Click on words to see what they mean.

अकृतव्रण उवाच ।दुःखद्वयमिदं भद्रे कतरस्य चिकीर्षसि ।प्रतिकर्तव्यमबले तत्त्वं वत्से ब्रवीहि मे ॥ १ ॥
यदि सौभपतिर्भद्रे नियोक्तव्यो मते तव ।नियोक्ष्यति महात्मा तं रामस्त्वद्धितकाम्यया ॥ २ ॥
अथापगेयं भीष्मं तं रामेणेच्छसि धीमता ।रणे विनिर्जितं द्रष्टुं कुर्यात्तदपि भार्गवः ॥ ३ ॥
सृञ्जयस्य वचः श्रुत्वा तव चैव शुचिस्मिते ।यदत्रानन्तरं कार्यं तदद्यैव विचिन्त्यताम् ॥ ४ ॥
अम्बोवाच ।अपनीतास्मि भीष्मेण भगवन्नविजानता ।न हि जानाति मे भीष्मो ब्रह्मञ्शाल्वगतं मनः ॥ ५ ॥
एतद्विचार्य मनसा भवानेव विनिश्चयम् ।विचिनोतु यथान्यायं विधानं क्रियतां तथा ॥ ६ ॥
भीष्मे वा कुरुशार्दूले शाल्वराजेऽथ वा पुनः ।उभयोरेव वा ब्रह्मन्यद्युक्तं तत्समाचर ॥ ७ ॥
निवेदितं मया ह्येतद्दुःखमूलं यथातथम् ।विधानं तत्र भगवन्कर्तुमर्हसि युक्तितः ॥ ८ ॥
अकृतव्रण उवाच ।उपपन्नमिदं भद्रे यदेवं वरवर्णिनि ।धर्मं प्रति वचो ब्रूयाः शृणु चेदं वचो मम ॥ ९ ॥
यदि त्वामापगेयो वै न नयेद्गजसाह्वयम् ।शाल्वस्त्वां शिरसा भीरु गृह्णीयाद्रामचोदितः ॥ १० ॥
तेन त्वं निर्जिता भद्रे यस्मान्नीतासि भामिनि ।संशयः शाल्वराजस्य तेन त्वयि सुमध्यमे ॥ ११ ॥
भीष्मः पुरुषमानी च जितकाशी तथैव च ।तस्मात्प्रतिक्रिया युक्ता भीष्मे कारयितुं त्वया ॥ १२ ॥
अम्बोवाच ।ममाप्येष महान्ब्रह्मन्हृदि कामोऽभिवर्तते ।घातयेयं यदि रणे भीष्ममित्येव नित्यदा ॥ १३ ॥
भीष्मं वा शाल्वराजं वा यं वा दोषेण गच्छसि ।प्रशाधि तं महाबाहो यत्कृतेऽहं सुदुःखिता ॥ १४ ॥
भीष्म उवाच ।एवं कथयतामेव तेषां स दिवसो गतः ।रात्रिश्च भरतश्रेष्ठ सुखशीतोष्णमारुता ॥ १५ ॥
ततो रामः प्रादुरासीत्प्रज्वलन्निव तेजसा ।शिष्यैः परिवृतो राजञ्जटाचीरधरो मुनिः ॥ १६ ॥
धनुष्पाणिरदीनात्मा खड्गं बिभ्रत्परश्वधी ।विरजा राजशार्दूल सोऽभ्ययात्सृञ्जयं नृपम् ॥ १७ ॥
ततस्तं तापसा दृष्ट्वा स च राजा महातपाः ।तस्थुः प्राञ्जलयः सर्वे सा च कन्या तपस्विनी ॥ १८ ॥
पूजयामासुरव्यग्रा मधुपर्केण भार्गवम् ।अर्चितश्च यथायोगं निषसाद सहैव तैः ॥ १९ ॥
ततः पूर्वव्यतीतानि कथयेते स्म तावुभौ ।सृञ्जयश्च स राजर्षिर्जामदग्न्यश्च भारत ॥ २० ॥
ततः कथान्ते राजर्षिर्भृगुश्रेष्ठं महाबलम् ।उवाच मधुरं काले रामं वचनमर्थवत् ॥ २१ ॥
रामेयं मम दौहित्री काशिराजसुता प्रभो ।अस्याः शृणु यथातत्त्वं कार्यं कार्यविशारद ॥ २२ ॥
परमं कथ्यतां चेति तां रामः प्रत्यभाषत ।ततः साभ्यगमद्रामं ज्वलन्तमिव पावकम् ॥ २३ ॥
सा चाभिवाद्य चरणौ रामस्य शिरसा शुभा ।स्पृष्ट्वा पद्मदलाभाभ्यां पाणिभ्यामग्रतः स्थिता ॥ २४ ॥
रुरोद सा शोकवती बाष्पव्याकुललोचना ।प्रपेदे शरणं चैव शरण्यं भृगुनन्दनम् ॥ २५ ॥
राम उवाच ।यथासि सृञ्जयस्यास्य तथा मम नृपात्मजे ।ब्रूहि यत्ते मनोदुःखं करिष्ये वचनं तव ॥ २६ ॥
अम्बोवाच ।भगवञ्शरणं त्वाद्य प्रपन्नास्मि महाव्रत ।शोकपङ्कार्णवाद्घोरादुद्धरस्व च मां विभो ॥ २७ ॥
भीष्म उवाच ।तस्याश्च दृष्ट्वा रूपं च वयश्चाभिनवं पुनः ।सौकुमार्यं परं चैव रामश्चिन्तापरोऽभवत् ॥ २८ ॥
किमियं वक्ष्यतीत्येवं विमृशन्भृगुसत्तमः ।इति दध्यौ चिरं रामः कृपयाभिपरिप्लुतः ॥ २९ ॥
कथ्यतामिति सा भूयो रामेणोक्ता शुचिस्मिता ।सर्वमेव यथातत्त्वं कथयामास भार्गवे ॥ ३० ॥
तच्छ्रुत्वा जामदग्न्यस्तु राजपुत्र्या वचस्तदा ।उवाच तां वरारोहां निश्चित्यार्थविनिश्चयम् ॥ ३१ ॥
प्रेषयिष्यामि भीष्माय कुरुश्रेष्ठाय भामिनि ।करिष्यति वचो धर्म्यं श्रुत्वा मे स नराधिपः ॥ ३२ ॥
न चेत्करिष्यति वचो मयोक्तं जाह्नवीसुतः ।धक्ष्याम्येनं रणे भद्रे सामात्यं शस्त्रतेजसा ॥ ३३ ॥
अथ वा ते मतिस्तत्र राजपुत्रि निवर्तते ।तावच्छाल्वपतिं वीरं योजयाम्यत्र कर्मणि ॥ ३४ ॥
अम्बोवाच ।विसर्जितास्मि भीष्मेण श्रुत्वैव भृगुनन्दन ।शाल्वराजगतं चेतो मम पूर्वं मनीषितम् ॥ ३५ ॥
सौभराजमुपेत्याहमब्रुवं दुर्वचं वचः ।न च मां प्रत्यगृह्णात्स चारित्रपरिशङ्कितः ॥ ३६ ॥
एतत्सर्वं विनिश्चित्य स्वबुद्ध्या भृगुनन्दन ।यदत्रौपयिकं कार्यं तच्चिन्तयितुमर्हसि ॥ ३७ ॥
ममात्र व्यसनस्यास्य भीष्मो मूलं महाव्रतः ।येनाहं वशमानीता समुत्क्षिप्य बलात्तदा ॥ ३८ ॥
भीष्मं जहि महाबाहो यत्कृते दुःखमीदृशम् ।प्राप्ताहं भृगुशार्दूल चराम्यप्रियमुत्तमम् ॥ ३९ ॥
स हि लुब्धश्च मानी च जितकाशी च भार्गव ।तस्मात्प्रतिक्रिया कर्तुं युक्ता तस्मै त्वयानघ ॥ ४० ॥
एष मे ह्रियमाणाया भारतेन तदा विभो ।अभवद्धृदि संकल्पो घातयेयं महाव्रतम् ॥ ४१ ॥
तस्मात्कामं ममाद्येमं राम संवर्तयानघ ।जहि भीष्मं महाबाहो यथा वृत्रं पुरंदरः ॥ ४२ ॥
« »