Click on words to see what they mean.

भीष्म उवाच ।पाञ्चालराजस्य सुतो राजन्परपुरंजयः ।शिखण्डी रथमुख्यो मे मतः पार्थस्य भारत ॥ १ ॥
एष योत्स्यति संग्रामे नाशयन्पूर्वसंस्थितिम् ।परं यशो विप्रथयंस्तव सेनासु भारत ॥ २ ॥
एतस्य बहुलाः सेनाः पाञ्चालाश्च प्रभद्रकाः ।तेनासौ रथवंशेन महत्कर्म करिष्यति ॥ ३ ॥
धृष्टद्युम्नश्च सेनानीः सर्वसेनासु भारत ।मतो मेऽतिरथो राजन्द्रोणशिष्यो महारथः ॥ ४ ॥
एष योत्स्यति संग्रामे सूदयन्वै परान्रणे ।भगवानिव संक्रुद्धः पिनाकी युगसंक्षये ॥ ५ ॥
एतस्य तद्रथानीकं कथयन्ति रणप्रियाः ।बहुत्वात्सागरप्रख्यं देवानामिव संयुगे ॥ ६ ॥
क्षत्रधर्मा तु राजेन्द्र मतो मेऽर्धरथो नृप ।धृष्टद्युम्नस्य तनयो बाल्यान्नातिकृतश्रमः ॥ ७ ॥
शिशुपालसुतो वीरश्चेदिराजो महारथः ।धृष्टकेतुर्महेष्वासः संबन्धी पाण्डवस्य ह ॥ ८ ॥
एष चेदिपतिः शूरः सह पुत्रेण भारत ।महारथेनासुकरं महत्कर्म करिष्यति ॥ ९ ॥
क्षत्रधर्मरतो मह्यं मतः परपुरंजयः ।क्षत्रदेवस्तु राजेन्द्र पाण्डवेषु रथोत्तमः ।जयन्तश्चामितौजाश्च सत्यजिच्च महारथः ॥ १० ॥
महारथा महात्मानः सर्वे पाञ्चालसत्तमाः ।योत्स्यन्ते समरे तात संरब्धा इव कुञ्जराः ॥ ११ ॥
अजो भोजश्च विक्रान्तौ पाण्डवेषु महारथौ ।पाण्डवानां सहायार्थे परं शक्त्या यतिष्यतः ।शीघ्रास्त्रौ चित्रयोद्धारौ कृतिनौ दृढविक्रमौ ॥ १२ ॥
केकयाः पञ्च राजेन्द्र भ्रातरो युद्धदुर्मदाः ।सर्व एते रथोदाराः सर्वे लोहितकध्वजाः ॥ १३ ॥
काशिकः सुकुमारश्च नीलो यश्चापरो नृपः ।सूर्यदत्तश्च शङ्खश्च मदिराश्वश्च नामतः ॥ १४ ॥
सर्व एते रथोदाराः सर्वे चाहवलक्षणाः ।सर्वास्त्रविदुषः सर्वे महात्मानो मता मम ॥ १५ ॥
वार्धक्षेमिर्महाराज रथो मम महान्मतः ।चित्रायुधश्च नृपतिर्मतो मे रथसत्तमः ।स हि संग्रामशोभी च भक्तश्चापि किरीटिनः ॥ १६ ॥
चेकितानः सत्यधृतिः पाण्डवानां महारथौ ।द्वाविमौ पुरुषव्याघ्रौ रथोदारौ मतौ मम ॥ १७ ॥
व्याघ्रदत्तश्च राजेन्द्र चन्द्रसेनश्च भारत ।मतौ मम रथोदारौ पाण्डवानां न संशयः ॥ १८ ॥
सेनाबिन्दुश्च राजेन्द्र क्रोधहन्ता च नामतः ।यः समो वासुदेवेन भीमसेनेन चाभिभूः ।स योत्स्यतीह विक्रम्य समरे तव सैनिकैः ॥ १९ ॥
मां द्रोणं च कृपं चैव यथा संमन्यते भवान् ।तथा स समरश्लाघी मन्तव्यो रथसत्तमः ॥ २० ॥
काश्यः परमशीघ्रास्त्रः श्लाघनीयो रथोत्तमः ।रथ एकगुणो मह्यं मतः परपुरंजयः ॥ २१ ॥
अयं च युधि विक्रान्तो मन्तव्योऽष्टगुणो रथः ।सत्यजित्समरश्लाघी द्रुपदस्यात्मजो युवा ॥ २२ ॥
गतः सोऽतिरथत्वं हि धृष्टद्युम्नेन संमितः ।पाण्डवानां यशस्कामः परं कर्म करिष्यति ॥ २३ ॥
अनुरक्तश्च शूरश्च रथोऽयमपरो महान् ।पाण्ड्यराजो महावीर्यः पाण्डवानां धुरंधरः ॥ २४ ॥
दृढधन्वा महेष्वासः पाण्डवानां रथोत्तमः ।श्रेणिमान्कौरवश्रेष्ठ वसुदानश्च पार्थिवः ।उभावेतावतिरथौ मतौ मम परंतप ॥ २५ ॥
« »