Click on words to see what they mean.

भीष्म उवाच ।शकुनिर्मातुलस्तेऽसौ रथ एको नराधिप ।प्रसज्य पाण्डवैर्वैरं योत्स्यते नात्र संशयः ॥ १ ॥
एतस्य सैन्या दुर्धर्षाः समरेऽप्रतियायिनः ।विकृतायुधभूयिष्ठा वायुवेगसमा जवे ॥ २ ॥
द्रोणपुत्रो महेष्वासः सर्वेषामति धन्विनाम् ।समरे चित्रयोधी च दृढास्त्रश्च महारथः ॥ ३ ॥
एतस्य हि महाराज यथा गाण्डीवधन्वनः ।शरासनाद्विनिर्मुक्ताः संसक्ता यान्ति सायकाः ॥ ४ ॥
नैष शक्यो मया वीरः संख्यातुं रथसत्तमः ।निर्दहेदपि लोकांस्त्रीनिच्छन्नेष महायशाः ॥ ५ ॥
क्रोधस्तेजश्च तपसा संभृतोऽऽश्रमवासिना ।द्रोणेनानुगृहीतश्च दिव्यैरस्त्रैरुदारधीः ॥ ६ ॥
दोषस्त्वस्य महानेको येनैष भरतर्षभ ।न मे रथो नातिरथो मतः पार्थिवसत्तम ॥ ७ ॥
जीवितं प्रियमत्यर्थमायुष्कामः सदा द्विजः ।न ह्यस्य सदृशः कश्चिदुभयोः सेनयोरपि ॥ ८ ॥
हन्यादेकरथेनैव देवानामपि वाहिनीम् ।वपुष्मांस्तलघोषेण स्फोटयेदपि पर्वतान् ॥ ९ ॥
असंख्येयगुणो वीरः प्रहर्ता दारुणद्युतिः ।दण्डपाणिरिवासह्यः कालवत्प्रचरिष्यति ॥ १० ॥
युगान्ताग्निसमः क्रोधे सिंहग्रीवो महामतिः ।एष भारत युद्धस्य पृष्ठं संशमयिष्यति ॥ ११ ॥
पिता त्वस्य महातेजा वृद्धोऽपि युवभिर्वरः ।रणे कर्म महत्कर्ता तत्र मे नास्ति संशयः ॥ १२ ॥
अस्त्रवेगानिलोद्धूतः सेनाकक्षेन्धनोत्थितः ।पाण्डुपुत्रस्य सैन्यानि प्रधक्ष्यति जये धृतः ॥ १३ ॥
रथयूथपयूथानां यूथपः स नरर्षभः ।भारद्वाजात्मजः कर्ता कर्म तीव्रं हिताय वः ॥ १४ ॥
सर्वमूर्धाभिषिक्तानामाचार्यः स्थविरो गुरुः ।गच्छेदन्तं सृञ्जयानां प्रियस्त्वस्य धनंजयः ॥ १५ ॥
नैष जातु महेष्वासः पार्थमक्लिष्टकारिणम् ।हन्यादाचार्यकं दीप्तं संस्मृत्य गुणनिर्जितम् ॥ १६ ॥
श्लाघत्येष सदा वीरः पार्थस्य गुणविस्तरैः ।पुत्रादभ्यधिकं चैव भारद्वाजोऽनुपश्यति ॥ १७ ॥
हन्यादेकरथेनैव देवगन्धर्वदानवान् ।एकीभूतानपि रणे दिव्यैरस्त्रैः प्रतापवान् ॥ १८ ॥
पौरवो राजशार्दूलस्तव राजन्महारथः ।मतो मम रथो वीर परवीररथारुजः ॥ १९ ॥
स्वेन सैन्येन सहितः प्रतपञ्शत्रुवाहिनीम् ।प्रधक्ष्यति स पाञ्चालान्कक्षं कृष्णगतिर्यथा ॥ २० ॥
सत्यव्रतो रथवरो राजपुत्रो महारथः ।तव राजन्रिपुबले कालवत्प्रचरिष्यति ॥ २१ ॥
एतस्य योधा राजेन्द्र विचित्रकवचायुधाः ।विचरिष्यन्ति संग्रामे निघ्नन्तः शात्रवांस्तव ॥ २२ ॥
वृषसेनो रथाग्र्यस्ते कर्णपुत्रो महारथः ।प्रधक्ष्यति रिपूणां ते बलानि बलिनां वरः ॥ २३ ॥
जलसंधो महातेजा राजन्रथवरस्तव ।त्यक्ष्यते समरे प्राणान्मागधः परवीरहा ॥ २४ ॥
एष योत्स्यति संग्रामे गजस्कन्धविशारदः ।रथेन वा महाबाहुः क्षपयञ्शत्रुवाहिनीम् ॥ २५ ॥
रथ एष महाराज मतो मम नरर्षभः ।त्वदर्थे त्यक्ष्यति प्राणान्सह सैन्यो महारणे ॥ २६ ॥
एष विक्रान्तयोधी च चित्रयोधी च संगरे ।वीतभीश्चापि ते राजञ्शात्रवैः सह योत्स्यते ॥ २७ ॥
बाह्लीकोऽतिरथश्चैव समरे चानिवर्तिता ।मम राजन्मतो युद्धे शूरो वैवस्वतोपमः ॥ २८ ॥
न ह्येष समरं प्राप्य निवर्तेत कथंचन ।यथा सततगो राजन्नाभिहत्य परान्रणे ॥ २९ ॥
सेनापतिर्महाराज सत्यवांस्ते महारथः ।रणेष्वद्भुतकर्मा च रथः पररथारुजः ॥ ३० ॥
एतस्य समरं दृष्ट्वा न व्यथास्ति कथंचन ।उत्स्मयन्नभ्युपैत्येष परान्रथपथे स्थितान् ॥ ३१ ॥
एष चारिषु विक्रान्तः कर्म सत्पुरुषोचितम् ।कर्ता विमर्दे सुमहत्त्वदर्थे पुरुषोत्तमः ॥ ३२ ॥
अलायुधो राक्षसेन्द्रः क्रूरकर्मा महाबलः ।हनिष्यति परान्राजन्पूर्ववैरमनुस्मरन् ॥ ३३ ॥
एष राक्षससैन्यानां सर्वेषां रथसत्तमः ।मायावी दृढवैरश्च समरे विचरिष्यति ॥ ३४ ॥
प्राग्ज्योतिषाधिपो वीरो भगदत्तः प्रतापवान् ।गजाङ्कुशधरश्रेष्ठो रथे चैव विशारदः ॥ ३५ ॥
एतेन युद्धमभवत्पुरा गाण्डीवधन्वनः ।दिवसान्सुबहून्राजन्नुभयोर्जयगृद्धिनोः ॥ ३६ ॥
ततः सखायं गान्धारे मानयन्पाकशासनम् ।अकरोत्संविदं तेन पाण्डवेन महात्मना ॥ ३७ ॥
एष योत्स्यति संग्रामे गजस्कन्धविशारदः ।ऐरावतगतो राजा देवानामिव वासवः ॥ ३८ ॥
« »