Click on words to see what they mean.

दुर्योधन उवाच ।किमर्थं भरतश्रेष्ठ न हन्यास्त्वं शिखण्डिनम् ।उद्यतेषुमथो दृष्ट्वा समरेष्वाततायिनम् ॥ १ ॥
पूर्वमुक्त्वा महाबाहो पाण्डवान्सह सोमकैः ।वधिष्यामीति गाङ्गेय तन्मे ब्रूहि पितामह ॥ २ ॥
भीष्म उवाच ।शृणु दुर्योधन कथां सहैभिर्वसुधाधिपैः ।यदर्थं युधि संप्रेक्ष्य नाहं हन्यां शिखण्डिनम् ॥ ३ ॥
महाराजो मम पिता शंतनुर्भरतर्षभः ।दिष्टान्तं प्राप धर्मात्मा समये पुरुषर्षभ ॥ ४ ॥
ततोऽहं भरतश्रेष्ठ प्रतिज्ञां परिपालयन् ।चित्राङ्गदं भ्रातरं वै महाराज्येऽभ्यषेचयम् ॥ ५ ॥
तस्मिंश्च निधनं प्राप्ते सत्यवत्या मते स्थितः ।विचित्रवीर्यं राजानमभ्यषिञ्चं यथाविधि ॥ ६ ॥
मयाभिषिक्तो राजेन्द्र यवीयानपि धर्मतः ।विचित्रवीर्यो धर्मात्मा मामेव समुदैक्षत ॥ ७ ॥
तस्य दारक्रियां तात चिकीर्षुरहमप्युत ।अनुरूपादिव कुलादिति चिन्त्य मनो दधे ॥ ८ ॥
तथाश्रौषं महाबाहो तिस्रः कन्याः स्वयंवरे ।रूपेणाप्रतिमाः सर्वाः काशिराजसुतास्तदा ।अम्बा चैवाम्बिका चैव तथैवाम्बालिकापरा ॥ ९ ॥
राजानश्च समाहूताः पृथिव्यां भरतर्षभ ।अम्बा ज्येष्ठाभवत्तासामम्बिका त्वथ मध्यमा ।अम्बालिका च राजेन्द्र राजकन्या यवीयसी ॥ १० ॥
सोऽहमेकरथेनैव गतः काशिपतेः पुरीम् ।अपश्यं ता महाबाहो तिस्रः कन्याः स्वलंकृताः ।राज्ञश्चैव समावृत्तान्पार्थिवान्पृथिवीपते ॥ ११ ॥
ततोऽहं तान्नृपान्सर्वानाहूय समरे स्थितान् ।रथमारोपयां चक्रे कन्यास्ता भरतर्षभ ॥ १२ ॥
वीर्यशुल्काश्च ता ज्ञात्वा समारोप्य रथं तदा ।अवोचं पार्थिवान्सर्वानहं तत्र समागतान् ।भीष्मः शांतनवः कन्या हरतीति पुनः पुनः ॥ १३ ॥
ते यतध्वं परं शक्त्या सर्वे मोक्षाय पार्थिवाः ।प्रसह्य हि नयाम्येष मिषतां वो नराधिपाः ॥ १४ ॥
ततस्ते पृथिवीपालाः समुत्पेतुरुदायुधाः ।योगो योग इति क्रुद्धाः सारथींश्चाप्यचोदयन् ॥ १५ ॥
ते रथैर्मेघसंकाशैर्गजैश्च गजयोधिनः ।पृष्ठ्यैश्चाश्वैर्महीपालाः समुत्पेतुरुदायुधाः ॥ १६ ॥
ततस्ते मां महीपालाः सर्व एव विशां पते ।रथव्रातेन महता सर्वतः पर्यवारयन् ॥ १७ ॥
तानहं शरवर्षेण महता प्रत्यवारयम् ।सर्वान्नृपांश्चाप्यजयं देवराडिव दानवान् ॥ १८ ॥
तेषामापततां चित्रान्ध्वजान्हेमपरिष्कृतान् ।एकैकेन हि बाणेन भूमौ पातितवानहम् ॥ १९ ॥
हयांश्चैषां गजांश्चैव सारथींश्चाप्यहं रणे ।अपातयं शरैर्दीप्तैः प्रहसन्पुरुषर्षभ ॥ २० ॥
ते निवृत्ताश्च भग्नाश्च दृष्ट्वा तल्लाघवं मम ।अथाहं हास्तिनपुरमायां जित्वा महीक्षितः ॥ २१ ॥
अतोऽहं ताश्च कन्या वै भ्रातुरर्थाय भारत ।तच्च कर्म महाबाहो सत्यवत्यै न्यवेदयम् ॥ २२ ॥
« »