Click on words to see what they mean.

होत्रवाहन उवाच ।रामं द्रक्ष्यसि वत्से त्वं जामदग्न्यं महावने ।उग्रे तपसि वर्तन्तं सत्यसंधं महाबलम् ॥ १ ॥
महेन्द्रे वै गिरिश्रेष्ठे रामं नित्यमुपासते ।ऋषयो वेदविदुषो गन्धर्वाप्सरसस्तथा ॥ २ ॥
तत्र गच्छस्व भद्रं ते ब्रूयाश्चैनं वचो मम ।अभिवाद्य पूर्वं शिरसा तपोवृद्धं दृढव्रतम् ॥ ३ ॥
ब्रूयाश्चैनं पुनर्भद्रे यत्ते कार्यं मनीषितम् ।मयि संकीर्तिते रामः सर्वं तत्ते करिष्यति ॥ ४ ॥
मम रामः सखा वत्से प्रीतियुक्तः सुहृच्च मे ।जमदग्निसुतो वीरः सर्वशस्त्रभृतां वरः ॥ ५ ॥
एवं ब्रुवति कन्यां तु पार्थिवे होत्रवाहने ।अकृतव्रणः प्रादुरासीद्रामस्यानुचरः प्रियः ॥ ६ ॥
ततस्ते मुनयः सर्वे समुत्तस्थुः सहस्रशः ।स च राजा वयोवृद्धः सृञ्जयो होत्रवाहनः ॥ ७ ॥
ततः पृष्ट्वा यथान्यायमन्योन्यं ते वनौकसः ।सहिता भरतश्रेष्ठ निषेदुः परिवार्य तम् ॥ ८ ॥
ततस्ते कथयामासुः कथास्तास्ता मनोरमाः ।कान्ता दिव्याश्च राजेन्द्र प्रीतिहर्षमुदा युताः ॥ ९ ॥
ततः कथान्ते राजर्षिर्महात्मा होत्रवाहनः ।रामं श्रेष्ठं महर्षीणामपृच्छदकृतव्रणम् ॥ १० ॥
क्व संप्रति महाबाहो जामदग्न्यः प्रतापवान् ।अकृतव्रण शक्यो वै द्रष्टुं वेदविदां वरः ॥ ११ ॥
अकृतव्रण उवाच ।भवन्तमेव सततं रामः कीर्तयति प्रभो ।सृञ्जयो मे प्रियसखो राजर्षिरिति पार्थिव ॥ १२ ॥
इह रामः प्रभाते श्वो भवितेति मतिर्मम ।द्रष्टास्येनमिहायान्तं तव दर्शनकाङ्क्षया ॥ १३ ॥
इयं च कन्या राजर्षे किमर्थं वनमागता ।कस्य चेयं तव च का भवतीच्छामि वेदितुम् ॥ १४ ॥
होत्रवाहन उवाच ।दौहित्रीयं मम विभो काशिराजसुता शुभा ।ज्येष्ठा स्वयंवरे तस्थौ भगिनीभ्यां सहानघ ॥ १५ ॥
इयमम्बेति विख्याता ज्येष्ठा काशिपतेः सुता ।अम्बिकाम्बालिके त्वन्ये यवीयस्यौ तपोधन ॥ १६ ॥
समेतं पार्थिवं क्षत्रं काशिपुर्यां ततोऽभवत् ।कन्यानिमित्तं ब्रह्मर्षे तत्रासीदुत्सवो महान् ॥ १७ ॥
ततः किल महावीर्यो भीष्मः शांतनवो नृपान् ।अवाक्षिप्य महातेजास्तिस्रः कन्या जहार ताः ॥ १८ ॥
निर्जित्य पृथिवीपालानथ भीष्मो गजाह्वयम् ।आजगाम विशुद्धात्मा कन्याभिः सह भारत ॥ १९ ॥
सत्यवत्यै निवेद्याथ विवाहार्थमनन्तरम् ।भ्रातुर्विचित्रवीर्यस्य समाज्ञापयत प्रभुः ॥ २० ॥
ततो वैवाहिकं दृष्ट्वा कन्येयं समुपार्जितम् ।अब्रवीत्तत्र गाङ्गेयं मन्त्रिमध्ये द्विजर्षभ ॥ २१ ॥
मया शाल्वपतिर्वीर मनसाभिवृतः पतिः ।न मामर्हसि धर्मज्ञ परचित्तां प्रदापितुम् ॥ २२ ॥
तच्छ्रुत्वा वचनं भीष्मः संमन्त्र्य सह मन्त्रिभिः ।निश्चित्य विससर्जेमां सत्यवत्या मते स्थितः ॥ २३ ॥
अनुज्ञाता तु भीष्मेण शाल्वं सौभपतिं ततः ।कन्येयं मुदिता विप्र काले वचनमब्रवीत् ॥ २४ ॥
विसर्जितास्मि भीष्मेण धर्मं मां प्रतिपादय ।मनसाभिवृतः पूर्वं मया त्वं पार्थिवर्षभ ॥ २५ ॥
प्रत्याचख्यौ च शाल्वोऽपि चारित्रस्याभिशङ्कितः ।सेयं तपोवनं प्राप्ता तापस्येऽभिरता भृशम् ॥ २६ ॥
मया च प्रत्यभिज्ञाता वंशस्य परिकीर्तनात् ।अस्य दुःखस्य चोत्पत्तिं भीष्ममेवेह मन्यते ॥ २७ ॥
अम्बोवाच ।भगवन्नेवमेवैतद्यथाह पृथिवीपतिः ।शरीरकर्ता मातुर्मे सृञ्जयो होत्रवाहनः ॥ २८ ॥
न ह्युत्सहे स्वनगरं प्रतियातुं तपोधन ।अवमानभयाच्चैव व्रीडया च महामुने ॥ २९ ॥
यत्तु मां भगवान्रामो वक्ष्यति द्विजसत्तम ।तन्मे कार्यतमं कार्यमिति मे भगवन्मतिः ॥ ३० ॥
« »