूज्य चाहं तथार्ष्टिषेणं रथमभ्यरोहम् ॥ १६ ॥
ररक्ष सा मम रथं हयांश्चोपस्कराणि च ।तामहं प्राञ्जलिर्भूत्वा पुनरेव व्यसर्जयम् ॥ १७ ॥
ततोऽहं स्वयमुद्यम्य हयांस्तान्वातरंहसः ।अयुध्यं जामदग्न्येन निवृत्तेऽहनि भारत ॥ १८ ॥
ततोऽहं भरतश्रेष्ठ वेगवन्तं महाबलम् ।अमुञ्चं समरे बाणं रामाय हृदयच्छिदम् ॥ १९ ॥
ततो जगाम वसुधां बाणवेगप्रपीडितः ।जानुभ्यां धनुरुत्सृज्य रामो मोहवशं गतः ॥ २० ॥
ततस्तस्मिन्निपतिते रामे भूरिसहस्रदे ।आवव्रुर्जलदा व्योम क्षरन्तो रुधिरं बहु ॥ २१ ॥
उल्काश्च शतशः पेतुः सनिर्घाताः सकम्पनाः ।अर्कं च सहसा दीप्तं स्वर्भानुरभिसंवृणोत् ॥ २२ ॥
ववुश्च वाताः परुषाश्चलिता च वसुंधरा ।गृध्रा बडाश्च कङ्काश्च परिपेतुर्मुदा युताः ॥ २३ ॥
दीप्तायां दिशि गोमायुर्दारुणं मुहुरुन्नदत् ।अनाहता दुन्दुभयो विनेदुर्भृशनिस्वनाः ॥ २४ ॥
एतदौत्पातिकं घोरमासीद्भरतसत्तम ।विसंज्ञकल्पे धरणीं गते रामे महात्मनि ॥ २५ ॥
ततो रविर्मन्दमरीचिमण्डलो जगामास्तं पांसुपुञ्जावगाढः ।निशा व्यगाहत्सुखशीतमारुता ततो युद्धं प्रत्यवहारयावः ॥ २६ ॥
एवं राजन्नवहारो बभूव ततः पुनर्विमलेऽभूत्सुघोरम् ।काल्यं काल्यं विंशतिं वै दिनानि तथैव चान्यानि दिनानि त्रीणि ॥ २७ ॥
« »