Click on words to see what they mean.

वैशंपायन उवाच ।जनार्दनवचः श्रुत्वा धर्मराजो युधिष्ठिरः ।भ्रातॄनुवाच धर्मात्मा समक्षं केशवस्य ह ॥ १ ॥
श्रुतं भवद्भिर्यद्वृत्तं सभायां कुरुसंसदि ।केशवस्यापि यद्वाक्यं तत्सर्वमवधारितम् ॥ २ ॥
तस्मात्सेनाविभागं मे कुरुध्वं नरसत्तमाः ।अक्षौहिण्यस्तु सप्तैताः समेता विजयाय वै ॥ ३ ॥
तासां मे पतयः सप्त विख्यातास्तान्निबोधत ।द्रुपदश्च विराटश्च धृष्टद्युम्नशिखण्डिनौ ॥ ४ ॥
सात्यकिश्चेकितानश्च भीमसेनश्च वीर्यवान् ।एते सेनाप्रणेतारो वीराः सर्वे तनुत्यजः ॥ ५ ॥
सर्वे वेदविदः शूराः सर्वे सुचरितव्रताः ।ह्रीमन्तो नीतिमन्तश्च सर्वे युद्धविशारदाः ।इष्वस्त्रकुशलाश्चैव तथा सर्वास्त्रयोधिनः ॥ ६ ॥
सप्तानामपि यो नेता सेनानां प्रविभागवित् ।यः सहेत रणे भीष्मं शरार्चिःपावकोपमम् ॥ ७ ॥
त्वं तावत्सहदेवात्र प्रब्रूहि कुरुनन्दन ।स्वमतं पुरुषव्याघ्र को नः सेनापतिः क्षमः ॥ ८ ॥
सहदेव उवाच ।संयुक्त एकदुःखश्च वीर्यवांश्च महीपतिः ।यं समाश्रित्य धर्मज्ञं स्वमंशमनुयुञ्ज्महे ॥ ९ ॥
मत्स्यो विराटो बलवान्कृतास्त्रो युद्धदुर्मदः ।प्रसहिष्यति संग्रामे भीष्मं तांश्च महारथान् ॥ १० ॥
वैशंपायन उवाच ।तथोक्ते सहदेवेन वाक्ये वाक्यविशारदः ।नकुलोऽनन्तरं तस्मादिदं वचनमाददे ॥ ११ ॥
वयसा शास्त्रतो धैर्यात्कुलेनाभिजनेन च ।ह्रीमान्कुलान्वितः श्रीमान्सर्वशास्त्रविशारदः ॥ १२ ॥
वेद चास्त्रं भरद्वाजाद्दुर्धर्षः सत्यसंगरः ।यो नित्यं स्पर्धते द्रोणं भीष्मं चैव महाबलम् ॥ १३ ॥
श्लाघ्यः पार्थिवसंघस्य प्रमुखे वाहिनीपतिः ।पुत्रपौत्रैः परिवृतः शतशाख इव द्रुमः ॥ १४ ॥
यस्तताप तपो घोरं सदारः पृथिवीपतिः ।रोषाद्द्रोणविनाशाय वीरः समितिशोभनः ॥ १५ ॥
पितेवास्मान्समाधत्ते यः सदा पार्थिवर्षभः ।श्वशुरो द्रुपदोऽस्माकं सेनामग्रे प्रकर्षतु ॥ १६ ॥
स द्रोणभीष्मावायान्तौ सहेदिति मतिर्मम ।स हि दिव्यास्त्रविद्राजा सखा चाङ्गिरसो नृपः ॥ १७ ॥
माद्रीसुताभ्यामुक्ते तु स्वमते कुरुनन्दनः ।वासविर्वासवसमः सव्यसाच्यब्रवीद्वचः ॥ १८ ॥
योऽयं तपःप्रभावेन ऋषिसंतोषणेन च ।दिव्यः पुरुष उत्पन्नो ज्वालावर्णो महाबलः ॥ १९ ॥
धनुष्मान्कवची खड्गी रथमारुह्य दंशितः ।दिव्यैर्हयवरैर्युक्तमग्निकुण्डात्समुत्थितः ॥ २० ॥
गर्जन्निव महामेघो रथघोषेण वीर्यवान् ।सिंहसंहननो वीरः सिंहविक्रान्तविक्रमः ॥ २१ ॥
सिंहोरस्को महाबाहुः सिंहवक्षा महाबलः ।सिंहप्रगर्जनो वीरः सिंहस्कन्धो महाद्युतिः ॥ २२ ॥
सुभ्रूः सुदंष्ट्रः सुहनुः सुबाहुः सुमुखोऽकृशः ।सुजत्रुः सुविशालाक्षः सुपादः सुप्रतिष्ठितः ॥ २३ ॥
अभेद्यः सर्वशस्त्राणां प्रभिन्न इव वारणः ।जज्ञे द्रोणविनाशाय सत्यवादी जितेन्द्रियः ॥ २४ ॥
धृष्टद्युम्नमहं मन्ये सहेद्भीष्मस्य सायकान् ।वज्राशनिसमस्पर्शान्दीप्तास्यानुरगानिव ॥ २५ ॥
यमदूतसमान्वेगे निपाते पावकोपमान् ।रामेणाजौ विषहितान्वज्रनिष्पेषदारुणान् ॥ २६ ॥
पुरुषं तं न पश्यामि यः सहेत महाव्रतम् ।धृष्टद्युम्नमृते राजन्निति मे धीयते मतिः ॥ २७ ॥
क्षिप्रहस्तश्चित्रयोधी मतः सेनापतिर्मम ।अभेद्यकवचः श्रीमान्मातङ्ग इव यूथपः ॥ २८ ॥
भीम उवाच ।वधार्थं यः समुत्पन्नः शिखण्डी द्रुपदात्मजः ।वदन्ति सिद्धा राजेन्द्र ऋषयश्च समागताः ॥ २९ ॥
यस्य संग्राममध्येषु दिव्यमस्त्रं विकुर्वतः ।रूपं द्रक्ष्यन्ति पुरुषा रामस्येव महात्मनः ॥ ३० ॥
न तं युद्धेषु पश्यामि यो विभिन्द्याच्छिखण्डिनम् ।शस्त्रेण समरे राजन्संनद्धं स्यन्दने स्थितम् ॥ ३१ ॥
द्वैरथे विषहेन्नान्यो भीष्मं राजन्महाव्रतम् ।शिखण्डिनमृते वीरं स मे सेनापतिर्मतः ॥ ३२ ॥
युधिष्ठिर उवाच ।सर्वस्य जगतस्तात सारासारं बलाबलम् ।सर्वं जानाति धर्मात्मा गतमेष्यच्च केशवः ॥ ३३ ॥
यमाह कृष्णो दाशार्हः सोऽस्तु नो वाहिनीपतिः ।कृतास्त्रो ह्यकृतास्त्रो वा वृद्धो वा यदि वा युवा ॥ ३४ ॥
एष नो विजये मूलमेष तात विपर्यये ।अत्र प्राणाश्च राज्यं च भावाभावौ सुखासुखे ॥ ३५ ॥
एष धाता विधाता च सिद्धिरत्र प्रतिष्ठिता ।यमाह कृष्णो दाशार्हः स नः सेनापतिः क्षमः ।ब्रवीतु वदतां श्रेष्ठो निशा समतिवर्तते ॥ ३६ ॥
ततः सेनापतिं कृत्वा कृष्णस्य वशवर्तिनम् ।रात्रिशेषे व्यतिक्रान्ते प्रयास्यामो रणाजिरम् ।अधिवासितशस्त्राश्च कृतकौतुकमङ्गलाः ॥ ३७ ॥
वैशंपायन उवाच ।तस्य तद्वचनं श्रुत्वा धर्मराजस्य धीमतः ।अब्रवीत्पुण्डरीकाक्षो धनंजयमवेक्ष्य ह ॥ ३८ ॥
ममाप्येते महाराज भवद्भिर्य उदाहृताः ।नेतारस्तव सेनायाः शूरा विक्रान्तयोधिनः ।सर्व एते समर्था हि तव शत्रून्प्रमर्दितुम् ॥ ३९ ॥
इन्द्रस्यापि भयं ह्येते जनयेयुर्महाहवे ।किं पुनर्धार्तराष्ट्राणां लुब्धानां पापचेतसाम् ॥ ४० ॥
मयापि हि महाबाहो त्वत्प्रियार्थमरिंदम ।कृतो यत्नो महांस्तत्र शमः स्यादिति भारत ।धर्मस्य गतमानृण्यं न स्म वाच्या विवक्षताम् ॥ ४१ ॥
कृतार्थं मन्यते बालः सोऽऽत्मानमविचक्षणः ।धार्तराष्ट्रो बलस्थं च मन्यतेऽऽत्मानमातुरः ॥ ४२ ॥
युज्यतां वाहिनी साधु वधसाध्या हि ते मताः ।न धार्तराष्ट्राः शक्ष्यन्ति स्थातुं दृष्ट्वा धनंजयम् ॥ ४३ ॥
भीमसेनं च संक्रुद्धं यमौ चापि यमोपमौ ।युयुधानद्वितीयं च धृष्टद्युम्नममर्षणम् ॥ ४४ ॥
अभिमन्युं द्रौपदेयान्विराटद्रुपदावपि ।अक्षौहिणीपतींश्चान्यान्नरेन्द्रान्दृढविक्रमान् ॥ ४५ ॥
सारवद्बलमस्माकं दुष्प्रधर्षं दुरासदम् ।धार्तराष्ट्रबलं संख्ये वधिष्यति न संशयः ॥ ४६ ॥
एवमुक्ते तु कृष्णेन संप्रहृष्यन्नरोत्तमाः ।तेषां प्रहृष्टमनसां नादः समभवन्महान् ॥ ४७ ॥
योग इत्यथ सैन्यानां त्वरतां संप्रधावताम् ।हयवारणशब्दश्च नेमिघोषश्च सर्वशः ।शङ्खदुन्दुभिनिर्घोषस्तुमुलः सर्वतोऽभवत् ॥ ४८ ॥
प्रयास्यतां पाण्डवानां ससैन्यानां समन्ततः ।गङ्गेव पूर्णा दुर्धर्षा समदृश्यत वाहिनी ॥ ४९ ॥
अग्रानीके भीमसेनो माद्रीपुत्रौ च दंशितौ ।सौभद्रो द्रौपदेयाश्च धृष्टद्युम्नश्च पार्षतः ।प्रभद्रकाश्च पाञ्चाला भीमसेनमुखा ययुः ॥ ५० ॥
ततः शब्दः समभवत्समुद्रस्येव पर्वणि ।हृष्टानां संप्रयातानां घोषो दिवमिवास्पृशत् ॥ ५१ ॥
प्रहृष्टा दंशिता योधाः परानीकविदारणाः ।तेषां मध्ये ययौ राजा कुन्तीपुत्रो युधिष्ठिरः ॥ ५२ ॥
शकटापणवेशाश्च यानयुग्यं च सर्वशः ।कोशयन्त्रायुधं चैव ये च वैद्याश्चिकित्सकाः ॥ ५३ ॥
फल्गु यच्च बलं किंचित्तथैव कृशदुर्बलम् ।तत्संगृह्य ययौ राजा ये चापि परिचारकाः ॥ ५४ ॥
उपप्लव्ये तु पाञ्चाली द्रौपदी सत्यवादिनी ।सह स्त्रीभिर्निववृते दासीदाससमावृता ॥ ५५ ॥
कृत्वा मूलप्रतीकारान्गुल्मैः स्थावरजङ्गमैः ।स्कन्धावारेण महता प्रययुः पाण्डुनन्दनाः ॥ ५६ ॥
ददतो गां हिरण्यं च ब्राह्मणैरभिसंवृताः ।स्तूयमाना ययू राजन्रथैर्मणिविभूषितैः ॥ ५७ ॥
केकया धृष्टकेतुश्च पुत्रः काश्यस्य चाभिभूः ।श्रेणिमान्वसुदानश्च शिखण्डी चापराजितः ॥ ५८ ॥
हृष्टास्तुष्टाः कवचिनः सशस्त्राः समलंकृताः ।राजानमन्वयुः सर्वे परिवार्य युधिष्ठिरम् ॥ ५९ ॥
जघनार्धे विराटश्च यज्ञसेनश्च सोमकिः ।सुधर्मा कुन्तिभोजश्च धृष्टद्युम्नस्य चात्मजाः ॥ ६० ॥
रथायुतानि चत्वारि हयाः पञ्चगुणास्ततः ।पत्तिसैन्यं दशगुणं सादिनामयुतानि षट् ॥ ६१ ॥
अनाधृष्टिश्चेकितानश्चेदिराजोऽथ सात्यकिः ।परिवार्य ययुः सर्वे वासुदेवधनंजयौ ॥ ६२ ॥
आसाद्य तु कुरुक्षेत्रं व्यूढानीकाः प्रहारिणः ।पाण्डवाः समदृश्यन्त नर्दन्तो वृषभा इव ॥ ६३ ॥
तेऽवगाह्य कुरुक्षेत्रं शङ्खान्दध्मुररिंदमाः ।तथैव दध्मतुः शङ्खौ वासुदेवधनंजयौ ॥ ६४ ॥
पाञ्चजन्यस्य निर्घोषं विस्फूर्जितमिवाशनेः ।निशम्य सर्वसैन्यानि समहृष्यन्त सर्वशः ॥ ६५ ॥
शङ्खदुन्दुभिसंसृष्टः सिंहनादस्तरस्विनाम् ।पृथिवीं चान्तरिक्षं च सागरांश्चान्वनादयत् ॥ ६६ ॥
ततो देशे समे स्निग्धे प्रभूतयवसेन्धने ।निवेशयामास तदा सेनां राजा युधिष्ठिरः ॥ ६७ ॥
परिहृत्य श्मशानानि देवतायतनानि च ।आश्रमांश्च महर्षीणां तीर्थान्यायतनानि च ॥ ६८ ॥
मधुरानूषरे देशे शिवे पुण्ये महीपतिः ।निवेशं कारयामास कुन्तीपुत्रो युधिष्ठिरः ॥ ६९ ॥
ततश्च पुनरुत्थाय सुखी विश्रान्तवाहनः ।प्रययौ पृथिवीपालैर्वृतः शतसहस्रशः ॥ ७० ॥
विद्राव्य शतशो गुल्मान्धार्तराष्ट्रस्य सैनिकान् ।पर्यक्रामत्समन्ताच्च पार्थेन सह केशवः ॥ ७१ ॥
शिबिरं मापयामास धृष्टद्युम्नश्च पार्षतः ।सात्यकिश्च रथोदारो युयुधानः प्रतापवान् ॥ ७२ ॥
आसाद्य सरितं पुण्यां कुरुक्षेत्रे हिरण्वतीम् ।सूपतीर्थां शुचिजलां शर्करापङ्कवर्जिताम् ॥ ७३ ॥
खानयामास परिखां केशवस्तत्र भारत ।गुप्त्यर्थमपि चादिश्य बलं तत्र न्यवेशयत् ॥ ७४ ॥
विधिर्यः शिबिरस्यासीत्पाण्डवानां महात्मनाम् ।तद्विधानि नरेन्द्राणां कारयामास केशवः ॥ ७५ ॥
प्रभूतजलकाष्ठानि दुराधर्षतराणि च ।भक्ष्यभोज्योपपन्नानि शतशोऽथ सहस्रशः ॥ ७६ ॥
शिबिराणि महार्हाणि राज्ञां तत्र पृथक्पृथक् ।विमानानीव राजेन्द्र निविष्टानि महीतले ॥ ७७ ॥
तत्रासञ्शिल्पिनः प्राज्ञाः शतशो दत्तवेतनाः ।सर्वोपकरणैर्युक्ता वैद्याश्च सुविशारदाः ॥ ७८ ॥
ज्याधनुर्वर्मशस्त्राणां तथैव मधुसर्पिषोः ।ससर्जरसपांसूनां राशयः पर्वतोपमाः ॥ ७९ ॥
बहूदकं सुयवसं तुषाङ्गारसमन्वितम् ।शिबिरे शिबिरे राजा संचकार युधिष्ठिरः ॥ ८० ॥
महायन्त्राणि नाराचास्तोमरर्ष्टिपरश्वधाः ।धनूंषि कवचादीनि हृद्यभूवन्नृणां तदा ॥ ८१ ॥
गजाः कङ्कटसंनाहा लोहवर्मोत्तरच्छदाः ।अदृश्यंस्तत्र गिर्याभाः सहस्रशतयोधिनः ॥ ८२ ॥
निविष्टान्पाण्डवांस्तत्र ज्ञात्वा मित्राणि भारत ।अभिसस्रुर्यथोद्देशं सबलाः सहवाहनाः ॥ ८३ ॥
चरितब्रह्मचर्यास्ते सोमपा भूरिदक्षिणाः ।जयाय पाण्डुपुत्राणां समाजग्मुर्महीक्षितः ॥ ८४ ॥
« »