Click on words to see what they mean.

भीष्म उवाच ।आत्मनस्तु ततः सूतो हयानां च विशां पते ।मम चापनयामास शल्यान्कुशलसंमतः ॥ १ ॥
स्नातोपवृत्तैस्तुरगैर्लब्धतोयैरविह्वलैः ।प्रभात उदिते सूर्ये ततो युद्धमवर्तत ॥ २ ॥
दृष्ट्वा मां तूर्णमायान्तं दंशितं स्यन्दने स्थितम् ।अकरोद्रथमत्यर्थं रामः सज्जं प्रतापवान् ॥ ३ ॥
ततोऽहं राममायान्तं दृष्ट्वा समरकाङ्क्षिणम् ।धनुःश्रेष्ठं समुत्सृज्य सहसावतरं रथात् ॥ ४ ॥
अभिवाद्य तथैवाहं रथमारुह्य भारत ।युयुत्सुर्जामदग्न्यस्य प्रमुखे वीतभीः स्थितः ॥ ५ ॥
ततो मां शरवर्षेण महता समवाकिरत् ।अहं च शरवर्षेण वर्षन्तं समवाकिरम् ॥ ६ ॥
संक्रुद्धो जामदग्न्यस्तु पुनरेव पतत्रिणः ।प्रेषयामास मे राजन्दीप्तास्यानुरगानिव ॥ ७ ॥
तानहं निशितैर्भल्लैः शतशोऽथ सहस्रशः ।अच्छिदं सहसा राजन्नन्तरिक्षे पुनः पुनः ॥ ८ ॥
ततस्त्वस्त्राणि दिव्यानि जामदग्न्यः प्रतापवान् ।मयि प्रचोदयामास तान्यहं प्रत्यषेधयम् ॥ ९ ॥
अस्त्रैरेव महाबाहो चिकीर्षन्नधिकां क्रियाम् ।ततो दिवि महान्नादः प्रादुरासीत्समन्ततः ॥ १० ॥
ततोऽहमस्त्रं वायव्यं जामदग्न्ये प्रयुक्तवान् ।प्रत्याजघ्ने च तद्रामो गुह्यकास्त्रेण भारत ॥ ११ ॥
ततोऽस्त्रमहमाग्नेयमनुमन्त्र्य प्रयुक्तवान् ।वारुणेनैव रामस्तद्वारयामास मे विभुः ॥ १२ ॥
एवमस्त्राणि दिव्यानि रामस्याहमवारयम् ।रामश्च मम तेजस्वी दिव्यास्त्रविदरिंदमः ॥ १३ ॥
ततो मां सव्यतो राजन्रामः कुर्वन्द्विजोत्तमः ।उरस्यविध्यत्संक्रुद्धो जामदग्न्यो महाबलः ॥ १४ ॥
ततोऽहं भरतश्रेष्ठ संन्यषीदं रथोत्तमे ।अथ मां कश्मलाविष्टं सूतस्तूर्णमपावहत् ।गोरुतं भरतश्रेष्ठ रामबाणप्रपीडितम् ॥ १५ ॥
ततो मामपयातं वै भृशं विद्धमचेतसम् ।रामस्यानुचरा हृष्टाः सर्वे दृष्ट्वा प्रचुक्रुशुः ।अकृतव्रणप्रभृतयः काशिकन्या च भारत ॥ १६ ॥
ततस्तु लब्धसंज्ञोऽहं ज्ञात्वा सूतमथाब्रुवम् ।याहि सूत यतो रामः सज्जोऽहं गतवेदनः ॥ १७ ॥
ततो मामवहत्सूतो हयैः परमशोभितैः ।नृत्यद्भिरिव कौरव्य मारुतप्रतिमैर्गतौ ॥ १८ ॥
ततोऽहं राममासाद्य बाणजालेन कौरव ।अवाकिरं सुसंरब्धः संरब्धं विजिगीषया ॥ १९ ॥
तानापतत एवासौ रामो बाणानजिह्मगान् ।बाणैरेवाच्छिनत्तूर्णमेकैकं त्रिभिराहवे ॥ २० ॥
ततस्ते मृदिताः सर्वे मम बाणाः सुसंशिताः ।रामबाणैर्द्विधा छिन्नाः शतशोऽथ महाहवे ॥ २१ ॥
ततः पुनः शरं दीप्तं सुप्रभं कालसंमितम् ।असृजं जामदग्न्याय रामायाहं जिघांसया ॥ २२ ॥
तेन त्वभिहतो गाढं बाणच्छेदवशं गतः ।मुमोह सहसा रामो भूमौ च निपपात ह ॥ २३ ॥
ततो हाहाकृतं सर्वं रामे भूतलमाश्रिते ।जगद्भारत संविग्नं यथार्कपतनेऽभवत् ॥ २४ ॥
तत एनं सुसंविग्नाः सर्व एवाभिदुद्रुवुः ।तपोधनास्ते सहसा काश्या च भृगुनन्दनम् ॥ २५ ॥
त एनं संपरिष्वज्य शनैराश्वासयंस्तदा ।पाणिभिर्जलशीतैश्च जयाशीर्भिश्च कौरव ॥ २६ ॥
ततः स विह्वलो वाक्यं राम उत्थाय माब्रवीत् ।तिष्ठ भीष्म हतोऽसीति बाणं संधाय कार्मुके ॥ २७ ॥
स मुक्तो न्यपतत्तूर्णं पार्श्वे सव्ये महाहवे ।येनाहं भृशसंविग्नो व्याघूर्णित इव द्रुमः ॥ २८ ॥
हत्वा हयांस्ततो राजञ्शीघ्रास्त्रेण महाहवे ।अवाकिरन्मां विश्रब्धो बाणैस्तैर्लोमवाहिभिः ॥ २९ ॥
ततोऽहमपि शीघ्रास्त्रं समरेऽप्रतिवारणम् ।अवासृजं महाबाहो तेऽन्तराधिष्ठिताः शराः ।रामस्य मम चैवाशु व्योमावृत्य समन्ततः ॥ ३० ॥
न स्म सूर्यः प्रतपति शरजालसमावृतः ।मातरिश्वान्तरे तस्मिन्मेघरुद्ध इवानदत् ॥ ३१ ॥
ततो वायोः प्रकम्पाच्च सूर्यस्य च मरीचिभिः ।अभितापात्स्वभावाच्च पावकः समजायत ॥ ३२ ॥
ते शराः स्वसमुत्थेन प्रदीप्ताश्चित्रभानुना ।भूमौ सर्वे तदा राजन्भस्मभूताः प्रपेदिरे ॥ ३३ ॥
तदा शतसहस्राणि प्रयुतान्यर्बुदानि च ।अयुतान्यथ खर्वाणि निखर्वाणि च कौरव ।रामः शराणां संक्रुद्धो मयि तूर्णमपातयत् ॥ ३४ ॥
ततोऽहं तानपि रणे शरैराशीविषोपमैः ।संछिद्य भूमौ नृपतेऽपातयं पन्नगानिव ॥ ३५ ॥
एवं तदभवद्युद्धं तदा भरतसत्तम ।संध्याकाले व्यतीते तु व्यपायात्स च मे गुरुः ॥ ३६ ॥
« »