Click on words to see what they mean.

भीष्म उवाच ।ततो मामब्रवीद्रामः प्रहसन्निव भारत ।दिष्ट्या भीष्म मया सार्धं योद्धुमिच्छसि संगरे ॥ १ ॥
अयं गच्छामि कौरव्य कुरुक्षेत्रं त्वया सह ।भाषितं तत्करिष्यामि तत्रागच्छेः परंतप ॥ २ ॥
तत्र त्वां निहतं माता मया शरशताचितम् ।जाह्नवी पश्यतां भीष्म गृध्रकङ्कबडाशनम् ॥ ३ ॥
कृपणं त्वामभिप्रेक्ष्य सिद्धचारणसेविता ।मया विनिहतं देवी रोदतामद्य पार्थिव ॥ ४ ॥
अतदर्हा महाभागा भगीरथसुता नदी ।या त्वामजीजनन्मन्दं युद्धकामुकमातुरम् ॥ ५ ॥
एहि गच्छ मया भीष्म युद्धमद्यैव वर्तताम् ।गृहाण सर्वं कौरव्य रथादि भरतर्षभ ॥ ६ ॥
इति ब्रुवाणं तमहं रामं परपुरंजयम् ।प्रणम्य शिरसा राजन्नेवमस्त्वित्यथाब्रुवम् ॥ ७ ॥
एवमुक्त्वा ययौ रामः कुरुक्षेत्रं युयुत्सया ।प्रविश्य नगरं चाहं सत्यवत्यै न्यवेदयम् ॥ ८ ॥
ततः कृतस्वस्त्ययनो मात्रा प्रत्यभिनन्दितः ।द्विजातीन्वाच्य पुण्याहं स्वस्ति चैव महाद्युते ॥ ९ ॥
रथमास्थाय रुचिरं राजतं पाण्डुरैर्हयैः ।सूपस्करं स्वधिष्ठानं वैयाघ्रपरिवारणम् ॥ १० ॥
उपपन्नं महाशस्त्रैः सर्वोपकरणान्वितम् ।तत्कुलीनेन वीरेण हयशास्त्रविदा नृप ॥ ११ ॥
युक्तं सूतेन शिष्टेन बहुशो दृष्टकर्मणा ।दंशितः पाण्डुरेणाहं कवचेन वपुष्मता ॥ १२ ॥
पाण्डुरं कार्मुकं गृह्य प्रायां भरतसत्तम ।पाण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि ॥ १३ ॥
पाण्डुरैश्चामरैश्चापि वीज्यमानो नराधिप ।शुक्लवासाः सितोष्णीषः सर्वशुक्लविभूषणः ॥ १४ ॥
स्तूयमानो जयाशीर्भिर्निष्क्रम्य गजसाह्वयात् ।कुरुक्षेत्रं रणक्षेत्रमुपायां भरतर्षभ ॥ १५ ॥
ते हयाश्चोदितास्तेन सूतेन परमाहवे ।अवहन्मां भृशं राजन्मनोमारुतरंहसः ॥ १६ ॥
गत्वाहं तत्कुरुक्षेत्रं स च रामः प्रतापवान् ।युद्धाय सहसा राजन्पराक्रान्तौ परस्परम् ॥ १७ ॥
ततः संदर्शनेऽतिष्ठं रामस्यातितपस्विनः ।प्रगृह्य शङ्खप्रवरं ततः प्राधममुत्तमम् ॥ १८ ॥
ततस्तत्र द्विजा राजंस्तापसाश्च वनौकसः ।अपश्यन्त रणं दिव्यं देवाः सर्षिगणास्तदा ॥ १९ ॥
ततो दिव्यानि माल्यानि प्रादुरासन्मुहुर्मुहुः ।वादित्राणि च दिव्यानि मेघवृन्दानि चैव ह ॥ २० ॥
ततस्ते तापसाः सर्वे भार्गवस्यानुयायिनः ।प्रेक्षकाः समपद्यन्त परिवार्य रणाजिरम् ॥ २१ ॥
ततो मामब्रवीद्देवी सर्वभूतहितैषिणी ।माता स्वरूपिणी राजन्किमिदं ते चिकीर्षितम् ॥ २२ ॥
गत्वाहं जामदग्न्यं तं प्रयाचिष्ये कुरूद्वह ।भीष्मेण सह मा योत्सीः शिष्येणेति पुनः पुनः ॥ २३ ॥
मा मैवं पुत्र निर्बन्धं कुरु विप्रेण पार्थिव ।जामदग्न्येन समरे योद्धुमित्यवभर्त्सयत् ॥ २४ ॥
किं न वै क्षत्रियहरो हरतुल्यपराक्रमः ।विदितः पुत्र रामस्ते यतस्त्वं योद्धुमिच्छसि ॥ २५ ॥
ततोऽहमब्रुवं देवीमभिवाद्य कृताञ्जलिः ।सर्वं तद्भरतश्रेष्ठ यथावृत्तं स्वयंवरे ॥ २६ ॥
यथा च रामो राजेन्द्र मया पूर्वं प्रसादितः ।काशिराजसुतायाश्च यथा कामः पुरातनः ॥ २७ ॥
ततः सा राममभ्येत्य जननी मे महानदी ।मदर्थं तमृषिं देवी क्षमयामास भार्गवम् ।भीष्मेण सह मा योत्सीः शिष्येणेति वचोऽब्रवीत् ॥ २८ ॥
स च तामाह याचन्तीं भीष्ममेव निवर्तय ।न हि मे कुरुते काममित्यहं तमुपागमम् ॥ २९ ॥
संजय उवाच ।ततो गङ्गा सुतस्नेहाद्भीष्मं पुनरुपागमत् ।न चास्याः सोऽकरोद्वाक्यं क्रोधपर्याकुलेक्षणः ॥ ३० ॥
अथादृश्यत धर्मात्मा भृगुश्रेष्ठो महातपाः ।आह्वयामास च पुनर्युद्धाय द्विजसत्तमः ॥ ३१ ॥
« »