Click on words to see what they mean.

भीष्म उवाच ।एवमुक्तस्तदा रामो जहि भीष्ममिति प्रभो ।उवाच रुदतीं कन्यां चोदयन्तीं पुनः पुनः ॥ १ ॥
काश्ये कामं न गृह्णामि शस्त्रं वै वरवर्णिनि ।ऋते ब्रह्मविदां हेतोः किमन्यत्करवाणि ते ॥ २ ॥
वाचा भीष्मश्च शाल्वश्च मम राज्ञि वशानुगौ ।भविष्यतोऽनवद्याङ्गि तत्करिष्यामि मा शुचः ॥ ३ ॥
न तु शस्त्रं ग्रहीष्यामि कथंचिदपि भामिनि ।ऋते नियोगाद्विप्राणामेष मे समयः कृतः ॥ ४ ॥
अम्बोवाच ।मम दुःखं भगवता व्यपनेयं यतस्ततः ।तत्तु भीष्मप्रसूतं मे तं जहीश्वर माचिरम् ॥ ५ ॥
राम उवाच ।काशिकन्ये पुनर्ब्रूहि भीष्मस्ते चरणावुभौ ।शिरसा वन्दनार्होऽपि ग्रहीष्यति गिरा मम ॥ ६ ॥
अम्बोवाच ।जहि भीष्मं रणे राम मम चेदिच्छसि प्रियम् ।प्रतिश्रुतं च यदि तत्सत्यं कर्तुमिहार्हसि ॥ ७ ॥
भीष्म उवाच ।तयोः संवदतोरेवं राजन्रामाम्बयोस्तदा ।अकृतव्रणो जामदग्न्यमिदं वचनमब्रवीत् ॥ ८ ॥
शरणागतां महाबाहो कन्यां न त्यक्तुमर्हसि ।जहि भीष्मं रणे राम गर्जन्तमसुरं यथा ॥ ९ ॥
यदि भीष्मस्त्वयाहूतो रणे राम महामुने ।निर्जितोऽस्मीति वा ब्रूयात्कुर्याद्वा वचनं तव ॥ १० ॥
कृतमस्या भवेत्कार्यं कन्याया भृगुनन्दन ।वाक्यं सत्यं च ते वीर भविष्यति कृतं विभो ॥ ११ ॥
इयं चापि प्रतिज्ञा ते तदा राम महामुने ।जित्वा वै क्षत्रियान्सर्वान्ब्राह्मणेषु प्रतिश्रुतम् ॥ १२ ॥
ब्राह्मणः क्षत्रियो वैश्यः शूद्रश्चैव रणे यदि ।ब्रह्मद्विड्भविता तं वै हनिष्यामीति भार्गव ॥ १३ ॥
शरणं हि प्रपन्नानां भीतानां जीवितार्थिनाम् ।न शक्ष्यामि परित्यागं कर्तुं जीवन्कथंचन ॥ १४ ॥
यश्च क्षत्रं रणे कृत्स्नं विजेष्यति समागतम् ।दृप्तात्मानमहं तं च हनिष्यामीति भार्गव ॥ १५ ॥
स एवं विजयी राम भीष्मः कुरुकुलोद्वहः ।तेन युध्यस्व संग्रामे समेत्य भृगुनन्दन ॥ १६ ॥
राम उवाच ।स्मराम्यहं पूर्वकृतां प्रतिज्ञामृषिसत्तम ।तथैव च करिष्यामि यथा साम्नैव लप्स्यते ॥ १७ ॥
कार्यमेतन्महद्ब्रह्मन्काशिकन्यामनोगतम् ।गमिष्यामि स्वयं तत्र कन्यामादाय यत्र सः ॥ १८ ॥
यदि भीष्मो रणश्लाघी न करिष्यति मे वचः ।हनिष्याम्येनमुद्रिक्तमिति मे निश्चिता मतिः ॥ १९ ॥
न हि बाणा मयोत्सृष्टाः सज्जन्तीह शरीरिणाम् ।कायेषु विदितं तुभ्यं पुरा क्षत्रियसंगरे ॥ २० ॥
भीष्म उवाच ।एवमुक्त्वा ततो रामः सह तैर्ब्रह्मवादिभिः ।प्रयाणाय मतिं कृत्वा समुत्तस्थौ महामनाः ॥ २१ ॥
ततस्ते तामुषित्वा तु रजनीं तत्र तापसाः ।हुताग्नयो जप्तजप्याः प्रतस्थुर्मज्जिघांसया ॥ २२ ॥
अभ्यगच्छत्ततो रामः सह तैर्ब्राह्मणर्षभैः ।कुरुक्षेत्रं महाराज कन्यया सह भारत ॥ २३ ॥
न्यविशन्त ततः सर्वे परिगृह्य सरस्वतीम् ।तापसास्ते महात्मानो भृगुश्रेष्ठपुरस्कृताः ॥ २४ ॥
« »