Click on words to see what they mean.

संजय उवाच ।दुर्योधनस्य तद्वाक्यं निशम्य भरतर्षभः ।नेत्राभ्यामतिताम्राभ्यां कैतव्यं समुदैक्षत ॥ १ ॥
स केशवमभिप्रेक्ष्य गुडाकेशो महायशाः ।अभ्यभाषत कैतव्यं प्रगृह्य विपुलं भुजम् ॥ २ ॥
स्ववीर्यं यः समाश्रित्य समाह्वयति वै परान् ।अभीतः पूरयञ्शक्तिं स वै पुरुष उच्यते ॥ ३ ॥
परवीर्यं समाश्रित्य यः समाह्वयते परान् ।क्षत्रबन्धुरशक्तत्वाल्लोके स पुरुषाधमः ॥ ४ ॥
स त्वं परेषां वीर्येण मन्यसे वीर्यमात्मनः ।स्वयं कापुरुषो मूढः परांश्च क्षेप्तुमिच्छसि ॥ ५ ॥
यस्त्वं वृद्धं सर्वराज्ञां हितबुद्धिं जितेन्द्रियम् ।मरणाय महाबुद्धिं दीक्षयित्वा विकत्थसे ॥ ६ ॥
भावस्ते विदितोऽस्माभिर्दुर्बुद्धे कुलपांसन ।न हनिष्यन्ति गङ्गेयं पाण्डवा घृणयेति च ॥ ७ ॥
यस्य वीर्यं समाश्रित्य धार्तराष्ट्र विकत्थसे ।हन्तास्मि प्रथमं भीष्मं मिषतां सर्वधन्विनाम् ॥ ८ ॥
कैतव्य गत्वा भरतान्समेत्य सुयोधनं धार्तराष्ट्रं ब्रवीहि ।तथेत्याह अर्जुनः सव्यसाची निशाव्यपाये भविता विमर्दः ॥ ९ ॥
यद्वोऽब्रवीद्वाक्यमदीनसत्त्वो मध्ये कुरूणां हर्षयन्सत्यसंधः ।अहं हन्ता पाण्डवानामनीकं शाल्वेयकांश्चेति ममैष भारः ॥ १० ॥
हन्यामहं द्रोणमृते हि लोकं न ते भयं विद्यते पाण्डवेभ्यः ।ततो हि ते लब्धतमं च राज्यं क्षयं गताः पाण्डवाश्चेति भावः ॥ ११ ॥
स दर्पपूर्णो न समीक्षसे त्वमनर्थमात्मन्यपि वर्तमानम् ।तस्मादहं ते प्रथमं समूहे हन्ता समक्षं कुरुवृद्धमेव ॥ १२ ॥
सूर्योदये युक्तसेनः प्रतीक्ष्य ध्वजी रथी रक्ष च सत्यसंधम् ।अहं हि वः पश्यतां द्वीपमेनं रथाद्भीष्मं पातयितास्मि बाणैः ॥ १३ ॥
श्वोभूते कत्थनावाक्यं विज्ञास्यति सुयोधनः ।अर्दितं शरजालेन मया दृष्ट्वा पितामहम् ॥ १४ ॥
यदुक्तश्च सभामध्ये पुरुषो ह्रस्वदर्शनः ।क्रुद्धेन भीमसेनेन भ्राता दुःशासनस्तव ॥ १५ ॥
अधर्मज्ञो नित्यवैरी पापबुद्धिर्नृशंसकृत् ।सत्यां प्रतिज्ञां नचिराद्रक्ष्यसे तां सुयोधन ॥ १६ ॥
अभिमानस्य दर्पस्य क्रोधपारुष्ययोस्तथा ।नैष्ठुर्यस्यावलेपस्य आत्मसंभावनस्य च ॥ १७ ॥
नृशंसतायास्तैक्ष्ण्यस्य धर्मविद्वेषणस्य च ।अधर्मस्यातिवादस्य वृद्धातिक्रमणस्य च ॥ १८ ॥
दर्शनस्य च वक्रस्य कृत्स्नस्यापनयस्य च ।द्रक्ष्यसि त्वं फलं तीव्रमचिरेण सुयोधन ॥ १९ ॥
वासुदेवद्वितीये हि मयि क्रुद्धे नराधिप ।आशा ते जीविते मूढ राज्ये वा केन हेतुना ॥ २० ॥
शान्ते भीष्मे तथा द्रोणे सूतपुत्रे च पातिते ।निराशो जीविते राज्ये पुत्रेषु च भविष्यसि ॥ २१ ॥
भ्रातॄणां निधनं दृष्ट्वा पुत्राणां च सुयोधन ।भीमसेनेन निहतो दुष्कृतानि स्मरिष्यसि ॥ २२ ॥
न द्वितीयां प्रतिज्ञां हि प्रतिज्ञास्यति केशवः ।सत्यं ब्रवीम्यहं ह्येतत्सर्वं सत्यं भविष्यति ॥ २३ ॥
इत्युक्तः कैतवो राजंस्तद्वाक्यमुपधार्य च ।अनुज्ञातो निववृते पुनरेव यथागतम् ॥ २४ ॥
उपावृत्य तु पाण्डुभ्यः कैतव्यो धृतराष्ट्रजम् ।गत्वा यथोक्तं तत्सर्वमुवाच कुरुसंसदि ॥ २५ ॥
केशवार्जुनयोर्वाक्यं निशम्य भरतर्षभः ।दुःशासनं च कर्णं च शकुनिं चाभ्यभाषत ॥ २६ ॥
आज्ञापयत राज्ञश्च बलं मित्रबलं तथा ।यथा प्रागुदयात्सर्वा युक्ता तिष्ठत्यनीकिनी ॥ २७ ॥
ततः कर्णसमादिष्टा दूताः प्रत्वरिता रथैः ।उष्ट्रवामीभिरप्यन्ये सदश्वैश्च महाजवैः ॥ २८ ॥
तूर्णं परिययुः सेनां कृत्स्नां कर्णस्य शासनात् ।आज्ञापयन्तो राज्ञस्तान्योगः प्रागुदयादिति ॥ २९ ॥
« »