Click on words to see what they mean.

धृतराष्ट्र उवाच ।प्रतिज्ञाते फल्गुनेन वधे भीष्मस्य संजय ।किमकुर्वन्त मे मन्दाः पुत्रा दुर्योधनादयः ॥ १ ॥
हतमेव हि पश्यामि गाङ्गेयं पितरं रणे ।वासुदेवसहायेन पार्थेन दृढधन्वना ॥ २ ॥
स चापरिमितप्रज्ञस्तच्छ्रुत्वा पार्थभाषितम् ।किमुक्तवान्महेष्वासो भीष्मः प्रहरतां वरः ॥ ३ ॥
सेनापत्यं च संप्राप्य कौरवाणां धुरंधरः ।किमचेष्टत गाङ्गेयो महाबुद्धिपराक्रमः ॥ ४ ॥
वैशंपायन उवाच ।ततस्तत्संजयस्तस्मै सर्वमेव न्यवेदयत् ।यथोक्तं कुरुवृद्धेन भीष्मेणामिततेजसा ॥ ५ ॥
संजय उवाच ।सेनापत्यमनुप्राप्य भीष्मः शांतनवो नृप ।दुर्योधनमुवाचेदं वचनं हर्षयन्निव ॥ ६ ॥
नमस्कृत्वा कुमाराय सेनान्ये शक्तिपाणये ।अहं सेनापतिस्तेऽद्य भविष्यामि न संशयः ॥ ७ ॥
सेनाकर्मण्यभिज्ञोऽस्मि व्यूहेषु विविधेषु च ।कर्म कारयितुं चैव भृतानप्यभृतांस्तथा ॥ ८ ॥
यात्रायानेषु युद्धेषु लब्धप्रशमनेषु च ।भृशं वेद महाराज यथा वेद बृहस्पतिः ॥ ९ ॥
व्यूहानपि महारम्भान्दैवगान्धर्वमानुषान् ।तैरहं मोहयिष्यामि पाण्डवान्व्येतु ते ज्वरः ॥ १० ॥
सोऽहं योत्स्यामि तत्त्वेन पालयंस्तव वाहिनीम् ।यथावच्छास्त्रतो राजन्व्येतु ते मानसो ज्वरः ॥ ११ ॥
दुर्योधन उवाच ।न विद्यते मे गाङ्गेय भयं देवासुरेष्वपि ।समस्तेषु महाबाहो सत्यमेतद्ब्रवीमि ते ॥ १२ ॥
किं पुनस्त्वयि दुर्धर्षे सेनापत्ये व्यवस्थिते ।द्रोणे च पुरुषव्याघ्रे स्थिते युद्धाभिनन्दिनि ॥ १३ ॥
भवद्भ्यां पुरुषाग्र्याभ्यां स्थिताभ्यां विजयो मम ।न दुर्लभं कुरुश्रेष्ठ देवराज्यमपि ध्रुवम् ॥ १४ ॥
रथसंख्यां तु कार्त्स्न्येन परेषामात्मनस्तथा ।तथैवातिरथानां च वेत्तुमिच्छामि कौरव ॥ १५ ॥
पितामहो हि कुशलः परेषामात्मनस्तथा ।श्रोतुमिच्छाम्यहं सर्वैः सहैभिर्वसुधाधिपैः ॥ १६ ॥
भीष्म उवाच ।गान्धारे शृणु राजेन्द्र रथसंख्यां स्वके बले ।ये रथाः पृथिवीपाल तथैवातिरथाश्च ये ॥ १७ ॥
बहूनीह सहस्राणि प्रयुतान्यर्बुदानि च ।रथानां तव सेनायां यथामुख्यं तु मे शृणु ॥ १८ ॥
भवानग्रे रथोदारः सह सर्वैः सहोदरैः ।दुःशासनप्रभृतिभिर्भ्रातृभिः शतसंमितैः ॥ १९ ॥
सर्वे कृतप्रहरणाश्छेद्यभेद्यविशारदाः ।रथोपस्थे गजस्कन्धे गदायुद्धेऽसिचर्मणि ॥ २० ॥
संयन्तारः प्रहर्तारः कृतास्त्रा भारसाधनाः ।इष्वस्त्रे द्रोणशिष्याश्च कृपस्य च शरद्वतः ॥ २१ ॥
एते हनिष्यन्ति रणे पाञ्चालान्युद्धदुर्मदान् ।कृतकिल्बिषाः पाण्डवेयैर्धार्तराष्ट्रा मनस्विनः ॥ २२ ॥
ततोऽहं भरतश्रेष्ठ सर्वसेनापतिस्तव ।शत्रून्विध्वंसयिष्यामि कदर्थीकृत्य पाण्डवान् ।न त्वात्मनो गुणान्वक्तुमर्हामि विदितोऽस्मि ते ॥ २३ ॥
कृतवर्मा त्वतिरथो भोजः प्रहरतां वरः ।अर्थसिद्धिं तव रणे करिष्यति न संशयः ॥ २४ ॥
अस्त्रविद्भिरनाधृष्यो दूरपाती दृढायुधः ।हनिष्यति रिपूंस्तुभ्यं महेन्द्रो दानवानिव ॥ २५ ॥
मद्रराजो महेष्वासः शल्यो मेऽतिरथो मतः ।स्पर्धते वासुदेवेन यो वै नित्यं रणे रणे ॥ २६ ॥
भागिनेयान्निजांस्त्यक्त्वा शल्यस्ते रथसत्तमः ।एष योत्स्यति संग्रामे कृष्णं चक्रगदाधरम् ॥ २७ ॥
सागरोर्मिसमैर्वेगैः प्लावयन्निव शात्रवान् ।भूरिश्रवाः कृतास्त्रश्च तव चापि हितः सुहृत् ॥ २८ ॥
सौमदत्तिर्महेष्वासो रथयूथपयूथपः ।बलक्षयममित्राणां सुमहान्तं करिष्यति ॥ २९ ॥
सिन्धुराजो महाराज मतो मे द्विगुणो रथः ।योत्स्यते समरे राजन्विक्रान्तो रथसत्तमः ॥ ३० ॥
द्रौपदीहरणे पूर्वं परिक्लिष्टः स पाण्डवैः ।संस्मरंस्तं परिक्लेशं योत्स्यते परवीरहा ॥ ३१ ॥
एतेन हि तदा राजंस्तप आस्थाय दारुणम् ।सुदुर्लभो वरो लब्धः पाण्डवान्योद्धुमाहवे ॥ ३२ ॥
स एष रथशार्दूलस्तद्वैरं संस्मरन्रणे ।योत्स्यते पाण्डवांस्तात प्राणांस्त्यक्त्वा सुदुस्त्यजान् ॥ ३३ ॥
« »