Click on words to see what they mean.

भीष्म उवाच ।तमहं स्मयन्निव रणे प्रत्यभाषं व्यवस्थितम् ।भूमिष्ठं नोत्सहे योद्धुं भवन्तं रथमास्थितः ॥ १ ॥
आरोह स्यन्दनं वीर कवचं च महाभुज ।बधान समरे राम यदि योद्धुं मयेच्छसि ॥ २ ॥
ततो मामब्रवीद्रामः स्मयमानो रणाजिरे ।रथो मे मेदिनी भीष्म वाहा वेदाः सदश्ववत् ॥ ३ ॥
सूतो मे मातरिश्वा वै कवचं वेदमातरः ।सुसंवीतो रणे ताभिर्योत्स्येऽहं कुरुनन्दन ॥ ४ ॥
एवं ब्रुवाणो गान्धारे रामो मां सत्यविक्रमः ।शरव्रातेन महता सर्वतः पर्यवारयत् ॥ ५ ॥
ततोऽपश्यं जामदग्न्यं रथे दिव्ये व्यवस्थितम् ।सर्वायुधधरे श्रीमत्यद्भुतोपमदर्शने ॥ ६ ॥
मनसा विहिते पुण्ये विस्तीर्णे नगरोपमे ।दिव्याश्वयुजि संनद्धे काञ्चनेन विभूषिते ॥ ७ ॥
ध्वजेन च महाबाहो सोमालंकृतलक्ष्मणा ।धनुर्धरो बद्धतूणो बद्धगोधाङ्गुलित्रवान् ॥ ८ ॥
सारथ्यं कृतवांस्तत्र युयुत्सोरकृतव्रणः ।सखा वेदविदत्यन्तं दयितो भार्गवस्य ह ॥ ९ ॥
आह्वयानः स मां युद्धे मनो हर्षयतीव मे ।पुनः पुनरभिक्रोशन्नभियाहीति भार्गवः ॥ १० ॥
तमादित्यमिवोद्यन्तमनाधृष्यं महाबलम् ।क्षत्रियान्तकरं राममेकमेकः समासदम् ॥ ११ ॥
ततोऽहं बाणपातेषु त्रिषु वाहान्निगृह्य वै ।अवतीर्य धनुर्न्यस्य पदातिरृषिसत्तमम् ॥ १२ ॥
अभ्यगच्छं तदा राममर्चिष्यन्द्विजसत्तमम् ।अभिवाद्य चैनं विधिवदब्रुवं वाक्यमुत्तमम् ॥ १३ ॥
योत्स्ये त्वया रणे राम विशिष्टेनाधिकेन च ।गुरुणा धर्मशीलेन जयमाशास्स्व मे विभो ॥ १४ ॥
राम उवाच ।एवमेतत्कुरुश्रेष्ठ कर्तव्यं भूतिमिच्छता ।धर्मो ह्येष महाबाहो विशिष्टैः सह युध्यताम् ॥ १५ ॥
शपेयं त्वां न चेदेवमागच्छेथा विशां पते ।युध्यस्व त्वं रणे यत्तो धैर्यमालम्ब्य कौरव ॥ १६ ॥
न तु ते जयमाशासे त्वां हि जेतुमहं स्थितः ।गच्छ युध्यस्व धर्मेण प्रीतोऽस्मि चरितेन ते ॥ १७ ॥
भीष्म उवाच ।ततोऽहं तं नमस्कृत्य रथमारुह्य सत्वरः ।प्राध्मापयं रणे शङ्खं पुनर्हेमविभूषितम् ॥ १८ ॥
ततो युद्धं समभवन्मम तस्य च भारत ।दिवसान्सुबहून्राजन्परस्परजिगीषया ॥ १९ ॥
स मे तस्मिन्रणे पूर्वं प्राहरत्कङ्कपत्रिभिः ।षष्ट्या शतैश्च नवभिः शराणामग्निवर्चसाम् ॥ २० ॥
चत्वारस्तेन मे वाहाः सूतश्चैव विशां पते ।प्रतिरुद्धास्तथैवाहं समरे दंशितः स्थितः ॥ २१ ॥
नमस्कृत्य च देवेभ्यो ब्राह्मणेभ्यश्च भारत ।तमहं स्मयन्निव रणे प्रत्यभाषं व्यवस्थितम् ॥ २२ ॥
आचार्यता मानिता मे निर्मर्यादे ह्यपि त्वयि ।भूयस्तु शृणु मे ब्रह्मन्संपदं धर्मसंग्रहे ॥ २३ ॥
ये ते वेदाः शरीरस्था ब्राह्मण्यं यच्च ते महत् ।तपश्च सुमहत्तप्तं न तेभ्यः प्रहराम्यहम् ॥ २४ ॥
प्रहरे क्षत्रधर्मस्य यं त्वं राम समास्थितः ।ब्राह्मणः क्षत्रियत्वं हि याति शस्त्रसमुद्यमात् ॥ २५ ॥
पश्य मे धनुषो वीर्यं पश्य बाह्वोर्बलं च मे ।एष ते कार्मुकं वीर द्विधा कुर्मि ससायकम् ॥ २६ ॥
तस्याहं निशितं भल्लं प्राहिण्वं भरतर्षभ ।तेनास्य धनुषः कोटिश्छिन्ना भूमिमथागमत् ॥ २७ ॥
नव चापि पृषत्कानां शतानि नतपर्वणाम् ।प्राहिण्वं कङ्कपत्राणां जामदग्न्यरथं प्रति ॥ २८ ॥
काये विषक्तास्तु तदा वायुनाभिसमीरिताः ।चेलुः क्षरन्तो रुधिरं नागा इव च ते शराः ॥ २९ ॥
क्षतजोक्षितसर्वाङ्गः क्षरन्स रुधिरं व्रणैः ।बभौ रामस्तदा राजन्मेरुर्धातूनिवोत्सृजन् ॥ ३० ॥
हेमन्तान्तेऽशोक इव रक्तस्तबकमण्डितः ।बभौ रामस्तदा राजन्क्वचित्किंशुकसंनिभः ॥ ३१ ॥
ततोऽन्यद्धनुरादाय रामः क्रोधसमन्वितः ।हेमपुङ्खान्सुनिशिताञ्शरांस्तान्हि ववर्ष सः ॥ ३२ ॥
ते समासाद्य मां रौद्रा बहुधा मर्मभेदिनः ।अकम्पयन्महावेगाः सर्पानलविषोपमाः ॥ ३३ ॥
ततोऽहं समवष्टभ्य पुनरात्मानमाहवे ।शतसंख्यैः शरैः क्रुद्धस्तदा राममवाकिरम् ॥ ३४ ॥
स तैरग्न्यर्कसंकाशैः शरैराशीविषोपमैः ।शितैरभ्यर्दितो रामो मन्दचेता इवाभवत् ॥ ३५ ॥
ततोऽहं कृपयाविष्टो विनिन्द्यात्मानमात्मना ।धिग्धिगित्यब्रुवं युद्धं क्षत्रं च भरतर्षभ ॥ ३६ ॥
असकृच्चाब्रुवं राजञ्शोकवेगपरिप्लुतः ।अहो बत कृतं पापं मयेदं क्षत्रकर्मणा ॥ ३७ ॥
गुरुर्द्विजातिर्धर्मात्मा यदेवं पीडितः शरैः ।ततो न प्राहरं भूयो जामदग्न्याय भारत ॥ ३८ ॥
अथावताप्य पृथिवीं पूषा दिवससंक्षये ।जगामास्तं सहस्रांशुस्ततो युद्धमुपारमत् ॥ ३९ ॥
« »