Click on words to see what they mean.

वैशंपायन उवाच ।वासुदेवस्य तद्वाक्यमनुस्मृत्य युधिष्ठिरः ।पुनः पप्रच्छ वार्ष्णेयं कथं मन्दोऽब्रवीदिदम् ॥ १ ॥
अस्मिन्नभ्यागते काले किं च नः क्षममच्युत ।कथं च वर्तमाना वै स्वधर्मान्न च्यवेमहि ॥ २ ॥
दुर्योधनस्य कर्णस्य शकुनेः सौबलस्य च ।वासुदेव मतज्ञोऽसि मम सभ्रातृकस्य च ॥ ३ ॥
विदुरस्यापि ते वाक्यं श्रुतं भीष्मस्य चोभयोः ।कुन्त्याश्च विपुलप्रज्ञ प्रज्ञा कार्त्स्न्येन ते श्रुता ॥ ४ ॥
सर्वमेतदतिक्रम्य विचार्य च पुनः पुनः ।यन्नः क्षमं महाबाहो तद्ब्रवीह्यविचारयन् ॥ ५ ॥
श्रुत्वैतद्धर्मराजस्य धर्मार्थसहितं वचः ।मेघदुन्दुभिनिर्घोषः कृष्णो वचनमब्रवीत् ॥ ६ ॥
उक्तवानस्मि यद्वाक्यं धर्मार्थसहितं हितम् ।न तु तन्निकृतिप्रज्ञे कौरव्ये प्रतितिष्ठति ॥ ७ ॥
न च भीष्मस्य दुर्मेधाः शृणोति विदुरस्य वा ।मम वा भाषितं किंचित्सर्वमेवातिवर्तते ॥ ८ ॥
न स कामयते धर्मं न स कामयते यशः ।जितं स मन्यते सर्वं दुरात्मा कर्णमाश्रितः ॥ ९ ॥
बन्धमाज्ञापयामास मम चापि सुयोधनः ।न च तं लब्धवान्कामं दुरात्मा शासनातिगः ॥ १० ॥
न च भीष्मो न च द्रोणो युक्तं तत्राहतुर्वचः ।सर्वे तमनुवर्तन्ते ऋते विदुरमच्युत ॥ ११ ॥
शकुनिः सौबलश्चैव कर्णदुःशासनावपि ।त्वय्ययुक्तान्यभाषन्त मूढा मूढममर्षणम् ॥ १२ ॥
किं च तेन मयोक्तेन यान्यभाषन्त कौरवाः ।संक्षेपेण दुरात्मासौ न युक्तं त्वयि वर्तते ॥ १३ ॥
न पार्थिवेषु सर्वेषु य इमे तव सैनिकाः ।यत्पापं यन्न कल्याणं सर्वं तस्मिन्प्रतिष्ठितम् ॥ १४ ॥
न चापि वयमत्यर्थं परित्यागेन कर्हिचित् ।कौरवैः शममिच्छामस्तत्र युद्धमनन्तरम् ॥ १५ ॥
तच्छ्रुत्वा पार्थिवाः सर्वे वासुदेवस्य भाषितम् ।अब्रुवन्तो मुखं राज्ञः समुदैक्षन्त भारत ॥ १६ ॥
युधिष्ठिरस्त्वभिप्रायमुपलभ्य महीक्षिताम् ।योगमाज्ञापयामास भीमार्जुनयमैः सह ॥ १७ ॥
ततः किलकिलाभूतमनीकं पाण्डवस्य ह ।आज्ञापिते तदा योगे समहृष्यन्त सैनिकाः ॥ १८ ॥
अवध्यानां वधं पश्यन्धर्मराजो युधिष्ठिरः ।निष्टनन्भीमसेनं च विजयं चेदमब्रवीत् ॥ १९ ॥
यदर्थं वनवासश्च प्राप्तं दुःखं च यन्मया ।सोऽयमस्मानुपैत्येव परोऽनर्थः प्रयत्नतः ॥ २० ॥
यस्मिन्यत्नः कृतोऽस्माभिः स नो हीनः प्रयत्नतः ।अकृते तु प्रयत्नेऽस्मानुपावृत्तः कलिर्महान् ॥ २१ ॥
कथं ह्यवध्यैः संग्रामः कार्यः सह भविष्यति ।कथं हत्वा गुरून्वृद्धान्विजयो नो भविष्यति ॥ २२ ॥
तच्छ्रुत्वा धर्मराजस्य सव्यसाची परंतपः ।यदुक्तं वासुदेवेन श्रावयामास तद्वचः ॥ २३ ॥
उक्तवान्देवकीपुत्रः कुन्त्याश्च विदुरस्य च ।वचनं तत्त्वया राजन्निखिलेनावधारितम् ॥ २४ ॥
न च तौ वक्ष्यतोऽधर्ममिति मे नैष्ठिकी मतिः ।न चापि युक्तं कौन्तेय निवर्तितुमयुध्यतः ॥ २५ ॥
तच्छ्रुत्वा वासुदेवोऽपि सव्यसाचिवचस्तदा ।स्मयमानोऽब्रवीत्पार्थमेवमेतदिति ब्रुवन् ॥ २६ ॥
ततस्ते धृतसंकल्पा युद्धाय सहसैनिकाः ।पाण्डवेया महाराज तां रात्रिं सुखमावसन् ॥ २७ ॥
« »